हिन्दुत्व, अयय्यो, मदरफ़कत्व, Oops, Hindutva, Oops, Motherfucktva, period. || अथ ईशोपनिषद् || | ॐ पूर्णमदः पूर्णमिदं पूर्णतः पूर्णमुदंच्यूते | || पूर्णस्य पूर्णमादय पूर्णमेवावशिष्यते || || शान्तिः शान्तिः शान्तिः || अम्बा मा जगदम्बा.

About 132,000 results (0.28 seconds)

Advanced searchSearch HelpGive us feedback

महामूर्खशिरोमणि मोहन भागवत शुभशिर्वाद| अथ महाभारतम्|

व्यास [1906], टी. आर्. कृष्णाचार्य; टी. आर्. व्यासाचार्य, editor(s), ||श्रीः|| श्रीमन्महाभारतम्| सटिप्पणम्|… टी. आर्. कृष्णाचार्येण टी. आर्. ब्यासाचार्येण च अनेकेषां विदुषां साहाय्येन दाक्षिणात्यबहुकोशानुसारेण संशोध्य… प्रकाशितम्| = Sriman Mahabharatam. A New Edition Mainly Based on the South Indian Texts, with Footnotes and Readings, (मुंबापुर्यां : निर्णयसागरमुद्रणयन्त्रे मुद्रयित्वा, 1906-1910)

आदिपर्व

श्रीः

– — अध्यायः 001

(अनुक्रमणिकापर्व।। 1 ।।)

आदौ मङ्गलाचरणं।। 1 ।। नैमिशारण्ये दीर्घसत्रे शौनकादीन्प्रति सौतेरागमनम्।। 2 ।। तत्र शौनकादिभिः सौतिं प्रति भारतकथनचोदना।। 3 ।। सौतिना श्रीमन्नारायणनमस्कारपूर्वकं व्यासस्य भारतनिर्माणकथनम्।। 4 ।। पर्वानुक्रमणिका।। 5 ।।

adi-1-1-0__0 adi-1-1-0x__0।। श्रीवेदव्यासाय नमः।।

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं चैव(व्यासं) ततो जयमुदीरयेत् ।।

adi-1-1-2__2 `नारायणं सुरगुरुं जगदेकनाथं’ भक्तप्रियं सकललोकनमस्कृतं च। त्रैगुण्यवर्जितमजं विभुमाद्यमीशं वन्दे भवघ्नममरासुरसिद्धवन्द्यम्’।।

`नमो धर्माय महते नमः कृष्णाय वेधसे। ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान्’।।

adi-1-1-4__4 ॐ नमो भगवते वासुदेवाय। ॐ नमः पितामहाय। ॐ नमः प्रजापतिभ्यः। ॐ नमः कृष्णद्वैपायनाय। ॐ नमः सर्वविघ्नविनायकेभ्यः।।

adi-1-1-5__5 रोमहर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको नैमिशारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे

सुखासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान्। विनयावनतो भूत्वा कदाचित्सूतनन्दनः।।

adi-1-1-7__7 तमाश्रममनुप्राप्य नैमिशारण्यवासिनः। `उवाच तानृषीन्सर्वान्धन्यो वोऽस्म्यद्यदर्शनात्

adi-1-1-8__8 वेद वैयासिकीः सर्वाः कथा धर्मार्यैसंहिताः। वक्ष्यामि वो द्विजश्रेष्ठाः शृण्वन्त्वद्य तपोधनाः

तस्य तद्वचनं श्रुत्वा नैमिशारण्यवासिनः। चित्रा श्रोतुं कथास्तत्र परिव्रुस्तपस्विनः।।

अभिवाद्य मुनींस्तांस्तु सर्वानेव कुताञ्जलिः। अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिपूजितः।।

अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु। निर्दिष्टमासनं भेजे विनयाद्रौमहर्षणिः।।

सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च। अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः।।

कुत आगम्यते सौते क्वचायं विहृतस्त्वया। कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम।।

एवं पृष्टोऽब्रवीत्सम्यग्यथावद्रौमहर्षणिः। वाक्यं वचनसंपन्नस्तेषां च चरिताश्रयम्।।

adi-1-1-15__15 तस्मिन्सदसि विस्तीर्णे मुनीनां भावितात्मनाम्। सौतिरुवाच। जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः।।

adi-1-1-16__16 समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च। कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः

कथिताश्चापि विधिवद्या वैशंपायनेन वै। श्रुत्वाऽहं ता विचित्रार्था महाभारतसंश्रिताः।।

वहूनि संपरिक्रम्य तीर्थान्यायतनानि च। समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम्।।

गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा। कुरूणां पाण्डवानां च सर्वेषां चहीक्षिताम्।।

दिदृक्षुंरागतस्तस्मात्समीपं भावतामिह। आयुष्मन्तः सर्व एव ब्रह्मभाता हि मे मताः।। अस्मिन्यज्ञे महाभङ्गाः सूर्यपावकवर्चसः।।

adi-1-1-21__21 कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः। भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः

पुराणसंहिताः पुण्याः कथा धर्मार्थसंश्रिताः। इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम्।। adi-1-1-23x__2ऋषय ऊचुः।

द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा। सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम्।।

तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः। सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च।।

भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम्। संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम्।।

जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान्। यथावत्स ऋषिः पृष्टः सत्रे द्वैपायनाज्ञया।।

वेदैश्चतुर्भिः सयुक्तां व्यासस्याद्भुतकर्मणः। संहितां श्रोतुमिच्छामः पुण्यां पापभयापहाम्।। सौतिरुवाच।

आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम्। ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम्।।

adi-1-1-29__29 असच्च सच्चैव च यद्विश्वं सदसतः परम् परावराणां स्रष्टारं पुराणं परमव्ययम्।।

मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम्। नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम्।।

महर्षेः पूजितस्येह सर्वलोकैर्महात्मनः। प्रवक्ष्यामि मतं पुण्यं व्यासस्याद्भुतकर्मणः।।

`नमो भगवते तस्मै व्यासायामिततेजसे। यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम्।।

सर्वाश्रमाभिशमनं सर्वतीर्थावगाहनम्। न तथा फलद सूते नारायणकथा यथा।।

नास्ति नारायणसमं न भूतं न भविष्यति। एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम्’।।

आचख्युः कवयः केचित्संप्रत्याचक्षते परे। आख्यास्यन्ति तथैवान्य इतिहासमिमं भुवि।।

इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम्। विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः।।

अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यधनुषैः। छन्दोवृत्तैश्च विविधैरन्वितं विदुषांप्रियम्।।

तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम्। इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः।।

`पुण्ये हिमवतः पादे मेध्ये गिरिगुहालये। विशोध्य देहं धर्मात्मा दर्भसंस्तरमाश्रितः।।

adi-1-1-40__40 शुचिः सनियमो व्यासः शान्तात्मातपसि स्थितः भारतस्येतिहासस्य धर्मेणान्वीक्ष्य तां गतिम्।।

adi-1-1-41__41 प्रविश्य योगं ज्ञानेन सोऽपश्यत्सर्वमन्ततः।।

निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसा वृते। बृहदण्डमभूदेकं प्रजानां बीजमव्ययम्।।

युगस्यादिनिमित्तं तन्महद्दिव्यं प्रचक्षत। व्यस्मिंस्तच्छ्रूयते सत्यंज्योतिर्ब्रह्म सनातनम्।।

अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां मतम्। अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम्।।

यस्मिन्पितामहो जज्ञे प्रभुरेकः प्रजापतिः। ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ।।

प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्तवै। ततः प्रजानां पतयः प्राभवन्नेकविंशतिः।।

पुरुषश्चाप्रमेयात्मा यं सर्वऋषयो विदु। विश्वेदेवास्तथाऽऽदित्या वसवोऽथाश्विनावपि।।

यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा। ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षिसत्तमाः।।

महर्षयश्च बहवः सर्वैः समुदिता गुणैः। आतो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तया।।

संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात्। यच्चान्यदपि तत्सर्वं संभूतं लोकसाक्षिकम्।।

यदिदं दृश्यते किंचिद्बूतं स्थावरजङ्गमम्। पुनःसंक्षिप्यते सर्वं जगत्प्राप्ते युगक्षये।।

यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानि तान्येव तथा भावा युगादिषु।।

एवमेतदनाद्यन्तं भूतसंघातकारकम्। अनादिनिधनं लोके चक्रं संपरिवर्तते।।

त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च। त्रयस्त्रिंशच्च देवनां सृष्टिः संक्षेपलक्षणा।।

दिवः पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः। सविता स ऋचीकोऽर्को भानुराशावहो रविः।।

पुत्रा विवस्वतः सर्वे मनुस्तेषां तथाऽवरः। देवभ्राट् तनयस्तस्य सुभ्राडिति ततः स्मृतः।।

सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः। दशज्योतिः शतज्योतिः सहस्रज्योतिरेव च।।

दशपुत्रसहस्राणि दशज्योतेर्महात्मनः। ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः।।

भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः। तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च।।

ययातीक्ष्वाकृवंशश्च राजर्षीणां च सर्वशः। संभूता बहवो वंशा भूतसर्गाः सुविस्तराः।।

भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत्। वेदा योगः सविज्ञानो धर्मोऽर्थः काम एव च।।

धर्मार्थकामयुक्तानि शास्त्राणि विविधानि च। लोकयात्राविधान च सर्व तद्दृष्टवानृषिः।।

adi-1-1-63__63 `नीतिर्भरतवंशस्य विस्तारश्चैव सर्वशः।’ इतिहासाः सहव्याख्या विविधाश्रुतयोऽपि च।।

adi-1-1-64__64 इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम्। `संक्षेपेणेतिहासस्य ततो वक्ष्यति विस्तरम्।।’

विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षिप्य चाब्रवीत्। इष्टं हि विदुषां लोके समासव्यासधारणम्।।

मन्वादि भारतं केचिदास्तीकादि तथाऽपरे। तथोपरिचराद्यन्ये विप्राः सम्यगधीयिरे।।

विविधं संहिताज्ञानं दीपयन्ति मनीषिणः। व्याख्यातुं कुशलाः केचिद्ग्रन्थान्धारयितुं परे।।

तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम्। इतिहासमिमं चक्रे पुण्यं सत्यवतीत्सुतः।।

पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः। मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः।।

क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा। त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान्।।

उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च। जगाम तपसे धीमान्पुनरेवाश्रमं प्रति।।

तेषु जातेषु वृद्धेषु गतेषु परमां गतिम्। अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः।।

जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः। शशास शिष्यमासीनं वैशंपायनमन्तिके।।

स सदस्यैः सहासीनं श्रावयामास भारतम्। कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः।।

विस्तारं कुरुवंशस्य गान्धार्या धर्मशीलताम्। क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोब्रवीत्।।

वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्। दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः।।

इदं शतसहस्रं तु श्लोकानां पुण्यकर्मणाम्। उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम्।।

चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम्। उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः।।

ततोऽध्यर्धशतं भूयः संक्षेपं कृतवानृषिः। अनुक्रमणिकाध्यायं वृत्तान्तं सर्वपर्वणाम्।।

तस्याख्यानवरिष्ठस्य कृत्वा द्वैपायनः प्रभुः। कथमध्यापयानीह शिष्यानित्यन्वचिन्तयत्।।

तस्य तच्चिन्तितं ज्ञात्वा ऋषेर्द्वैपायनस्य च। तत्राजगाम भगवान्ब्रह्मा लोकगुरुः स्वयम्।।

प्रीत्यर्थं तस्य चैवर्षेर्लोकानां हितकाम्यया। तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः।।

adi-1-1-83__83 आसनं कल्पयामास सर्वैर्मुनिगणैर्वृतः।।

हिरण्यमर्भमासीनं तस्मिंस्तु परमासने। परिवृत्यासनभ्याशे वासवेयः स्थितोऽभवत्।।

अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना। निषसादासनाभ्याशे प्रीयमाणः शुचिस्मितः।।

उवाच स महातेजा ब्रह्माणं परमेष्ठिनम्। कृतं मयेदं भगवन्काव्यं परमपूजितम्।।

ब्रह्मन्वेदरहस्य च यच्चान्यत्स्थापितं मया। साङ्गोपनिषदां चैव वेदानां विस्तरक्रिया।।

इतिहासपुरापानामुन्मेषं निमिषं च यत्। भूतं भव्यं भविष्यच्च त्रिविधं कालसंज्ञितम्।।

जरामृत्युभयव्याधिभावाभावविनिश्चयः। विविधस्य च धर्मस्य ह्याश्रमाणां च लक्षणम्।।

चातुर्वर्ण्यविधानं च पुराणानां च कृत्स्नशः। तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः।।

ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह। ऋचो यजूषि सामानि वेदाध्यात्मं तथैव च।।

न्यायशिक्षा चिकित्सा च दानं पाशुपतं तथा। इति नैकाश्रयं जन्म दिव्यमानुषसंज्ञितम्।।

तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम्। नदीनां पर्वतानां च वनानां सागरस्य च।।

पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम्। वाक्यजातिविशेषाश्च लोकयात्राक्रमश्च यः।।

यच्चापि सर्वगं वस्तु तच्चैव प्रतिपादितम्। परं न लेखकः कश्चिदेतस्य भुवि विद्यते।। ब्रह्मोवाच।

तपोविशिष्टदपि वै वसिष्ठान्मुनिपुंगवात्। मन्ये श्रेष्ठव्यं त्वां वै रहस्यज्ञानवेदनात्।।

जन्मप्रभृति सत्यां ते वेद्मि गां ब्रह्मवादिनीम्। त्वयाच काव्यमित्युक्तं तस्मात्काव्यं भविष्यति।।

अस्य काव्यस्य कवयो न समर्था विशेषणे। विशेषणे गृहस्थस्य शेषास्त्रय इवाश्रमाः।।

`जडान्धबधिरोन्मत्तं तमोभूतं जगद्भवेत्। यदि ज्ञानहुताशेन त्वया नोज्ज्वलियं भवेत्।।

तमसान्धस्य लोकस्य वेष्टितस्य स्वकर्मभिः। ज्ञानाञ्जनशलाकाभिर्बुद्धिनेत्रोत्सवः कृतः’।।

धर्मार्थकाममोक्षार्थैः समासव्यासकीर्तनैः। त्वया भारतसूर्येण नृणां विनिहतं तमः।।

पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाप्रकाशिना। नृणां कुमुदसौम्यानां कृतं बुद्धिप्रसादनम्।।

इतिहासप्रदीपेन मोहावरणघातिना। लोकगर्भगृहं कृत्स्नं यथावत्संप्रकाशितम्।।

संग्रहाध्यायबीजो वै पौलोमास्तीकमूलवान्। संभवस्कन्धविस्तारः सभापर्वविटङ्कवान्।।

आरण्यपर्वरूपाढ्यो विराटोद्योगसारवान्। भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान्।।

कर्णपर्वसितैः पुष्पैः शल्यपर्वसुगन्धिभिः। स्त्रीपर्वैषीकविश्रामः शान्तिपर्वमहाफलः।।

अश्वमेधामृतसस्त्वाश्रमस्थानसंश्रयः। मौसलश्रुतिसंक्षेपः शिष्टद्विजनिषेवितः।।

सर्वेषां कविमुख्यानामुपजीव्यो भविष्यति। पर्जन्यइव भूतानामक्षयो भारद्रुमः।।

adi-1-1-109__109 काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने। सौतिरुवाच।

एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम्। भगवान्स जगत्स्रष्टा ऋषिदेवगणैः सह।।

adi-1-1-111__111 ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः।।

स्मृतमात्रो गणेशानो भक्तचिन्तितपूरकः। तत्राजगाम विघ्नेशो वेदव्यासो यतः स्थितः।।

पूजितश्चोपविष्टश्च व्यासेनोक्तस्तदानघ। लेखको भारतस्यास्य भव त्वं गणनायक।। मयैव प्रोच्यमानस्य मनसा कल्पितस्य च।।

श्रुत्वैतत्प्राह विघ्नेशो यदि मे लेखनी क्षणम्। लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम्।।

व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित्। ओमित्युक्त्वा गणेशोपि बभूव किल लेखकः।।

ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात्। यस्मिन्प्रतिज्ञया प्राह मुनिर्द्वैपायनस्त्विदम्।।

अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च। अहं वेद्मि शुको वेत्ति संजयो वेत्ति वा न वा।।

तच्छ्लोककूटमद्यापि ग्रथितं सुदृढं मुने। भेत्तुं न शक्यतेऽर्थस्यं गूढत्वात्प्रश्रितस्य च।।

सर्वज्ञोपि गणेशो यत्क्षणमास्ते विचारयन्। तावच्चकार व्यासोपि श्लोकानन्यान्बहूनपि।।

तस्य वृक्षस्य वक्ष्यामि शाखापुष्पफलोदयम्। स्वादुमेध्यरसोपेतमच्छेद्यममरैरपि।।

अनुक्रमणिकाध्यायं वृत्तान्तं सर्वपर्वणाम्। इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम्।।

adi-1-1-122__122 ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभु षष्टिं शतसहस्राणि चकारान्यां स संहिताम्। त्रिंशच्छतसहस्रं च देवलोके प्रतिष्ठितम्।।

पित्र्ये पञ्चदश प्रोक्तं रक्षोयक्षे चतुर्दश। एकं शतसहस्रं तु मानुषेषु प्रतिष्ठितम्।।

नारदोऽश्रावयद्देवानसितो देवलः पितृन्। गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः।।

`वैशंपायनविप्रर्षिः श्रावयामास पार्थिवम्। पारिक्षितं महात्मानं नाम्ना तु जनमेजयम्’।।

अस्मिंस्तु मानुषे लोके वैशंपायन उक्तवान्। शिष्यो व्यासस्य धर्मात्मा सर्ववेदविदां वरः।।

adi-1-1-127__127 एकं शतसहस्रं तु मयोक्तं वै निबोधत।।

adi-1-1-128__128 दुर्योधनो मन्युमयो महाद्रुमः कर्णः स्कन्धः शकुनिस्तस्य शाखाः। दुश्शासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषि।

adi-1-1-129__129 युधिष्ठिरे धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः। माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च।।

पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च। अरण्ये मृगयाशीलो न्यवसत्सजनस्तथा।।

मृगव्यवायनिधनात्कृच्छ्रां प्राप स आपदम्। जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः।।

मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति। धर्मानिलेन्द्रांस्ताभिः साऽऽजुहाव सुतवाञ्छया।।

`ततो धर्मोपनिषदं भूत्वा भर्तुः प्रिया पृथा। धर्मानिलेन्द्रांस्ताभिः साऽऽजुहाव सुतवाञ्छया।।

adi-1-1-134__134 तद्दत्तोपनिषन्माद्री चाश्विनावाजुहाव च। जाताः पार्थास्ततः सर्वे कुन्त्या माद्र्याश्च मन्त्रतः।’ तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः।।

मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च। `तेषु जातेषु सर्वेषु पाण्डवेषु महात्मसु।।

adi-1-1-136__136 माद्र्या तु सह संगम्य ऋषिशापप्रभावतः। मृतः पाण्डुर्महापुण्ये शतशृङ्गे महागिरौ।।’

ऋषिभिश्च समानीता धार्तराष्ट्रान्प्रति स्वयम्। शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः।।

पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः। पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः।।

तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा। शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम्।।

आहुः केचिन्न तस्यैते तस्यैत इति चापरे। यदा चिरमृतः पाण्डुः कथं तस्येतदि चापरे।।

स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम्। उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः।।

तस्मिन्नुपरते शब्दे दिशः सर्वा निनादयन्। अन्तर्हितानां भूतानां निःस्वनस्तुमुलीऽभवत्।।

पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिःस्वनाः। आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत्।।

तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसंभवः। शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः।।

तेऽधीत्य निखिलान्वेदाञ्शास्त्राणि विविधानि च। न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः।।

युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन्। धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च।।

गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च। तुतोष लोकः सकलस्तेषां शौर्यगुणेन च।।

समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम्। प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम्।।

ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम्। आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत्।।

स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान्। आजहारार्जुनो राज्ञो राजसूयं महाक्रतुम्।।

अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः। युधिष्ठिरेण संप्राप्तो राजसूयो महाक्रतुः।।

सुनयाद्वासुदेवस्य भीमार्जुनबलेन च। घातयित्वा जरासन्धं चैद्यं च बलगर्वितम्।।

दुर्योधनं समागच्छन्नर्हणानि ततस्ततः। मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च।।

विचित्राणि च वासांसि प्रावारावरणानि च। कम्बलाजिनरत्नानि राङ्कवास्तरणानि च।।

समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम्। ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत।।

विमानप्रतिमां तत्र मयेन सुकृतां सभाम्। पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत।।

तत्रावहसितश्चासीत्प्रस्कन्दन्निव संभ्रमात्। प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत्।।

स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च। कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः।।

अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः। तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान्।।

नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत। द्यूतादीननयान्घोरान्विविधांश्चाप्युपैक्षत।।

निरस्य विदुरं भीष्मं द्रोणं शारद्वतं कृपम्। विग्रहे तुमुले तस्मिन्दहन्क्षत्रं परस्परम्।।

जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम्। दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा।।

धृतराष्ट्रश्चिरं ध्यात्वा संजयं वाक्यमब्रवीत्। शृणु संजय सर्वं मे नचासूयितुमर्हसि।।

श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः। न विग्रहे मम मतिर्न च प्रीये कुलक्षये।।

न मे विशेषः पुत्रेषु स्वेषु पाम्डुसुतेषु वा। वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः।।

अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत्। मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम्।।

राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः। तच्चावहसनं प्राप्य सभारोहणदर्शने।।

अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे। निरुत्साहश्च संप्राप्तुं सुश्रियं क्षत्रियोऽपि सन्।।

गान्धारराजसहितश्छद्मद्यूतममन्त्रयत्। तत्र यद्यद्यथा ज्ञातं मयां संजय तच्छृणु।।

श्रुत्वा तु मम वाक्यानि बुद्धियुक्तानि तत्त्वतः। ततो ज्ञास्यसि मां सौते प्रज्ञाटचक्षुषमित्युत।।

adi-1-1-171__171 यदाऽश्रौषं धनुरायम्य चित्रं विद्धं लक्ष्यं पातितं वै पृथिव्याम्। कृष्णां हृतां प्रेक्षतां सर्वराज्ञां तदा नाशंसे विजयाय संजय।।

adi-1-1-172__172 यदाऽश्रौषं द्वारकायां सुभद्रां प्रसह्योढां माधवीमर्जुनेन। इन्द्रप्रस्थं वृष्णिवीरौ च यातौ तदा नाशंसे विजयाय संजय।।

adi-1-1-173__173 यदाऽश्रौषं देवराजं प्रवृष्टं शरैर्दिव्यैर्वारितं चार्जुनेन। अग्निं तथा तर्पितं खाण्डवे च तदा नाशंसे विजयाय संजय।।

adi-1-1-174__174 यदाऽश्रौषं जातुषाद्वेश्मनस्ता- न्मुक्तान्पार्थान्पञ्च कुन्त्या समेतान्। युक्तं चैषां विदुरं स्वार्थसिद्ध्यै तदा नाशंसे विजयाय संजय।।

adi-1-1-175__175 यदाऽश्रौषं द्रौपदीं रङ्गमध्ये लक्ष्यं भित्त्वा निर्जितामर्जुनेन। शूरान्पञ्चालान्पाण्डवेयांश्च युक्तां- स्तदा नाशंसे विजयाय संजय।।

adi-1-1-176__176 यदाऽश्रौषं मागधानां वरिष्ठं जरासन्धं क्ष्वमध्ये ज्वलन्तम्। दोर्भ्यां हतं भीमसेनेन गत्वा तदा नाशंसे विजयाय संजय।।

adi-1-1-177__177 यदाऽश्रौषं दिग्जये पाण्डुपुत्रै- र्वशीकृतान्भूमिपालान्प्रसह्य। महाक्रतुं राजसूयं कृतं च तदा नाशंसे विजयाय संजय।।

adi-1-1-178__178 यदाऽश्रौषं द्रौपदीमश्रुकण्ठीं सभां नीतां दुःखितामेकवस्त्राम्। रजस्वलां नाथवतीमनाथव- त्तदा नाशंसे विजयाय संजय।।

adi-1-1-179__179 यदाऽश्रौषं वाससां तत्र राशिं समाक्षिपत्कितवो मन्दबुद्धिः। दुःशासनो गतवान्नैवं चान्तं तदा नाशंसे विजयाय संजय।।

adi-1-1-180__180 यदाऽश्रौषं हृतराज्यं युधिष्ठिरं पराजितं सौबलेनाक्षवत्याम्। अन्वागतं भ्रातृभिरप्रमेयै- स्तदा नाशंसे विजयाय संजय।।

adi-1-1-181__181 यदाश्रौषं विविधास्तत्र चेष्टा धर्मात्मनां प्रस्थितानां वनाय। ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय संजय।।

adi-1-1-182__182 यदाऽश्रौषं स्नातकानां सहस्रै- रन्वागतं धर्मराजं वनस्थम्। भिक्षाभुजां ब्राह्मणानां महात्मनां तदा नाशंसे विजयाय संजय।।

adi-1-1-184__183 `यदाऽश्रौषं वनवासेन पार्था- न्समागतान्महर्षिभिः पुराणैः। उपास्यमानान्सगणैर्जातसख्यां- स्तदा नाशंसे विजयाय संजर्य।।’

adi-1-1-185__184 यदाश्रौषं त्रिदिवस्थं धनंजयं शक्रात्साक्षाद्दिव्यमस्त्रं यथावत्। अधीयानं शंसितं सत्यसन्धं तदा नाशंसे विजयाय संजय।।

adi-1-1-186__185 यदाऽश्रोषं कालकेयास्ततस्ते पौलोमानो वरदानाच्च दृप्ताः। देवैरजेया निर्जिताश्चार्जुनेन तदा नाशंसे विजयाय संजय।।

adi-1-1-187__186 यदाऽश्रौषमसुराणां वधार्थे किरीटिनं यान्तममित्रकर्शनम्। कृतार्थं चाप्यागतं शक्रलोका- त्तदा नाशंसे विजयाय संजय।।

adi-1-1-188__187 `यदाऽश्रौषं तीर्थयात्राप्रवृत्तं पाण्डोः सुतं सहितं लोमशेन। बृहदश्वादक्षहृदयं च प्राप्तं तदा नाशंसे विजयाय संजय।।’

adi-1-1-189__188 यदाऽश्रौषं वैश्रवणेन सार्धं समागतं भीमन्यांश्च पार्थान्। तस्मिन्देशे मानुषाणामगम्ये तदा नाशंसि विजयाय संजया।।

adi-1-1-190__189 यदाऽश्रौषं घोषयात्रागतानां बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन। स्वेषां सुतानां कर्णबुद्धौ रतानां तदा नाशंसे विजयाय संजय।।

adi-1-1-191__190 यदाऽश्रौषं यक्षरूपेण धर्मं समागतं धर्मराजेन सूत। प्रश्नान्कांश्चिद्विब्रुवाणं च सम्यक् तदा नाशंसे विजयाय संजय।।

adi-1-1-192__191 यदाऽश्रौषं न विदुर्मामकास्तान् प्रच्छन्नरूपान्वसतः पाण्डवेयान्। विराटराष्ट्रे सह कृष्णया च तदा नाशंसे विजयाय संजय।।

adi-1-1-193__192 `यदाऽश्रौषं कीचकानां वरिष्ठं निषूदितं भ्रातृशतेन सार्धम्। द्रौपद्यर्थे भीमसेनेन सङ्ख्ये तदा नाशंसे विजयाय संजय।।’

adi-1-1-194__193 यदाऽश्रौषं मामकानां वरिष्ठा- न्धनंजयेनैकरथेन भग्नान्। विराटराष्ट्रे वसता महात्मना तदा नाशंसे विजयाय संजय।।

adi-1-1-195__194 यदाऽश्रौषं सत्कृतं मत्स्यराज्ञा सुतां दत्तामुत्तरामर्जुनाय। तां चार्जुनः प्रत्यगृह्णात्सुतार्थे तदा नाशंसे विजयाय संजय।।

adi-1-1-196__195 यदाऽश्रौषं निर्जितस्याधनस्य प्रव्राजितस्य स्वजनात्प्रच्युतस्य। अक्षौहिणीः सप्त युधिष्ठिरस्य तदा नाशंसे विजयाय संजय।। 196 ।।

adi-1-1-197__196 यदाऽश्रौषं माधवं वासुदेवं सर्वात्मना पाण्डवार्थे निविष्टम्। यस्येमां गां विक्रममेकमाहु- स्तदा नाशंसे विजयाय संजय।।

adi-1-1-198__197 यदाऽश्रौषं नरनारायणौ तौ कृष्णार्जुनौ वदतो नारदस्य। अहं द्रष्टा ब्रह्मलोके च सम्यक् तदा नाशंसे विजयाय संजय।।

adi-1-1-199__198 यदाऽश्रौषं लोकहिताय कृष्णं शमार्थिनमुपयातं कुरूणाम्। शमं कुर्वाणमकृतार्थं च यातं तदा नाशंसे विजयाय संजय।। 199 ।।

adi-1-1-200__199 यदाऽश्रौषं कर्णदुर्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य। तं चात्मानं बहुधा दर्शयानं तदा नाशंसे विजयाय संजय।।

adi-1-1-201__200 यदाऽश्रौषं वासुदेवे प्रयाते रथस्यैकामग्रतस्तिष्ठमानाम्। आर्तां पृथां सान्त्वितां केशवेन तदा नाशंसे विजयाय संजय।।

adi-1-1-202__201 यदाऽश्रौषं मन्त्रिणं वासुदेवं तथा भीष्मं शान्तनवं च तेषाम्। भारद्वाजं चाशिषोऽनुब्रुवाणं तदा नाशंसे विजयाय संजय।।

adi-1-1-203__202 यदा कर्णो भीष्ममुवाच वाक्यं नाहं योत्स्ये युध्यमाने त्वयीति। हित्वा सेनामपचक्राम चापि तदा नाशंसे विजयाय संजय।।

adi-1-1-204__203 यदाऽश्रौषं वासुदेवार्जुनौ तौ तथा धनुर्गाण्डिवमप्रमेयम्। त्रीण्युग्रवीर्याणि समागतानि तदा नाशंसे विजयाय संजय।।

adi-1-1-205__204 यदाऽश्रौषं कश्ललेनाभिपन्ने रथोपस्थे सीदमानेऽर्जुने वै। कृष्णं लोकान्दर्शयानं शरीरे तदा नाशंसे विजयाय संजय।।

adi-1-1-206__205 यदाऽश्रौषं भीष्ममित्रकर्शनं निघ्नन्तमाजावयुतं रथानाम्। नैषां कश्चिद्वध्यते ख्यातरूप- स्तदा नाशंसे विजयाय संजय।।

adi-1-1-207__206 यदाऽश्रौषं चापगेयेन सङ्ख्ये स्वयं मृत्युं विहितं धार्मिकेण। तच्चाकार्षुः पाण्डवेयाः प्रहृष्टा- स्तदा नाशंसे विजयाय संजय।।

adi-1-1-208__207 यदाऽश्रौषं भीष्ममत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम्। शिखण्डिनं पुरतः स्थापयित्वा तदा नाशंसे विजयाय संजय।।

adi-1-1-209__208 यदाऽश्रौषं शरतल्पे शयानं वृद्धं वीरं सादितं चित्रपुङ्खैः। भीष्मं कृत्वा सोमकानल्पशेषां- स्तदा नाशंसे विजयाय संजय।।

adi-1-1-210__209 यदाऽश्रौषं शान्तनवे शयाने पानीयार्थे चोदितेनार्जुनेन। भूमिं भित्त्वा तर्पितं तत्र भीष्मं तदा नाशंसे विजयाय संजय।।

adi-1-1-211__210 यदाश्रौषं शुक्रसूर्यौ च युक्तौ कौन्तेयानामनुलोमौ जयाय। नित्यं चास्माञ्श्वापदा भीषयन्ति तदा नाशंसे विजयाय संजय।।

adi-1-1-212__211 यदा द्रोणो विविधानस्त्रमार्गा- न्निदर्शयन्समरे चित्रयोधी। न पाण्डवाञ्श्रेष्ठतरान्निहन्ति तदा नाशंसे विजयायं संजय।।

adi-1-1-213__212 यदाऽश्रौषं चास्मदीयान्महारथा- न्व्यवस्थितानर्जुनस्यान्तकाय। संशप्तकान्निहतानर्जुनेन तदा नाशंसे विजयाय संजय।।

adi-1-1-214__213 यदाऽश्रौषं व्यूहमभेद्यमन्यै- र्भारद्वाजेनात्तशस्त्रेण गुप्तम्। भित्त्वा सौभद्रं वीरमेकं प्रविष्टं तदा नाशंसे विजयाय संजय।।

adi-1-1-215__214 यदाऽभिमन्युं परिवार्य बालं सर्वे हत्त्वा हृष्टरूपा बभूवुः। महारथाः पार्थमशक्नुवन्त- स्तदा नाशंसे विजयाय संजय।।

adi-1-1-216__215 यदाऽश्रौषमभिमन्युं निहत्य हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान्। क्रोधादुक्तं सैन्धवे चार्जुनेन तदा नाशंसे विजयाय संजय।।

adi-1-1-217__216 यदाऽश्रौषं सैन्धवार्थे प्रतिज्ञां प्रतिज्ञातां तद्वधायार्जुनेन। सत्यां तीर्णां शत्रुमध्ये च तेन तदा नाशंसे विजयाय संजय।।

adi-1-1-218__217 यदाऽश्रौषं श्रान्तहये धनंजये मुक्त्वा हयान्पाययित्वोपवृत्तान्। पुनर्युक्त्वा वासुदेवं प्रयातं तदा नाशंसे विजयाय संजय।।

adi-1-1-219__218 यदाऽश्रौषं वाहनेष्वक्षमेषु रथोपस्थे तिष्ठता पाण्डवेन। सर्वान्योधान्वारितानर्जुनेन तदा नाशंसे विजयाय संजय।।

adi-1-1-220__219 यदाऽश्रौषं नागबलैः सुदुःसहं द्रोणानीकं युयुधानं प्रमथ्य। यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ तदा नाशंसे विजयाय संजय।।

adi-1-1-221__220 यदाऽश्रौषं कर्णमासाद्य मुक्तं वधाद्भीमं कुत्सयित्वा वचोभिः। धनुष्कोट्याऽऽतुद्य कर्णेन वीरं तदा नाशंसे विजयाय संजय।।

adi-1-1-222__221 यदा द्रोणः कृतवर्मा कृपश्च कर्णो द्रौणिर्मद्रराजश्च शूरः। अमर्षयन्सैन्धवं वध्यमानं तदा नाशंसे विजयाय संजय।।

adi-1-1-223__222 यदाऽश्रौषं देवराजेन दत्तां दिव्यां शक्तिं व्यंसितां माधवेन। घटोत्कचे राक्षसे घोररूपे तदा नाशंसे विजयाय संजय।।

adi-1-1-224__223 यदाऽश्रौषं कर्णघटोत्कचाभ्यां युद्धे मुक्तां सूतपुत्रेण शक्तिम्। यया वध्यः समरे सव्यसाची तदा नाशंसे विजयाय संजय।।

adi-1-1-225__224 यदाऽश्रौषं द्रोणमाचार्यमेकं धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम्। रथोपस्थे प्रायगतं विशस्तं तदा नाशंसे विजयाय संजय।।

adi-1-1-226__225 यदाऽश्रौषं द्रौणिना द्वैरथस्थं माद्रीसुतं नकुलं लोकमध्ये। समं युद्धे मण्डलेभ्यश्चरन्तं तदा नाशंसे विजयाय संजय।।

adi-1-1-227__226 यदा द्रोणे निहते द्रोणपुत्रो नारायणं दिव्यमस्त्रं विकुर्वन्। नैषामन्तं गतवान्पाण्डवानां तदा नाशंसे विजयाय संजय।।

adi-1-1-228__227 यदाऽश्रौषं भीमसेनेन पीतं रक्तं भ्रातुर्युधि दुःशासनस्य। निवारितं नान्यतमेन भीमं तदा नाशंसे विजयाय संजय।।

adi-1-1-229__228 यदाऽश्रौषं कर्णमत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम्। तस्मिन्भ्रातृणां विग्रहे देवगुह्ये तदा नाशंसे विजयाय संजय।।

adi-1-1-230__229 यदाऽश्रौषं द्रोणपुत्रं च शूरं दुःशासनं कृतवर्माणमुग्रम्। युधिष्टिरं धर्मराजं जयन्तं तदा नाशंसे विजयाय संजय।।

adi-1-1-231__230 यदाऽश्रौषं निहतं मद्रराजं रणे शूरं धर्मराजेन सूत। सदा सङ्ग्रामे स्प्रधते यस्तु कृष्णं तदा नाशंसे विजयाय संजय।।

adi-1-1-232__231 यदाऽश्रौषं कलहद्यूतमूलं मायाबलं सौबलं पाण्डवेन। हतं सङ्ग्रामे सहदेवेन पापं तदा नाशंसे विजयाय संजय।।

adi-1-1-233__232 यदाऽश्रौषं श्रान्तमेकं शयानं ह्रदं गत्वा स्तम्भयित्वा तदम्भः। दुर्योधनं विरथं भग्नशक्तिं तदा नाशंसे विजयाय संजय।।

adi-1-1-234__233 यदाऽश्रौषं पाण्डवांस्तिष्ठमानान् गत्वा ह्रदे वासुदेवेन सार्धम्। अमर्षणं धर्षयतः सुतं मे तदा नाशंसे विजयाय संजय।।

adi-1-1-235__234 यदाऽश्रौषं विविधांश्चित्रमार्गान् गदायुद्धे मण्डलशश्चरन्तम्। मिथ्या हतं वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय संजय।।

adi-1-1-236__235 यदाऽश्रौषं द्रोणपुत्रादिभिस्तै- र्हतान्पञ्चालान्द्रौपदेयांश्च सुप्तान्। कृतं बीभत्समयशस्यं च कर्म तदा नाशंसे विजयाय संजय।।

adi-1-1-237__236 यदाऽश्रौषं भीमसेनानुयाते- नाश्वत्थाम्ना परमास्त्रं प्रयुक्तम्। क्रुद्धेनैषीकमवधीद्येन गर्भं तदा नाशंसे विजयाय संजय।।

adi-1-1-238__237 यदाऽश्रौषं ब्रह्मशिरोऽर्जुनेन स्वस्तीत्युक्त्वाऽस्त्रमस्त्रेण शान्तम्। अश्वत्थाम्ना मणिरत्नं च दत्तं तदा नाशंसे विजयाय संजय।।

adi-1-1-239__238 यदाऽश्रौषं द्रोणपुत्रेण गर्भे वैराट्या वै पात्यमाने महास्त्रैः। संजीवयामीति हरेः प्रतिज्ञां तदा नाशंसे विजयाय संजय।।

adi-1-1-240__239 द्वैपायनः केशवो द्रोणपुत्रं परस्पेरणाभिशापैः शशाप। बुद्ध्वा चाहं बुद्धिहीनोऽद्य सूत संतप्ये वै पुत्रपौत्रैश्च हीनः।।

adi-1-1-241__240 शोच्या गान्धारी पुत्रपौत्रैर्विहीना तथा वध्वा पितृभिर्भ्रातृभिश्च। कृतं कार्यं दुष्करं पाण्डवेयैः प्राप्तं राज्यमसपत्नं पुनस्तैः।।

adi-1-1-242__241 कष्टं युद्धे दश शेषाः श्रुता मे त्रयोऽस्माकं पाण्डवानां च सप्त। द्व्यूना विंशतिराहताऽक्षौहिणीनां तस्मिन्सङ्ग्रामे भैरवे क्षत्रियाणाम्।।

तमस्त्वतीव विस्तीर्णं मोह आविशतीव माम्। संज्ञां नोपलभे सूत मनो विह्वलतीव मे।। सौतिरुवाच।

इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहु दुःखितः। मूर्च्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत्।। धृतराष्ट्र उवाच।

संजयैवं गते प्राणांस्त्यक्तुमिच्छामि मा चिरम्। स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे।। सौतिरुवाच।

तं तथा वादिनं दीनं विलपन्तं महीपतिम्। निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः।।

adi-1-1-247__246 गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत्। संजय उवाच। श्रुतवानसि वै राजन्महोत्साहान्महाबलान्।।

द्वैपायनस्य वदतो नारदस्य च धीमतः। महत्सु राजवंशेषु गुणैः समुदितेषु च।।

जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः। धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः।।

अस्मिँल्लोके यशः प्राप्य ततः कालवशं गतान्। शैब्यं महारथं वीरं सृंजयं जयतां वरम्।।

सुहोत्रं रन्तिदेवं च काक्षीवन्तमतौशिजम्। बाह्लीकं दमनं चैद्यं शर्यातिमजितं नलम्।।

विश्वामित्रममित्रघ्नमम्बरीषं महाबलम्। मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च।।

रामं दाशरथिं चैव शशबिन्दुं भगीरथम्। कृतवीर्यं महाभागं तथैव जनमेजयम्।।

ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम्। `चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा।।

इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा। पुत्रशोकाभितप्ताय पुरा श्वैत्याय कीर्तितम्।।

तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः। महारथा महात्मानः सर्वैः समुदिता गुणैः।।

पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाद्युतिः। अणुहो युवनाश्वश्च ककुत्स्थो विक्रमी रघुः।।

विजयो वीतिहोत्रोऽह्गो भवः श्वेतो बृहद्गुरुः। उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः।।

दम्भोद्भवः परो वेनः सगरः संकृतिर्निमिः। अजेयः परशुः पुण्ड्रः शंभुर्देवावृधोऽनघः।।

देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः। महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः।।

सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः। जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुचिव्रतः।।

बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः। धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः।।

अविक्षिच्चपलो धूर्तः कृतबन्धुर्दृढेषुधिः। महापुराणसंभाव्यः प्रत्यङ्गः परहा श्रुतिः।।

एते चान्ये च राजानः शतशोऽथ सहस्रशः। श्रूयन्ते शतशश्चान्ये सङ्ख्याताश्चैव पद्मशः।।

हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः। राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तरः।।

येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च। माहात्म्यमपि चास्तिक्यं सत्यं शौचं दयाऽर्जवम्।।

विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः। सर्वर्द्धिगुणसंपन्नास्ते चापि निधनं गताः।।

तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना। लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्छोचितुमर्हसि।।

श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः। येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत।।

निग्रहानुग्रहौ चापि विदितौ ते नराधिप। नात्यन्तमेवानुवृत्तिः कार्या ते पुत्ररक्षणे।।

भवितव्यं तथा तच्च नानुशोचितुमर्हसि। दैवं पुरुषकारेण को निवर्तितुमर्हति।।

विधातृविहितं मार्गं न कश्चिदतिवर्तते। कालमूलमिदं सर्वं भावाभावौ सुखासुखे।।

कालः सृजति भूतानि कालः संहरते प्रजाः। संहरन्तं प्रजाः कालं कालः शमयते पुनः।।

कालो विकुरुते भावान्सर्वांल्लोके शुभाशुभान्। कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः।।

कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः। कालः सर्वेषु भूतेषु चरत्यविधतः समः।।

अतीतानागता भावा ये च वर्तन्ति सांप्रतम्। तान्कालनिर्मितान्बुद्ध्वा न संज्ञां हातुमर्हसि।। सौतिरुवाच।

इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम्। आश्वास्य स्वस्थमकरोत्सूतो गावल्गणिस्तदा।।

धृतराष्ट्रोऽपि तच्छ्रुत्वा धृतिमेव समाश्रयत्। दिष्ट्येदमागतमिति मत्त्वा स प्राज्ञसत्तमः।।

लोकानां च हितार्थाय कारुण्यान्मुनिसत्तमः। अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत्।।

adi-1-1-280__279 विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः। भारताध्ययनं पुण्यमपि पादमधीयतः। श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः।।

देवा देवर्षयो ह्यत्र तथा ब्रह्मर्षयोऽमलाः। कीर्त्यन्ते शुमकर्माणस्तथा यक्षा महोरगाः।।

भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः। स हि सत्यमृतं चैव पवित्रं पुण्यमेव च।।

शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम्। यस्य दिव्यानि कर्माणि कथन्ति मनीषिणः।।

असत्सत्सदसच्चैव यस्माद्विश्वं प्रवर्तते। सन्ततिश्च प्रवृत्तिश्च जन्ममृत्युपुनर्भवाः।।

अध्यात्मं श्रूयतें यत्र पञ्चभूतगुणात्मकम्। अव्यक्तादि परं यच्च स एव परिगीयते।।

यं ध्यायन्ति सदा मुक्ता ध्यानयोगबलान्विताः। प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम्।।

श्रद्दधानः सदा युक्तः सदा धर्मपरायणः। आसेवन्निममध्यायं नरः पापात्प्रमुच्यते।।

अनुक्रमणिकाध्यायं भारतस्येममादितः। आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति।।

उभे सन्ध्ये जपन्किंचित्सद्यो मुच्येत किल्बिषात्। अनुक्रमण्या यावत्स्यादह्नारात्र्या च संचितम्।।

भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च। नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा।।

आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा। ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्।।

यथैतानीतिहासानां तथा भारतमुच्यते। यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः।।

अक्षय्यमन्नपानं वै पितृंस्तस्योपतिष्ठते। इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्।।

बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति। कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते।।

भ्रूणहत्यादिकं चापि पापं जह्यादसंशयम्। य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि।।

अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः। यश्चैनं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः।।

स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः। एकतश्चतुरो वेदा भारतं चैतदेकतः।।

पुरा किल सुरैः सर्वैः समेत्य तुलया धृतम्। चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा।।

तदाप्रभृति लोकेऽस्मिन्महाभारतमुच्यते। महत्त्वे च गुरुत्वे च ध्रियमाणं यतोऽधिकम्।।

महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते। निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते।।

adi-1-1-301__300 तपो नकल्कोऽध्ययनं नकल्कः स्वाभाविको वेदविधिर्नकल्कः। प्रसह्य वित्ताहरणं नकल्क- स्तान्येव भावोपहतानि कल्कः।।

इति श्रीमन्माहाभारते आदिपर्वणि अनुक्रमणिकापर्वणि प्रथमोऽध्यायः।। 1 ।। ।। अनुक्रमणिकापर्व समाप्तम् ।।

1-1-1 श्रीलक्ष्मीनृसिंहाय नमः।। श्रीहयग्रीवाय नमः।। श्रीवेदव्यासाय नमः।। इह खलु भगवान्पाराशर्यः परमकारुणिको म्दमतीननुग्रहीतुं चतुर्दशविद्यास्थानान्येकत्र दिदर्शयिषुर्महाभारताख्यमितिहासं प्रणेष्यन्प्रारिप्सितस्य निष्प्रत्यूहारिपूरणाय प्रचयगमनाय च मङ्गलं रचयन् शिष्यशिक्षायै लोकरूपेम निबघ्नन्नर्यात्तत्र प्रेक्षावत्प्रवृत्त्यङ्गमभिधेयादि दर्शयति।। नारायणमिति।। नरोत्तमं पुरुषोत्तमं नारायणं नरं देवी सरस्वतीं (व्यासं) चैव नमस्कृत्य जयं भारताख्यमितिहासं उदीरयेत्।। 1-1-2 लक्षालङ्कारव्याख्यानरीत्यायमाद्यः श्लोकः।। 1-1-3 कतिपयकोशरीत्यायस्पद्यः।। 3 ।। 1-1-5 रोमहर्षणपुत्रः रोमाणि हर्षयाञ्चके श्रोतॄणा यः स्वभाषितैः। कर्मणा प्रथितस्तेन रोमहर्षणसंज्ञया। इति कौर्मे निरुक्तार्थनाम्नः पुत्रः। अग्रश्रवाः उग्रस्य नृसिंहस्य श्रवः श्रवणं यस्य सः। पौराणिकः पुराणे कृतश्रमः। नैमिशारण्ये वायवीये। एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते। यत्रास्य शीर्यते नेमिः स देशस्तपसः शुभः। इत्युक्त्वा सूर्यसंकाशं चक्रं सृष्ट्वा मनोमयम्। प्रणिपत्य महादेवं विससर्ज पितामहः। तेपि हृष्टतरा विप्राः प्रणम्य जगतां प्रभुम्. प्रययुस्तस्य चक्रस्य यत्र नेमिर्व्यशीर्यत। तद्वनं तेन विख्यातं नैमिशं मुनिपूजितम्। इति उक्तरूपे। नैमिषेति पाठे तु वाराहे। एवं कृत्वा ततो देवो मुनि गौरमुखं तदा। उवाच निमिषेणेदं निहतं दानवं बलं। अरण्येऽस्मिंस्ततस्त्वेतन्नैमिषारण्यसंज्ञितं। इति निर्वचनं द्रष्टव्यं। शुनकस्य मुनेरपत्यं शौनकः। कुलपतेः। एको दशसहस्राणि योऽन्नदानादिना भरेत्। स वै कुलपतिः इत्युक्तलक्षणस्य। सत्रे ये यजमानास्तएव ऋत्विजो यस्मिन्बहुकर्तृके क्रतौ स सत्रसंज्ञ तस्मिन्।। 5 ।। 1-1-7 नैमिशारण्यवासिनः तान्सर्वानृषीनुवाचेत्यन्वयः।। 7 ।। 1-1-8 अहं तपोधनाः सिकीः सर्वाः कथा वेद जानामि।। 8 ।। 1-1-11 निर्दिष्टं इहोपविश्यतामिति दर्शितम्।। 11 ।। 1-1-12 प्रस्तावयन् उपोद्धातयन्।। 12 ।। 1-1-13 विहृतः नीतः।। 13 ।। 1-1-14 तेषां मुनीनां चादन्येषां राजादीनां च यानि चरितानि तेषामाश्रयभूतम्। भावितात्मनां शोधितचित्तानाम्।। 14 ।। 1-1-18 समन्तपञ्चकं समन्तात् पञ्चकं परशुरामकृतहृदपञ्चकं यस्मिंस्तत्। स्यमन्तपञ्चकमित्यपि पाठो दृश्यते।। 18 ।। 1-1-21 ब्रवीमि किमहं द्विजाः अहं च पुराणादिष्वन्यतमं किं ब्रवीमि तदाज्ञापयतेति शेषः।। 21 ।। 1-1-25 संस्कारोपगतां पदादिव्युत्पत्तिमतीम्। ब्राह्मो वाचं। ब्राह्मी तु भारती भाषेत्यमरः।। 25 ।। 1-1-28 मङ्गलाचरणपूर्वकं मुनिभिः प्रार्थितमर्थं वक्तुं प्रतिजानीते आद्यमित्यदिचतुर्भिः। हरिं नमस्कृत्य महर्षेर्मतं प्रवक्ष्यामीत्यन्वयः। पुरुहूतं पुरुभिर्बहुभिर्होतृभिः हूतं आहूतं। पुरुभिः सामगैः स्तुतं। ऋतं सत्यं। एकश्चासावक्षरश्च तं। एकं अद्वितीयं समाधिकरहितमिति वा। अक्षरं नाशरहितं। व्यख्यव्यक्तं रामकृष्णादिरूपेण दृश्यं। ज्ञानानन्दादिरूपेण मन्देरदृश्यं।। 28 ।। 1-1-30 मङ्गल्यं मङ्गलप्रदं।। 30 ।। 1-1-36 ज्ञानं ज्ञानसाधनं इदं भारत त्रिषु लोकेषु प्रतिष्ठितम्।। 36 ।। 1-1-37 समयैः संकेतैः। छन्दोवृत्तैः त्रिष्टुबादिछन्दोन्तीतैरिन्द्रवज्रादिभिर्वृत्तैः।। 37 ।। 1-1-45 यस्मिन् ब्रह्माण्डे।। 45 ।। 1-1-52 प्रतिकल्पं सृष्टेः समाननामरूपत्वमाह यथेति।। 52 ।। 1-1-53 कल्पानामानन्त्यमाह एवमिति।। 53 ।। 1-1-54 एवं जडसृष्टिमुक्त्वा चेतनसृष्टिमाह त्रयन्निंशदिति।। 54 ।। 1-1-61 भूतस्थानानि नृणां वासस्थानानि नगरादीनि।। 61 ।। 1-1-64 इह सर्वमनुकान्तं अनुकमेण उक्तं।। 64 ।। 1-1-65 समासः सङ्क्षेपः। व्यासो विस्तारः।। 65 ।। 1-1-66 भारतारम्भे मतभेदमाह मन्वादीति। मन्वादि मनुर्मन्त्रः नारायणं नमस्कृत्येति। ॐ नमो भगवते वासुदेवायेति वा तदादि। प्रस्तीकं आस्तीकचरितं तदादि। उपरिचरो वसुः तच्चरितादि वा।। 66 ।। 1-1-67 बह्वर्थत्वाद्विविधं संहिताज्ञानं दीपयन्ति प्रकाशयन्ति।। 67 ।। 1-1-69 महुः सत्यवत्याः। गाङ्गेयस्य भीष्मस्य।। 69 ।। 1-1-70 क्षत्र भार्यासु अम्बिकादिषु।। 70 ।। 1-1-71 परमां गतिं मृत्युं।। 71 ।। 1-1-73 शशासं त्वममन् भारतं श्रावयेत्याज्ञापितवान्।। 73 ।। 1-1-84 वसोः अपत्यं स्त्री वास्त्री तस्याः अपत्यं वासवेयो व्यासः।। 84 ।। 1-1-85 कृष्णो व्यासः।। 85 ।। 1-1-98 विशेषणे अतिशायने।। 98 ।। 1-1-104 विटङ्काः पक्ष्युपवेशनस्थानानि।। 104 ।। 1-1-105 सारो मज्जा।। 105 ।। 1-1-106 विश्रामः छाया।। 106 ।। 1-1-108 आश्रमस्थानसंश्रयः आश्रमवासिकस्यण्डिलः। मौसलश्रुतिसंक्षेपः मौसलादिग्रन्थः श्रुतिस्थानीयदीर्घशाखान्तः।। 108 ।। 1-1-112 यतः यत्र देशे।। 112 ।। 1-1-115 अबुद्ध्वा अर्थमिति शेषः। ओमित्यङ्गीकारे।। 115 ।। 1-1-116 अन्थग्रन्थिं ग्रन्थे दुर्भेद्यस्थानं।। 116 ।। 1-1-131 कृच्छ्रां आपदं व्यवायकाले मरिष्यसीत्येवं शापरूपां। तत्र आपदि एवं सत्यामपि पार्थानां पाण्डवानां जन्मप्रभृति आचारविधिक्रमः अभूदिति शेषः।। 131 ।। 1-1-132 आचारविधिक्रममेवाह। मात्रोरिति। मात्रोः कुन्तीमाद्योः। धर्मोपनिषदं प्रति आपदि अपत्यार्थे विशिष्टः पुमान्प्रार्थनीय इत्येवरूपं धर्मरहस्यं प्रति। अभ्युपपत्तिः अङ्गीकारः।। 132 ।। 1-1-137 धार्तराष्ट्रान्धृतराष्ट्रसंबन्धिगृहान्।। 137 ।। 1-1-142 अन्तर्हितानां भूतानां निःस्वनः पाण्डुपुत्रा एवैते इत्येवंरूपा अशरीरवाक्।। 142 ।। 1-1-148 भर्तारं स्वयमेव वृणुत इति भर्तृस्वयंवरां।। 148 ।। 1-1-150 राज्ञो युधिष्ठिरस्य।। 150 ।। 1-1-157 अनभिजातवत् ग्रामीणवत्।। 157 ।। 1-1-160 धृतराष्ट्रो यद्विवादानन्वमोदत यच्चानयानुपैक्षत तस्माद्वासुदेवस्य कोपः समभवत्।। 160 ।। 1-1-161 दहन् अदहत्।। 161 ।। 1-1-173 प्रवृष्टं वर्षणे प्रवृत्तं।। 173 ।। 1-1-181 चेष्टाः बाहुवीक्षणाद्याः।। 181 ।। 1-1-182 स्नातकानां समापितविद्याव्रतानां ब्राह्मणानां।। 182 ।। 1-1-185 शंसितं प्रशस्यं।। 185 ।। 1-1-197 इमां गां पृथिवीं यस्य वासुदेवस्य एकं विक्रमं पदमात्रमाहुः।। 197 ।। 1-1-198 यौ नरनारायणौ ब्रह्मलोके अहं द्रष्टा अद्राक्षं तौ कृष्णार्जुनौ अर्जुनकृष्णौ इति वदतो नारदस्य नारदात्।। 198 ।। 1-1-200 बहुधा विश्वरूपत्वेन।। 200 ।। 1-1-202 तेषां पाण्डवानां।। 202 ।। 1-1-209 सोमकानेव अल्पशेषान्कृत्वा।। 209 ।। 1-1-210 चोदितमर्जुनं च। गां भित्त्वाम्बो वारुणेनाददाने इति पाठान्तरं।। 210 ।। 1-1-223 व्यंसितां व्यर्थीकृतां।। 223 ।। 1-1-237 क्रुद्धेनैषीकं चावधीद्यन्न गर्भं इति पाठान्तरम्।। 1-1-280 पूयन्ते नश्यन्ति।। 280 ।। 1-1-294 कार्ष्णं कृष्णेन व्यासेन प्रोक्तं।। 294 ।। 1-1-301 ननु वेदेभ्यः कथमिदमधिकं अत्र युद्धप्रधानानां कर्मणां बन्धनहेतूनां कथनादुपनिषदि तावन्मोक्षसाधनानां धर्माणां ब्रह्मणश्च प्रतिपादनादिति चेत्तत्राह। तप इति। तपः कृच्छ्रचान्द्रायणादि नकल्कः पापनाशकं। स्वाभाविकः स्वस्ववर्णाश्रमादिपुरस्कारेण विहितः। वेदविधिः वेदोक्तो विधिः सन्ध्योपासनादिः। प्रसह्य प्रकर्षेण सोढ्वा क्षुधादिदुःखमपि सोढ्वा। वित्तस्य आहरणं शिलोञ्छादिना अर्जनं। तान्येव तपआदीन्येव भावेन फलानुसन्धानेन उपहतानि प्रतिषिद्धानि। कल्कः पापहेतुः। तथाचात्रापि मोक्षधर्मादिषु तत्रतत्र निष्कामकर्मणां प्रतिपादनं ब्रह्मनिरूपणं चास्त्येव। अतो वेदादप्युत्तमं भारतं।। 301 ।। इति टिप्पणे प्रथमोऽध्यायः।। 1 ।।

अध्यायः 002

(अथ पर्वसंग्रहपर्व।। 2 ।।)

समन्तपञ्चकाख्यानं।। 1 ।। अक्षौहिण्यादिपरिमाण।। 2 ।। आदिपर्वादिसर्वपर्वणां संक्षेपेण वृत्तान्तकथनं।। 3 ।। नारतश्रवणफलकथनं।। 4 ।।

adi-1-2-0__301 adi-1-2-0x__11ऋषय ऊचुः।

समन्तपञ्चकमिति यदुक्तं सूतनन्दन। एतत्सर्वं यथातत्त्वं श्रोतुमिच्छामहे वयम्।। सौतिरुवाच।

शृणुध्वं मम भो विप्रा ब्रुवतश्च कथाः शुभाः। समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः।।

त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः। असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः।।

स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः। समन्तपञ्चके पञ्च चकार रुधिरह्रदान्।।

स तेषु रुधिराम्भःसु ह्रदेषु क्रोधमूर्च्छितः। पितॄन्संतर्पयामास रुधिरेणेति नः श्रुतम्।।

अथर्चीकादयोऽभ्येत्य पितरो राममब्रुवन्। राम राम महाभाग प्रीताः स्म तव भार्गव।।

अनया पितृभक्त्या च विक्रमेण तव प्रभो। वरं वृणीष्व भद्रं ते यमिच्छसि महाद्युते।। राम उवाच।

यदि मे पितरः प्रीता यद्यनुग्राह्यता मयि। यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया।।

अतश्च पापान्मुच्येऽहमेष मे प्रार्थितो वरः। ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः।।

एवं भविष्यतीत्येवं पितरस्तमथाब्रुवन्। तं क्षमस्वेति निषिषिधुस्ततः स विरराम ह।।

तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम्। समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम्।।

येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते। तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः।।

अन्तरे चैव संप्राप्ते कलिद्वापरयोरभूत्। समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः।।

तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते। अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया।।

समेत्य तं द्विजास्ताश्च तत्रैव निधं गताः। एतन्नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः।।

पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः। तदेतत्कथितं सर्वं मया ब्राह्मणसत्तमाः।। यथा देशः स विख्यातस्त्रिषु लोकेषु सुव्रताः।। adi-1-2-17x__14ऋषय ऊचुः।

अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन। एतदिच्छामहे श्रोतुं सर्वमेव यथातथम्।।

अक्षौहिण्याः परीमाणं नराश्वरथदन्तिनाम्। यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव।। सौतिरुवाच।

एको रथो गजश्चैको नराः पञ्च पदातयः। त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते।।

पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः। त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते।।

त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः। स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः।।

चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी। अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः।।

अक्षौहिण्याः प्रसंख्याता रथानां द्विजसत्तमाः। संख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः।।

शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः। गजानां च परीमाणमेतदेव विनिर्दिशेत्।।

ज्ञेयं शतसहस्रं तु सहस्राणि नवैव तु। नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः।।

पञ्च षष्टिसहस्राणि तथाश्वानां शतानि च। दशोत्तराणि षट् प्राहुर्यथावदिह संख्यया।।

एतामक्षौहिणीं प्राहुः संख्यातत्त्वदितो जनाः। यां वः कथितवानस्मि विस्तरेण तपोधनाः।।

एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोः। अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डिताष्टादशैव तु।।

समेतास्तत्र वै देशे तत्रैव निधं गताः। कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा।।

अहानि युयुधे भीष्मो दशैव परमास्त्रवित्। अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम्।।

अहनी युयुधे द्वे तु कर्णः परबलार्दनः। शल्योऽर्धदिवसं चैव गदायुद्धमतः परम्।।

तस्यैव दिवसस्यान्ते द्रौणिहार्दिक्यगौतमाः। प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम्।।

यत्तु शौनक सत्रे ते भारताख्यानमुत्तमम्। जनमेजयस्य तत्सत्रे व्यासशिष्येण धीमता।।

कथितं विस्तरार्थं च यशो वीर्यं महीक्षिताम्। पौष्यं तत्र च पौलोममास्तीकं चादितः स्मृतम्।।

विचित्रार्थपदाख्यानमनेकसमयान्वितम्। प्रतिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः।।

आत्मेव वेदितव्येषु प्रियेष्विव हि जीवितम्। इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम्।।

अनाश्रित्येदमाख्यानं कथा भुवि न विद्यते। आहारमनपाश्रित्य शरीरस्येव धारणम्।।

तदेतद्भारतं नाम कविभिस्तूपजीव्यते। उदयतेप्सुभिर्भृत्यैरभिजात इवेश्वरः।।

इतिहासोत्तमे यस्मिन्नर्पिता बुद्धिरुत्तमा। स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक्।।

तस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः। सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च।।

भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः। पर्वानुक्रमणी पूर्वं द्वितीयः पर्वसंग्रहः।।

पौष्यं पौलोममास्तीकमादिरंशावतारणम्। ततः संभवपर्वोक्तमद्भुतं रोमहर्षणम्।।

दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते। ततो बकवधः पर्व पर्व चैत्ररथं ततः।।

ततः स्वयंवरो देव्याः पाञ्चाल्याः पर्व चोच्यते। क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्।।

विदुरागमनं पर्व राज्यलाभस्तथैव च। अर्जुनस्य वने वासः सुभद्राहरणं ततः।।

सुभद्राहरणादूर्ध्वं ज्ञेया हरणहारिका। ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम्।।

सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम्। जरासन्धवधः पर्व पर्व दिग्विजयं तथा।।

पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते। ततश्चार्घाभिहरणं शिशुपालवधस्ततः।।

द्यूतपर्व ततः प्रोक्तमनुद्यूतमः परम्। तत आरण्यकं पर्व किर्मीरवध एवच।।

अर्जुनस्याभिगमनं पर्व ज्ञेयमतः परम्। ईश्वरार्जुनयोर्युद्धं पर्व कैरातसंज्ञितम्।।

इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम्। नलोपाख्यानमपि च धार्मिकं करुणोदयम्।।

तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः। जटासुरवधः पर्व यक्षयुद्धमतः परम्।।

निवातकवचैर्युद्धं पर्व चाजगरं ततः। मार्कण्डेयसमास्या च पर्वानन्तरमुच्यते।।

adi-1-2-54__355 संवादश्च ततः पर्व द्रौपदीसत्यभामयोः। घोषयात्रा ततः पर्व ततः प्रायोपवेशनेम्। मन्त्रस्य निश्चयं चैव मृगस्वप्नोद्भवं ततः।।

व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च। द्रौपदीहरणं पर्व जयद्रथविमोक्षणम्।।

रामोपाख्यानमत्रैव पर्व ज्ञेयमतः परम्। पतिव्रताया माहात्म्यं सावित्र्याश्चैवमद्भुतम्।।

कुण्डलाहरणं पर्व ततः परमिहोच्यते। आरणेयं ततः पर्व वैराटं तदनन्तरम्।। पाण्डवानां प्रवेशश्च समयस्य च पालनम्।।

कीचकानां वधः पर्व पर्व ग्रोग्रहणं ततः। अभिमन्योश्च वैराट्याः पर्व वैवाहिकं स्मृतम्।।

उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम्। ततः संजययानाख्यं पर्व ज्ञेयमतः परम्।।

प्रजागरं तथा पर्व धृतराष्ट्रस्य चिन्तया। पर्व सानत्सुजातं वै गुह्यमध्यात्मदर्शनम्।।

यानसन्धिस्ततः पर्व भगवद्यानमेव च। मातलीयमुपाख्यानं चरितं गालवस्य च।।

सावित्रं वामदेव्यं च वैन्योपाख्यानमेव च। जामदग्न्यमुपाख्यानं पर्व षोडशराजकम्।।

सभाप्रवेशः कृष्णस्य विदुलापुत्रशासनम्। उद्योगः सैन्यनिर्याणं विश्वोपाख्यानमेव च।।

ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः। `मन्त्रस्य निश्चयं कृत्वा कार्यस्य समनन्तरम्।।

adi-1-2-65__366 श्वेतस्य वासुदेवेन चित्रं बहुकथाश्रयम्।’ निर्याणं च ततः पर्व कुरुपाण्डवसेनयोः।।

रथातिरथसंख्या च पर्वोक्तं तदनन्तरम्। उलूकदूतागमनं पर्वामर्षविवर्धनम्।।

अम्बोपाख्यानमत्रैव पर्व ज्ञेयमतः परम्।। भीष्माभिषेचनं पर्व ततश्चाद्भुतमुच्यते।।

जम्बूखम्डविनिर्माणं पर्वोक्तं तदनन्तरम्।। भूमिपर्व ततः प्रोक्तं द्वीपविस्तारकीर्तनम्।।

adi-1-2-69__370 `दिव्यं चक्षुर्ददौ यत्र संजयाय महामुनिः।’ पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः। द्रोणाभिषेचनं पर्व संशप्तकवधस्ततः।।

अभिमन्युवधः पर्व प्रतिज्ञा पर्व चोच्यते। जयद्रथवधः पर्व घटोत्कचवधस्ततः।।

ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम्। मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते।।

कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम्। ह्रदप्रवेशनं पर्व गदायुद्धमतः परम्।।

सारस्वतं ततः पर्व तीर्थवंशानुकीर्तनम्। अत ऊर्ध्वं सुबीभत्सं पर्व सौप्तिकमुच्यते।।

ऐषीकं पर्व चोद्दिष्टमत ऊर्ध्वं सुदारुणम्। जलप्रदानिकं पर्व स्त्रीविलापस्ततः परम्।।

श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम्। चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः।।

आभिषेचनिकं पर्व धर्मराजसर्य धीमतः। प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम्।।

शान्तिपर्व ततो यत्र राजधर्मानुशासनम्। आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम्।।

शुकप्रश्नाभिगमनं ब्रह्मप्रश्नानुशासनम्। प्रादुर्भावश्च दुर्वासःसंवादश्चैव मायया।।

ततः पर्व परिज्ञेयमानुशासनिकं परम्। स्वर्गारोहणिकं चैव ततो भीष्मस्य धीमतः।।

ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम्। अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम्।।

पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च। नारदागमनं पर्व ततः परमिहोच्यते।।

मौसलं पर्व चोद्दिष्टं ततो घोरं सुदारुणम्। महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः।।

हरिवंशस्ततः पर्व पुराणं खिलसंज्ञितम्। विष्णुपर्व शिशोश्चर्या विष्णोः कंसवधस्तथा।।

भविष्यं पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत्। एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना।।

यथावत्सूतपुत्रेण रौमहर्षणिना ततः। उक्तानि नैमिशारण्ये पर्वाण्यष्टादशैव तु।।

समासो भारतस्यायमत्रोक्तः पर्वसंग्रहः। पौष्यं पौलोममास्तीकमादिरंशावतारणम्।।

संभवो जतुवेश्माख्यं हिडिम्बबकयोर्वधः। तथा चैत्ररथं देव्याः पाञ्चाल्याश्च स्वयंवरः।।

क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्। विदुरागमनं चैव राज्यलाभस्तथैव च।।

वनवासोऽर्जुनस्यापि सुभद्राहरणं ततः। हरणाहरणं चैव दहनं खाण्डवस्य च।।

मयस्य दर्शनं चैव आदिपर्वणि कथ्यते। पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम्।।

पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः। आस्तीके सर्वनागानां गरुडस्य च संभवः।।

क्षीरोदमथं चैव जन्मोच्चैःश्रवसस्तथा। यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च।।

कथेयमभिनिर्वृत्ता भारतानां महात्मनाम्। विविधाः संभवा राज्ञामुक्ताः संभवपर्वणि।।

अन्येषां चैव शूराणामृषेर्द्वैपायनस्य च। अंशावतरणं चात्र देवानां परिकीर्तितम्।।

दैत्यानां दानवानां च यक्षाणां च महौजसाम्। नागानामथ सर्पाणां गन्धर्वाणां पतत्त्रिणाम्।।

अन्येषां चैव भूतानां विविधानां समुद्भवः। महर्षेराश्रमपदे कण्वस्य च तपस्विनः।।

शकुन्तलायां दुष्यन्ताद्भरतश्चापि जज्ञिवान्। यस्य लोकेषु नाम्नेदं प्रथितं भारतं कुलम्।।

वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम्। शन्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि।।

तेजोंशानां च संपातो भीष्मस्याप्यत्र संभवः। राज्यान्निवर्तनं तस्य ब्रह्मचर्यव्रते स्थितिः।।

प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च। हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः।।

विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम्। धर्मस्य नृषु संभूतिरणीमाण्डव्यशापजा।।

कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा। धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च संभवः।।

वारणावतयात्रा च मन्त्रो दुर्योधनस्य च। कूटस्य धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति।।

हितोपदेशश्च पथि धर्मराजस्य धीमतः। विदुरेण कृतो यत्र हितार्थं म्लेच्छभाषया।।

विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया। निषाद्याः पञ्चपुत्रायाः सुप्ताया जतुवेश्मनि।।

पुरोचनस्य चात्रैव दहनं संप्रकीर्तितम्। पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम्।।

तत्रैव च हिडिम्बस्य वधो भीमान्महाबलात्। घटोत्कचस्य चोत्पत्तिंरत्रैव परिकीर्तिता।।

महर्षेर्दर्शनं चैव व्यासस्यामिततेजसः। तदाज्ञयैकचक्रायां ब्राह्मणस्य निवेशने।।

अज्ञातचर्यया वासो यत्र तेषां प्रकीर्तितः। बकस्य निधनं चैव नागराणां च विस्मयः।।

संभवश्चैव कृष्णाया धृष्टद्युम्नस्य चैव ह। ब्राह्मणात्समुपश्रुत्य व्यासवाक्यप्रचोदिताः।।

द्रौपदीं प्रार्थयन्तस्ते स्वयंवरदिदृक्षया। पञ्चालानभितो जग्मुर्यत्र कौतूहलान्विताः।।

अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा। सख्यं कृत्वा ततस्तेन तस्मादेव च शुश्रुवे।।

तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम्। भ्रातृभिः सहितः सर्वैः पञ्चालानभितो ययौ।।

पाञ्चालनगरे चापि लक्ष्यं भित्त्वा धनञ्जयः। द्रौपदीं लब्धवानत्र मध्ये सर्वमहीक्षिताम्।।

भीमसेनार्जुनौ यत्र संरब्धान्पृथिवीपतीन्। शल्यकर्णौ च तरसा जितवन्तौ महामृधे।।

दृष्ट्वा तयोश्च तद्वीर्यमप्रमेयममानुषम्। शङ्कमानौ पाण्डवांस्तान् रामकृष्णौ महामती।।

जग्मतुस्तैः समागन्तुं शालां भार्गववेश्मनि। पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च।।

पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते। द्रौपद्या देवविहीतो विवाहश्चाप्यमानुषः।।

क्षत्तुश्च धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति। विदुरस्य च संप्राप्तिर्दर्शनं केशवस्य च।।

खाण्डवप्रस्थवासश्च तथा राज्यार्धसर्जनम्। नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया।।

सुन्दोपसुन्दयोस्तद्वदाख्यानं परिकीर्तितम्। अनन्तरं च द्रौपद्या सहासीनं युधिष्ठिरम्।।

अनु प्रविश्य विप्रार्थे फाल्गुनो गृह्य चायुधम्। मोक्षयित्वा गृहं गत्वा विप्रार्थं कृतनिश्चयः।।

समयं पालयन्वीरो वनं यत्र जगाम ह। पार्थस्य वनवासे च उलूप्या पथि सङ्गमः।।

पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च। तत्रैव मोक्षयामास पञ्च सोऽप्सरसः शुभाः।।

शापाद्ग्राहत्वमापन्ना ब्राह्मणस्य तपस्विनः। प्रभासतीर्थे पार्थेन कृष्णस्य च समागमः।।

द्वारकायां सुभद्रा च कामयानेन कामिनी। वासुदेवस्यानुमते प्राप्ता चैव किरीटिना।।

गृहीत्वा हरणं प्राप्ते कृष्णे देवकिनन्दने। अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः।।

द्रौपद्यास्तनयानां च संभवोऽनुप्रकीर्तितः। विहारार्थं च गतयोः कृष्णयोर्यमुनामनु।।

संप्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम्। मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम्।।

महर्षेर्मन्दपालस्य शार्ङ्ग्या तनयसंभवः। इत्येतदादिपर्वोक्तं प्रथमं बहु विस्तरम्।।

अध्यायानां शते द्वे तु संख्याते परमर्षिणा। सप्तविंशतिरध्याया व्यासेनोत्तमतेजसा।।

अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च। श्लोकाश्च चतुराशीतिर्मुनिनोक्ता महात्मना।।

adi-1-2-133__434 द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते। सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम्।

लोकपालसभाख्यानं नारदाद्देवदर्शिनः। राजसूयस्य चारम्भो जरासन्धवधस्तथा।।

गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम्। तथा दिग्विजयोऽत्रैव पाम्डवानां प्रकीर्तितः।।

राज्ञामागमनं चैव सार्हणानां महक्रतौ। राजसूयेऽर्घसंवादे शिशुपालवधस्तथा।।

यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च। दुर्योधनस्यावहासो भीमेन च सभातले।।

यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत्। यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत्।।

यत्र द्यूतार्णवे मग्नां द्रौपदीं नौरिवार्णवात्। धृतराष्ट्रो महाप्राज्ञः स्नुषां परमदुःखिताम्।।

तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः। पुनरेव ततो द्यूते समाह्वयत पाण्डवान्।।

जित्वा स वनवासाय प्रेषयामास तांस्ततः। एतत्सर्वं सभापर्व समाख्यातं महात्मना।।

अध्यायाः सप्ततिर्ज्ञेयास्तथा चाष्टौ प्रसंख्यया। श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च।।

श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्द्विजोत्तमाः। अतः परं तृतीयं तु ज्ञेयमारण्यकं महत्।।

वनवासं प्रयातेषु पाण्डवेषु महात्मसु। पौरानुगमनं चैव धर्मपुत्रस्य धीमतः।।

अन्नौषधीनां च कृते पाण्डवेन महात्मना। द्विजानां भरणार्थं च कृतमाराधनं रवेः।।

धौम्योपदेशात्तिग्मांशुप्रसादादन्नसंभः। हितं च ब्रुवतः क्षत्तुः परित्यागोऽम्बिकासुतात्।।

त्यक्तस्य पाण्डुपुत्राणां समीपगमनं तथा। पुनरागमनं चैव धृतराष्ट्रस्य शासनात्।।

कर्णप्रोत्साहनाच्चैव धार्तराष्ट्रस्य दुर्मतेः। वनस्थान्पाण्डवान्हन्तुं मन्त्रो दुर्योधनस्यच।।

तं दुष्टभावं विज्ञाय व्यासस्यागमनं द्रुतम्। निर्याणप्रतिषेधश्च सुरभ्याख्यानमेव च।।

मैत्रेयागमनं चात्र राज्ञश्चैवानुशासनम्। शापोत्सर्गश्च तेनैव राज्ञो दुर्योधनस्य च।।

किर्मीरस्य वधश्चात्र भीमसेनेन संयुगे। वृष्णीनामागमश्चात्र पाञ्चालानां च सर्वशः।।

श्रुत्वा शकुनिना द्यूते निकृत्या निर्जितांश्च तान्। क्रुद्धस्यानुप्रशमनं हरेश्चैव किरीटिना।।

परिदेवनं च पाञ्चाल्या वासुदेवस्य सन्निधौ। आश्वासनं च कृष्णेन दुःखार्तायाः प्रकीर्तितम्।।

तथा सौभवधाख्यानमत्रैवोक्तं महर्षिणा। सुभद्रायाः सपुत्रायाः कृष्णेन द्वारकां पुरीम्।।

नयनं द्रौपदेयानां धृष्टद्युम्नेन चैव ह। प्रवेशः पाण्डवेयानां रम्ये द्वैतवने ततः।।

धर्मराजस्य चात्रैव संवादः कृष्णया सह। संवादश्च तथा राज्ञा भीमस्यापि प्रकीर्तितः।।

समीपं पाण्डुपुत्राणां व्यासस्यागमनं तथा। प्रतिश्रुत्याथ विद्याया दानं राज्ञो महर्षिणा।।

गमनं काम्यके चापि व्यासे प्रतिगते ततः। अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः।।

महादेवेन युद्धं च किरातवपुषा सह। दर्शनं लोकपालानामस्त्रप्राप्तिस्तथैव च।।

महेन्द्रलोकगमनमस्त्रार्थे च किरीटिनः। यत्र चिन्ता समुत्पन्ना धृतराष्ट्रस्य भूयसी।।

दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः। युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम्।।

नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम्। दमयन्त्याः स्थितिर्यत्र नलस्य चरितं तथा।।

तथाक्षहृदयप्राप्तिस्तस्मादेव महर्षितः। लोमशस्यागमस्तत्र स्वर्गात्पाण्डुसुतान्प्रति।।

वनवासगतानां च पाण्डवानां महात्मनाम्। स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै।।

संदेशादर्जुनस्यात्र तीर्थाभिगमनक्रिया। तीर्थानां च फलप्राप्तिः पुण्यत्वं चापि कीर्तितम्।।

पुलस्त्यतीर्थयात्रा च नारदेन महर्षिणा। तीर्थयात्रा च तत्रैव पाण्डवानां महात्मनां।।

adi-1-2-167__468 तथा यज्ञविभूतिश्च गयस्यात्र प्रकीर्तिता।।

आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम्। लोपामुद्राभिपमनमपत्यार्थमृषेस्तथा।।

ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः। जामदग्न्यस्य रामस्य चरितं भूरितेजसः।।

कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते। प्रभासतीर्थे पाण्डूनां वृष्णिभिश्च समागमः।।

सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः। शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ।।

ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः। मान्धातुश्चाप्युपाख्यानं राज्ञोऽत्रैवप्रकीर्तितं।।

जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः। पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः।।

ततः श्येनकपोतीयमुपाख्यानमनुत्तमम्। इन्द्राग्नी यत्र धर्मश्चाप्यजिज्ञासञ्शिबिं नृपम्।।

अष्टावक्रीयमत्रैव विवादो यत्र बन्दिना। अष्टावक्रस्य विप्रर्षेर्जनकस्याध्वरेऽभवत्।।

नैयायिकानां मुख्येन वरुणस्यात्मजेन च। पराजितो यत्र बन्दी विवादेन महात्मना।।

adi-1-2-177__478 विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः। यवक्रीतस्य चाख्यानं रैभ्यस्य च महात्मनः। गन्धमादनयात्रा च वासो नारायणाश्रमे।।

नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने। व्रजन्पथि महाबाहुर्दृष्टवान्पवनात्मजम्।।

कदलीषण्डमध्यस्थं हनूमन्तं महाबलम्। यत्र मन्दारपुष्पार्थे नलिनीं तामधर्षयत्।।

यत्रास्य युद्धमभवत्सुमहद्राक्षसैः सह। यक्षैश्चैव महावीर्यैर्मणिमत्प्रमुखैस्तथा।।

जटासुरस्य च वधो राक्षसस्य वृकोदरात्। वृषपर्वणो राजर्षेस्ततोऽभिगमनं स्मृतम्।।

आर्ष्टिषेणाश्रमे चैषां गमनं वास एव च। प्रोत्साहनं च पाञ्चाल्या भीमस्यात्र महात्मनः।।

कैलासारोहणं प्रोक्तं यत्र यक्षैर्बलोत्कटैः। युद्धमासीन्महाघोरं मणिमत्प्रमुखैः सह।।

समागमश्च पाण्डूनां यत्र वैश्रवणेन च। समागमश्चार्जुनस्य तत्रैव भ्रातृभिः सह।।

अवाप्य दिव्यान्यस्त्राणि गुर्वर्थं सव्यसाचिना। निवातकवचैर्युद्धं हिरण्यपुरवासिभिः।।

निवातकवचैर्घोरैर्दानवैः सुरशत्रुभिः। पौलोमैः कालकेयैश्च यत्र युद्धं किरीटिनः।।

वधश्चैषां समाख्यातो राज्ञस्तेनैव धीमता। अस्त्रसंदर्शनारम्भो धर्मराजस्य सन्निधौ।।

पार्थस्य प्रतिषेधश्छ नारदेन सुरर्षिणा। अवरोहणं पुनश्चैव पाण्डूनां गन्धमादनात्।।

भीमस्य ग्रहणं चात्र पर्वताभोगवर्ष्मणा। भुजगेन्द्रेण बलिना तस्मिन्सुगहने वने।।

अमोक्षयद्यत्र चैनं प्रश्नानुक्त्वा युधिष्ठिरः। काम्यकागमनं चैव पुनस्तेषां महात्मनाम्।।

तत्रस्थांश्च पुनर्द्रष्टुं पाण्डवान्परुषर्षभान्। वासुदेवस्यागमनमत्रैव परिकीर्तितम्।।

मार्कण्डेयसमास्यायामुपाख्यानानि सर्वशः। पृथोर्वैन्यस्य यत्रोक्तमाख्यानं परमर्षिणा।।

संवादश्च सरस्वत्यास्तार्क्ष्यर्षेः सुमहात्मनः। मत्स्योपाख्यानमत्रैव प्रोच्यते तदनन्तरम्।।

मार्कण्डेयसमास्या च पुराणं परिकीर्त्यते। ऐन्द्रद्युम्नामुपाख्यानं तथैवाङ्गिरसं स्मृतम्।।

पतिव्रतायाश्चाख्यानं तथैवाङ्गिरसं स्मृतम्। द्रौपद्याः कीर्तितश्चात्र संवादः सत्यभामया।।

पुनर्द्वैतवनं चैव पाण्डवाः समुपागताः। घोषयात्रा च गन्धर्वैर्यत्र बद्धः सुयोधनः।।

ह्रियमाणस्तु मन्दात्मा मोक्षितोऽसौ किरीटिना। धर्मराजस्य चात्रैव मृगस्वप्ननिदर्शनात्।।

काम्यके काननश्रेष्ठे पुनर्गमनमुच्यते। व्रीहिद्रौणिकमाख्यानमत्रैव बहुविस्तरम्।।

दुर्वाससोऽप्युपाख्यानमत्रैव परिकीर्तितम्। जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात्।।

यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे। चक्रे चैनं पञ्चशिखं यत्र भीमो महाबलः।।

रामायणमुपाख्यानमत्रैव बहुविस्तरम्। यत्र रामेण विक्रम्य निहतो रावणो युधि।।

सावित्र्याश्चाप्युपाख्यानमत्रैव परिकीर्तितम्। कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरंदरात्।।

यत्रास्य शक्तिं तुष्टोऽसावदादेकवधाय च। आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम्।।

जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम्। एतदारण्यकं पर्व तृतीयं परिकीर्तितम्।।

अत्राध्यायशते द्वे तु संख्यया परिकीर्तिते। एकोनसप्ततिश्चैव तथाऽध्यायाः प्रकीर्तिताः।।

एकादश सहस्राणि श्लोकानां षट् शतानि च। चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन्प्रकीर्तिताः।।

अतः परं निबोधेदं वैराटं पर्व विस्तरम्। विराटनगरे गत्वा श्मशाने विपुलां शमीम्।।

दृष्ट्वा संनिदधुस्तत्र पाण्डवा ह्यायुधान्युत। यत्र प्रविश्य नगरं छद्मना न्यवसंस्तु ते।।

पाञ्चालीं प्रार्थयानस्य कामोपहतचेतसः। दुष्टात्मनो वधो यत्र कीचकस्य वृकोदरात्।।

पाण्डवान्वेषणार्थं च राज्ञो दुर्योधनस्य च। चाराः प्रस्थापिताश्चात्र निपुणाः सर्वतोदिशं।।

न च प्रवृत्तिस्तैर्लब्धा पाण्डवानां महात्मनाम्। गोग्रहश्च विराटस्य त्रिगर्तैः प्रथमं कृतः।।

यत्रास्य युद्धं सुमहत्तैरासील्लोमहर्षणम्। ह्रियमाणश्च यत्रासौ भीमसेनेन मोक्षितः।।

गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः। अनन्तरं च कुरुभिस्तस्य गोग्रहणं कृतम्।।

समस्ता यत्र पार्थेन निर्जिताः कुरवो युधि। प्रत्याहृतं गोधनं च विक्रमेण किरीटिना।।

विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः। अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम्।।

चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम्। अत्रापि परिसंख्याता अध्यायाः परमर्षिणा।।

सप्तषष्टिरथो पूर्णाः श्लोकानामपि मे शृणु। श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु।।

उक्तानि वेदविदुषा पर्वण्यस्मिन्महर्षिणा। उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम्।।

उपप्लाव्ये निविष्टेषु पाण्डवेषु जिगीषया। दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ।।

साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति। इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः।।

अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ। अक्षौहिणीं वा सैन्यस्य कस्य किं वा ददाम्यहम्।।

वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः। अयुध्यभानं सचिवं वव्रे कृष्मं धनंजयः।।

मद्रराजं व राजानमायान्तं पाण्डवान्प्रति। उपहारैर्वञ्चायत्वा वर्त्मन्येव सुयोधनः।।

वरदं तं वरं वव्रे साहाय्यं क्रियतां मम। शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्य पाण्डवान्।।

शान्तिपूर्वं चाकथयद्यत्रेन्द्रविजयं नृपः। पुरोहितप्रेषणं च पाण्डवैः कौरवान्प्रति।।

वैचित्रवीर्यस्य वचः समादाय पुरोधसः। तथेन्द्रविजयं चापि यानं चैव पुरोधसः।।

संजयं प्रेषयामास शमार्थी पाण्डवान्प्रति। यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान्।।

श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान्। प्रजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया।।

विदुरो यत्र वाक्यानि विचित्राणि हितानि च। श्रावयामास राजानं धृतराष्ट्रं मनीषिणम्।।

तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम्। मनस्तापान्वितो राजा श्रावितः शोकलालसः।।

प्रभाते राजसमितौ संजयो यत्र वा विभो। ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च।।

यत्र कृष्णो दयापन्नः सन्धिमिच्छन्महामतिः। स्वयमागाच्छणं कर्तुं नगरं नागसाह्वयम्।।

प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै। शमार्थे याचमानस्य पक्षयोरुभयोर्हितम्।।

दम्भोद्भवस्य चाख्यानमत्रैव परिकीर्तितम्। वरान्वेषणमत्रैव मातलेश्च महात्मनः।।

महर्षेश्चापि चरितं कथितं गालवस्य वै। विदुलायाश्च पुत्रस्य प्रोक्तं चाप्यनुशासनम्।।

कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम्। योगेश्वरत्पं कृष्णेन यत्र राज्ञां प्रदर्शितम्।।

रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः। उपायपूर्वं शौटीर्यात्प्रत्याख्यातश्च तेन सः।।

आगम्य हास्तिनपुरादुपप्लाव्यमरिंदमः। पाण्डवानां यथावृत्तं सर्वमाख्यातवान्हरिः।।

ते तस्य वचनं श्रुत्वा मन्त्रयित्वा च यद्धितम्। साङ्ग्रामिकं ततः सर्वं सञ्जं चक्रुः परंतपाः।।

ततो युद्धाय निर्याता नराश्वरथदन्तिनः। नगराद्धास्तिनपुराद्वलसंख्यानमेवच।।

यत्र राज्ञा ह्युलूकस्य प्रेषणं पाम्डवान्प्रति। श्वोभाविनि महायुद्धे दौत्येन कृतवान्प्रभुः।।

रथातिरथसंख्यानमम्बोपाख्यानमेव च। एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते।।

उद्योगपर्व निर्दिष्टं सन्धिविग्रहमिश्रितम्। अध्यायानां शतं प्रोक्तं षडशीतिर्महर्षिणा।।

श्लोकानां षट् सहस्राणि तावन्त्येव शतानि च। श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना।।

व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः। अतः परं विचित्रार्थं भीष्मपर्व प्रचक्षते।।

जम्बूखण्डविनिर्माणं यत्रोक्तं संजयेन ह। यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम्।।

यत्र युद्धमभूद्धोरं दसाहानि सुदारुणम्। कश्मलं यत्र पार्थस्य वासुदेवो महामतिः।।

मोहजं नाशयामास हेतुभिर्मोक्षदर्शिभिः। समीक्ष्यादोक्षजः क्षिप्रं युधिष्ठिरहिते रतः।।

रथादाप्लुत्य वेगेन स्वयं कृष्ण उदारधीः। प्रतोदपाणिराधावद्भीष्मं हन्तुं व्यपेतभीः।।

वाक्यप्रतोदाभिहतो यत्र कृष्णेन पाण्डवः। गाण्डीवधन्वा समरे सर्वशस्त्रभृतां वरः।।

शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः। विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत्।।

शरतल्पगतश्चैव भीष्मो यत्र बभूव ह। षष्ठमेतत्समाख्यातं भारते पर्व विस्तृतम्।।

अध्यायानां शतं प्रोक्तं तथा सप्तदशापरे। पञ्च श्लोकसहस्राणि संख्ययाष्टौ शतानि च।।

श्लोकाश्च चतुराशीतिरस्मिन्पर्वणि कीर्तिताः। व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि।।

द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते। सैनापत्येऽभिषिक्तोऽथ यत्राचार्यः प्रतापवान्।।

दुर्योधनस्य प्रीत्यर्थं प्रतिजज्ञे महास्त्रवित्। ग्रहणं धर्मराजस्य पाण्डुपुत्रस्य धीमतः।।

यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात्। भगदत्तो महाराजो यत्र शक्रसमो युधि।।

सुप्रतीकेन नागेन स हि शान्तः किरीटिना। यत्राभिमन्युं बहवो जघ्नुरेकं महारथाः।।

जयद्रथमुखा बालं शूरमप्राप्तयौवनम्। हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे।।

अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः। यत्र भीमो महाबाहुः सात्यकिश्च महारथः।।

अन्वेषणार्थं पार्थस्य युधिष्ठिरनृपाज्ञया। प्रविष्टौ भारतीं सेनामप्रधृष्यां सुरैरपि।।

संशप्तकावशेषं च कृतं निःशेषमाहवे। संशप्तकानां वीराणां कोट्यो नव महात्मनाम्।।

किरीटिनाभिनिष्क्रम्य प्रापिता यमसादनम्। धृतराष्ट्रस्य पुत्राश्च तथा पाषाणयोधिनः।।

नारायणाश्च गोपालाः समरे चित्रयोधिनः। अलम्बुषः श्रुतायुश्च जलसन्धश्च वीर्यवान्।।

सौमदत्तिर्विराटश्च द्रुपदश्च महारथः। घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि।।

अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते। अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः।।

आग्नेयं कीर्त्यते यत्र रुद्रमाहात्म्यमुत्तमम्। व्यासस्य चाप्यागमनं माहात्म्यं कृष्णपार्थयोः।।

सप्तमं भारते पर्व महदेतदुदाहृतम्। यत्र ते पृथिवीपालाः प्रायशो निधनं गताः।।

द्रोणपर्वणि ये शऊरा निर्दिष्टाः पुरुषर्षभाः। अत्राध्यायशतं प्रोक्तं तथाध्यायाश्च सप्ततिः।।

अष्टौ श्लोकसहस्राणि तथा नव शतानि च। श्लोका नव तथैवात्र संख्यातास्तत्त्वदर्शिना।।

पाराशर्येण मुनिनां संचिन्त्य द्रोणपर्वणि। अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम्।।

सारथ्ये विनियोगश्च मद्रराजस्य धीमतः। आख्यातं यत्र पौरामं त्रिपुरस्य निपातनम्।।

प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः। हंसकाकीयमाख्यानं तत्रैवाक्षेपसंहितम्।।

वधः पाण्ड्यस्य च तथा अश्वत्थाम्ना महात्मना। दण्डसेनस्य च ततो दण्डस्य च वधस्तथा।।

द्वैरथे यत्र कर्णेन धर्मराजो युधिष्टिरः। संशयं गमितो युद्धे मिषतां सर्वधन्विनाम्।।

अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः। यत्रैवानुनयः प्रोक्तो माधवेनार्जुनस्य हि।।

प्रतिज्ञापूर्वकं चापि वक्षो दुःशासनस्य च। भित्त्वा वृकोदरो रक्तं पीतवान्यत्र संयुगे।।

द्वैरथे यत्र पार्थेन हतः कर्णो महारथः। अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः।।

एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि। चत्वार्येव सहस्राणि नव श्लोकशतानि च।।

चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन्प्रकीर्तिताः। अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम्।।

हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत्। यत्र कौमारमाख्यानमभिषेकस्य कर्म च।।

वृत्तानि चाथ युद्धानि कीर्त्यन्ते यत्र भागशः। विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते।।

शल्यस्य निधनं चात्र धर्मराजान्महात्मनः। शकुनेश्च वधोऽत्रैव सहदेवेन संयुगे।।

सैन्ये च हतभूयिष्ठे किंचिच्छिष्टे सुयोधनः। ह्रदं प्रविश्य यत्रासौ संस्तभ्यापोव्यवस्थितः।।

प्रवृत्तिस्तत्र चाख्याता यत्र भीमस्य लुब्धकैः। क्षेपयुक्तैर्वचोभिश्च धर्मराजस्य धीमतः।।

ह्रदात्समुत्थितो यत्र धार्तराष्ट्रोऽत्यमर्षणः। भीमेन गदया युद्धं यत्रासौ कृतवान्सह।।

समवाये च युद्धस्य रामस्यागमनं स्मृतम्। सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता।।

गदायुद्धं च तुमुलमत्रैव परिकीर्तितम्। दुर्योधनस्य राज्ञोऽथ यत्र भीमेन संयुगे।।

ऊरू भग्नौ प्रसह्याजौ गदया भीमवेगया। नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत्।।

एकोनपष्टिरध्यायाः पर्वण्यत्र प्रकीर्तिताः। संख्याता बहुवृत्तान्ताः श्लोकसंख्याऽत्र कथ्यते।।

त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा। मुनिना संप्रणीतानि कौरवाणां यशोभृता।।

अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम्। भग्नोरुं यत्र राजानं दुर्योधनममर्षणम्।।

अपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः। कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षितम्।।

समेत्य ददृशुर्भूमौ पतितं रणमूर्धनि। प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः।।

अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान्। पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनं।।

यत्रैवमुक्त्वा राजानमपक्रम्य त्रयो रथाः। सूर्यास्तमनवेलायामासेदुस्ते महद्वनम्।।

न्यग्रोधस्याथ महतो यत्राधस्ताद्व्यवस्थिताः। ततः काकान्बहून्रात्रौ दृष्ट्वोलूकेन हिंसितान्।।

द्रौणिः क्रोधसमाविष्टः पितुर्वधमनुस्मरन्। पाञ्चालानां प्रसुप्तानां वधं प्रति मनो दधे।।

गत्वा च शिबिरद्वारि दुर्दर्शं तत्र राक्षसम्। घोररूपमपश्यत्स दिवामावृत्य धिष्ठिरम्।।

तेन व्याघातमस्त्राणां क्रियमाणमवेक्ष्य च। द्रौणिर्यत्र विरूपाक्षं रुद्रमाराध्य सत्वरः।।

प्रसुप्तान्निशि विश्वस्तान्धृष्टद्युम्नपुरोगमान्। पाञ्चालान्सपरीवारान्द्रौपदेयांश्च सर्वशः।।

कृतवर्मणा च सहितः कृपेण च निजघ्निवान्। यत्रामुच्यन्त ते पार्थाः पञ्च कृष्णबलाश्रयात्।।

सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः। पाञ्चालानां प्रसुप्तानां यत्र द्रोणसुताद्वधः।।

धृष्टद्युम्नस्य सूतेन पाण्डवेषु निवेदितः। द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता।।

कृतानशनसंकल्पा यत्र भर्तृनुपाविशत्। द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः।।

प्रियं तस्याश्चिकीर्षन्वै गदामादाय वीर्यवान्। अन्वधावत्सुसंक्रुद्धो भारद्वाजं गुरोः सुतम्।।

भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः। अपाण्डवायेति रुषा द्रौणिरस्त्रमवासडदत्।।

मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः। यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः।।

द्रौणेश्च द्रोहबुद्धित्वं वीक्ष्य पापात्मनस्तदा। द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः।।

मणिं तथा समादाय द्रोणपुत्रान्महारथात्। पाण्डवाः प्रददुर्हृष्टा द्रौपद्यै जितकाशिनः।।

एतद्वै दशमं पर्व सौप्तिकं समुदाहृतम्। अष्टादशास्मिन्नद्यायाः पर्वम्युक्ता महात्मना।।

श्लोकानां कथितान्यत्र शतान्यष्टौ प्रसंख्यया। श्लोकाश्च सप्ततिः प्रोक्ता मुनिना ब्रह्मवादिना।।

सौप्तिकैषीकसंबन्धे पर्वण्युत्तमतेजसी। अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम्।।

पुत्रशोकाभिसंतप्तः प्रज्ञाचक्षुर्नराधिपः। कृष्णोपनीतां यत्रासावायसीं प्रतिमां दृढां।।

भीमसेनद्रोहबुद्धिर्धृतराष्ट्रो बभञ्जह। तथा शोकाभितप्तस्य धृतराष्ट्रस्य धीमतः।।

संसारदहनं बुद्ध्या हेतुभिर्मोक्षदर्शनैः। विदुरेण च यत्रास्य राज्ञ आश्वासनं कृतम्।।

धृतराष्ट्रस्य चात्रैव कौरवायोधनं तथा। सान्तःपुरस्य गमनं शोकार्तस्य प्रकीर्तितम्।।

विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः। क्रोधावेशः प्रमोहश्च गान्धारीधृतराष्ट्रयोः।।

यत्र तान्क्षत्रियाः शूरान्सङ्ग्रामेष्वनिवर्तिनः। पुत्रान्भ्रातृन्पितॄंश्चैव ददृशुर्निहतान्रणे।।

पुत्रपौत्रवधार्तायास्तथात्रैव प्रकीर्तिता। गान्धार्याश्चापि कृष्णेन क्रोधोपशमनक्रिया।।

यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः। राज्ञांतानि शरीराणि दाहयामास शास्त्रतः।।

तोयकर्मणि चारब्धे राज्ञामुदकदानिके। गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः।।

सुतस्यैतदिह प्रोक्तं व्यासेन परमर्षिणा। एतदेकादशं पर्व शोकवैक्लव्यकारणम्।।

प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम्। सप्तविंशतिरध्यायाः पर्वण्यस्मिन्प्रकीर्तिताः।।

श्लोकसप्तशती चापि पञ्चसप्ततिसंयुता। संख्यया भारताख्यानमुक्तं व्यासेन धीमता।।

अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम्। यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः।।

घातयित्वा पितॄन्भ्रातॄन्पुत्रान्संबन्धिमातुलान्। शान्तिपर्वणि धर्माश्च व्याख्याताःशारतल्पिकाः।।

राजभिर्वेदितव्यास्ते सम्यग्ज्ञानबुभुत्सुभिः। आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शिनः।।

यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात्। मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः।।

द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम्। अत्र पर्वणि विज्ञेयमध्यायानां शतत्रयम्।।

विंशच्चैव तथाध्याया नव चैव तपोधाः। चतुर्दशसहस्राणि तथा सप्तशतानि च।।

सप्तश्लोकास्तथैवात्र पञ्चविंशतिसंख्यया। अत ऊर्ध्वं च विज्ञेयमनुशासनमुत्तमम्।।

यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम्। भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः।।

व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयः प्रकीर्तितः। विविधानां च दानानां फलयोगाः प्रकीर्तिताः।।

तथा पात्रविशेषाश्च दानानां च परो विधिः। आचारविधियोगश्च सत्यस्य च परा गतिः।।

महाभाग्यं गवां चैव ब्राह्मणानां तथैव च। रहस्यं चैव धर्माणां देशकालोपसंहितम्।।

एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम्। भीष्मस्यात्रैव संप्राप्तिः स्वर्गस्य परिकीर्तिता।।

एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम्। अध्यायानां शतं त्वत्र षट्चत्वारिंशदेव तु।।

श्लोकानां तु सहस्राणि प्रोक्तान्यष्टौ प्रसंख्यया। ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम्।।

तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम्। सुवर्णकोशसंप्राप्तिर्जन्म चोक्तं परीक्षितः।।

दग्धस्यास्त्राग्निना पूर्वं कृष्णात्संजीवनं पुनः। चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः।।

तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः। चित्राङ्गदायाः पुत्रेण स्वपुत्रेण धनंजयः।।

adi-1-2-343__644 सङ्ग्रामे बभ्रुवाहेन संशयं चात्र जग्मिवान्। सुदर्शनं तथाऽऽख्यानं वैष्णवं धर्ममेव च। अश्वमेधे महायज्ञे नकुलाख्यानमेव च।।

इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम्। अध्यायानां शतं चैव त्रयोऽध्यायाश्च कीर्तिताः।।

त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च। विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना।।

ततस्त्वाश्रमवासाख्यं पर्व पञ्चदशं स्मृतम्। यत्र राज्यं समुत्सृज्य गान्धार्या सहितो नृपः।।

धृतराष्ट्रोश्रमपदं विदुरश्च जगाम ह। यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा।।

पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता। यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान्।।

लाकान्तरगतान्वीरानपश्यत्पुनरागतान्। ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम्।।

त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः। यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः।।

संजयश्च सहामात्यो विद्वान्गावल्गणिर्वशी। ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः।।

नारदाच्चैव शुश्राव वृष्णीनां कदनं महत्। एतदाश्रमवासाख्यं पर्वोक्तं महदद्भुतम्।।

द्विचत्वारिंशदध्यायाः पर्वैतदभिसङ्ख्यया। सहस्रमेकं श्लोकानां पञ्चश्लोकशतानि च।।

षडेव च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना। अतः परं निबोधेदं मौसलं पर्व दारुणम्।।

यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शहता युधि। ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः।।

आपाने पानकलिता दैवेनाभिप्रचोदिताः। एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम्।।

यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ। नातिचक्रामतुः कालं प्राप्तं सर्वहरं महत्।।

यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम्। दृष्ट्वा विपादमगमत्परां चार्तिं नरर्षभः।।

स संस्कृत्य नरश्रेष्ठं मातुलं शौरिमात्मनः। ददर्श यदुवीराणामापाने वैशसं महत्।।

शरीरं वासुदेवस्य रामस्य च महात्मनः। संस्कारं लम्भयामास वृष्णीनां च प्रधानतः।।

सवृद्धबालमादाय द्वारवत्यास्ततो जनम्। ददर्शापदि कष्टायां गाण्डीवस्य पराभवम्।।

सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम्। नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम्।।

दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः। धर्मराजं समासाद्य संन्यासं समरोचयत्।।

इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम्। अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम्।।

श्लोकानां विंशतिश्चव संख्याता तत्त्वदर्शिना। महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम्।।

यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः। द्रौपद्या सहिता देव्या महाप्रस्थानमास्थिताः।।

यत्र तेऽग्निं ददृशिरे लौहित्यं प्राप्य सागरम्। यत्राग्निना चोदितश्च पार्थस्तस्मै महात्मने।।

ददौ संपूज्य तद्दिव्यं गाण्डीवं धनुरुत्तमम्। यत्र भ्रातृन्निपतितान्द्रौपदीं च युधिष्ठिरः।।

दृष्ट्वा हित्वा जगामैव सर्वाननवलोकयन्। एतत्सप्तदशं पर्व महाप्रस्थानिकं स्मृतम्।।

यत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतत्रयम्। विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना।।

स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम्। प्राप्तं दैवरथं स्वर्गान्नेष्टवान्यत्र धर्मराट्।।

आरोदुं सुमहाप्राज्ञ आनृशंस्याच्छुना विना। तामस्याविचलां ज्ञात्वा स्थितिं धर्मे महात्मनः।।

श्वरूपं यत्र तत्त्यक्त्वा धर्मेणासौ समन्वितः। स्वर्गं प्राप्तःसच तथा यातनाविपुला भृशम्।।

देवदूतेन नरकं यत्र व्याजेन दर्शितम्। शुश्राव यत्र धर्मात्मा भ्रातॄणां करुणागिरः।।

निदेशे वर्तमानानां देशे तत्रैव वर्तताम्। अनुदर्शितश्च धर्मेण देवराज्ञा च पाण्डवः।।

आप्लुत्याकाशगङ्गायां देहं त्यक्त्वा स मानुषम्। स्वधर्मनिर्जितं स्थानं स्वर्गे प्राप्य स धर्मराट्।।

मुमुदे पूजितः सर्वैः सेन्द्रैः सुरगणैः सह। एतदष्टादशं पर्व प्रोक्तं व्यासेन धीमता।।

अध्यायाः पञ्च संख्याताः पर्वम्यस्मिन्महात्मना। श्लोकानां द्वे शते चैव प्रसंख्याते तपोधाः।।

नव श्लोकास्तथैवान्ये संख्याताः परमर्षिणा। अष्टादशैवमेतानि पर्वाण्येतान्यशेषतः।।

खिलेषु हरिवंशश्च भविष्यं च प्रकीर्तितम्। दश श्लोकसहस्राणि विंशच्छ्लोकशतानि च।।

खिलेषु हरिवंशे च संख्यातानि महर्षिणा। एतत्सर्वं समाख्यातं भारते पर्वसंग्रहः।।

अष्टादश समाजग्मुरक्षौहिण्यो ययुत्सया। तन्महादारुणं युद्धमहान्यष्टादशाभवत्।।

यो विद्याच्चतुरो वेदान्साङ्गोपनिषदो द्विजः। न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः।।

अर्थशास्त्रमिदं प्रोक्तं धर्मशास्त्रमिदं महत्। कामशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना।।

श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते। पुंस्कोकिलगिरं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव।।

इतिहासोत्तमादस्माञ्जायन्ते कविबुद्धयः। पञ्चभ्य इव् भूतेभ्यो लोकसंविधयस्त्रयः।।

अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः। अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः।।

क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः। इन्द्रियाणां समस्तानां चित्रा इव मनः क्रियाः।।

अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते। आहारमनपाश्रित्य शरीरस्येव धारणम्।।

इदं कविवरैः सर्वैराख्यानमुपजीव्यते। उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः।।

अस्य काव्यस्य कवयो न समर्था विशेषणे। साधोरिव गृहस्थस्य शेषास्त्रय इवाश्रमाः।।

adi-1-2-392__693 धर्मे मतिर्भवतु वः सततोत्थितानां स ह्येक एव परलोकगतस्य बन्धुः। अर्थाः स्त्रियश्च निपुणैरपि सेव्यमाना नैवाप्तभावमुपयान्ति न च स्थिरत्वम्।।

adi-1-2-393__694 द्वैपायनौष्ठपुटनिःसृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च। यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन।।

यदह्ना कुरुते पाप ब्राह्मणस्त्विन्द्रियैश्चरन्। महाभारतमाख्याय सन्ध्यां मुच्यति पश्चिमाम्।।

यद्रात्रौ कुरुते पापं कर्मणा मनसा गिरा। महाभारतमाख्याय पूर्वां सन्ध्यां प्रमुच्यते।।

adi-1-2-396__697 यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे च बहुश्रुताय। पुण्यां च भारतकथां शृणुयाच्च नित्यं तुल्यं फलं भवति तस्य च तस्य चैव।।

adi-1-2-397__698 आख्यानं तदिदमनुत्तमं महार्थं विज्ञेयं महदिह पर्वसंग्रहेण। श्रुत्वादौ भवति नृणां सुखावगाहं विस्तीर्णं लवणजलं यथा प्लवेन।।

इति श्रीमन्महाभारते आदिपर्वणि पर्वसंग्रहपर्वणि द्वितीयोऽध्यायः।। 2 ।। ।। समाप्तं पर्वसंग्रहपर्व ।।

1-2-3 क्षत्र क्षत्रियजातिं। अमर्षः स्वपितुः क्षत्रियेण हतत्वाज्जातस्य क्रोधस्यासहनं तेन चोदितः प्रेरितः।। 1-2-10 निषिषिधुः निषिद्धवन्तः। अक्षराधिक्यमार्ष।। 1-2-14 भूदोषाः निम्नोन्नतत्वकण्टकित्वादयः।। 1-2-19 पदातय इति रथादिगतानां नराण व्युदासः।। 1-2-23-26 अक्षौहिण्याः 21870 रथाः। 21871 गजाः। 109350 पदातयः। 65610 हयाः।। 1-2-28 पिण्डिता एकीभूताः।। 1-2-32 हार्दिक्यः कृतवर्मा गौतमः कृपः।। 1-2-33 ते तव सत्रे यद्भारताख्यानं मत्तः प्रवृत्तं तज्जनमेजयस्य सत्रे व्यासशिष्येण कथितमित्युत्तरेण संबन्धः।। 1-2-34 तत्र भारते।। 1-2-35 प्रतिपन्नं शरणीकृतं।। 1-2-38 अभिजातः कुलीनः।। 1-2-46 हरणं दायः पारिबर्हमिति यावत् तस्य हारिका समानयनं।। 1-2-49 अनुद्यूतं पुनर्द्यूतं।। 1-2-50 अभिगमनं तपसे गमनं।। 1-2-53 समास्या सहावस्थानं।। 1-2-57 प्रवेशः विराटनगरे। समयस्य संकेतस्य नियमस्य वा।। 1-2-70 प्रतिज्ञा जयद्रथवधार्थं।। 1-2-72 ह्रदप्रवेशनं दुर्योधनस्य।। 1-2-83 अन्यत्र कथितस्यावशिष्टं यत्पुनः प्रक्रम्य कथ्यते तत् खिलं प्रोच्यते। हरिवंशश्च तादृशः।। 1-2-90 माहात्म्यमुत्तङ्कस्य उदङ्कस्येत्यपि पाठः।। 1-2-117 भार्गवः कुलालः।। 1-2-138 कितवो द्यूतकारकः।। 1-2-150 शत्रुस्तव ऊरू भेत्स्यतीतिशापोत्सर्गः।। 1-2-220 नौ आवयोर्मध्ये ममैव साहाय्यं कर्तुमर्हतीति प्रत्येकं प्रार्थना ज्ञेया।। 1-2-231 ऐकात्म्यं एकचित्तत्वं।। 1-2-237 शौटीर्यात् गर्वात्।। 1-2-255 आचार्यः द्रोणाचार्यः।। 1-2-287 समवाये समये।। 1-2-316 संसारदहनं निरूप्येतिशेषः।। 1-2-317 आयोधनं युद्धस्थानं।। 1-2-319 क्षत्रियाः क्षत्रियस्त्रियः।। 1-2-327 शराएव तल्पो यस्य सः शरतल्पो भीष्मः तेन प्रोक्ताः। शरतल्पे भवा वा तत्रस्थेन व्याख्यातत्वात्।। 1-2-343 सुदर्शनं तथाख्यानमित्यत्र मृगदर्श तथाचैवेति-मणिदर्शनं तथाचैवेत्यपि पाठो दृश्यते।। 1-2-347 धृतराष्ट्रः आश्रमपदमिति च्छेदः सन्धिरार्षः।। 1-2-355 ब्रह्मदण्डः ब्राह्मणशापः।। 1-2-356 आपाने पानगोष्ठ्यां पानेन कलिताः विवशीकृताः। एरकाः तृणविशेषाः।। 1-2-357 नातिचक्रामतुः कालं समर्थावपि मर्यादां नोल्लङ्घितवन्तावित्यर्थः।। 1-2-359 वैशसं परस्परं विशसनं।। 1-2-372 अस्य अविचलामितिच्छेदः।। 1-2-387 विषये देशे अन्तरित्यर्थः। पुराणं अष्टादशभेदं पाद्मादि।। 1-2-394 संध्यां संध्यायां।। द्वितीयोऽध्यायः।। 2 ।।

अध्यायः 003

(अथ पौष्यपर्व।। 3 ।।)

जनमेजयं प्रति सरमाख्यदवेशुनीशापः।। 1 ।। शापनिवारणार्थमृषेः सोमश्रवसः पौरोहित्येन वरणम्।। 2 ।। आरुण्युपमन्युबैदाख्यानां धौम्यशिष्याणामुपाख्यानम्।। 3 ।। बैदशिष्यस्योत्तङ्कस्योपाख्यानम्।। 4 ।। पौष्यस्य राज्ञ उपाख्यानम्।। 5 ।।

adi-1-3-0__699 सौतिरुवाच।

adi-1-3-1__700 जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते। तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति। तेषु तत्सत्रमुपासीनेष्वभ्यागच्छत्सारमेयः।।

adi-1-3-2__701 जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत्।।

तं माता रोरूयमाणमुवाच। किं रोदिषि केनास्यभिहत इति।।

adi-1-3-4__703 स एवमुक्तो मातरं प्रत्युवाच जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति।।

adi-1-3-5__704 तं माता प्रत्युवाच व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति।।

adi-1-3-6__705 स तां पुनरुवाच नापराध्यामि किंचिन्नावेक्षे हवींषि नावलिह इति।।

adi-1-3-7__706 तच्छ्रुत्वा तस्य माता सरमा पुत्रदुःखार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते।।

adi-1-3-8__707 स तया क्रुद्धया तत्रोक्तोऽयं मे पुत्रो न किंचिदपराध्यति नावेक्षते हवींषि नावलेढि किमर्थमभिहत इति।।

adi-1-3-9__708 न किंचिदुक्तवन्तस्ते सा तानुवाच यस्मादयमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति।।

adi-1-3-10__709 जनमेजय एवमुक्तो देवशुन्या सरमया भृशं संभ्रान्तो विषण्णश्चासीत्।।

adi-1-3-11__710 स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति।।

adi-1-3-12__711 स कदाचिन्मृगयां गतः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषय आश्रममपश्यत्।।

तत्र कश्चिदृपिरासाञ्चक्रे श्रुतश्रवा नाम। तस्य तपस्यभिरतः पुत्र आस्ते सोमश्रवा नाम।।

adi-1-3-14__713 तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे।।

adi-1-3-15__714 स नमस्कृत्य तमृषिमुवाच भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति।।

adi-1-3-16__715 स एवमुक्तः प्रत्युवाच जनमेजयं भो जनमेजय पुत्रोऽयं मम सर्प्यां जातो महातपस्वी स्वाध्यायसंपन्नो मत्तपोवीर्यसंभृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ जातः।।

समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम्।।

adi-1-3-18__717 अस्य त्वेकमुपांशुव्रतं यदेनं कश्चिद्ब्राह्मणः कंचिदर्थमभियाचेत्तं तस्मै दद्यादयं यद्येतदुत्सहसे ततो नयस्वैनमिति।।

adi-1-3-19__718 तेनैवमुक्तो जनमेजयस्तं प्रत्युवाच भगवंस्तत्तथा भविष्यतीति।।

adi-1-3-20__719 स तं पुरोहितमुपादायोपावृत्तो भ्रातृनुवाच मयाऽयं वृत उपाध्यायो यदयं ब्रूयात्तत्कार्यमविचारयद्भिर्भवद्भिरिति। तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः। स तथा भ्रातॄन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे तं च देशं वशे स्थापयामास।।

adi-1-3-21__720 एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामापोदस्तस्य शिष्यास्त्रयो बभूवुः।।

adi-1-3-22__721 उपमन्युरारुणिर्बैदश्चेति स एकं शिष्यंमारुणिं पाञ्चाल्यं प्रेषयामास गच्छ केदारखण्डं बधानेति।।

स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशकत्। स क्लिश्यमानोऽपश्यदुपायं भवत्वेवं करिष्यामीति।।

adi-1-3-24__723 स तत्र संविवेश केदारखण्डे शयाने व तथा तस्मिंस्तदुदकं तस्थौ।।

adi-1-3-25__724 ततः कदाचिदुपाध्याय आपोदो धौम्यः शिष्यावपृच्छत् क्व आरुणिः पाञ्चाल्यो गत इति।।

तौ तं प्रत्यूचतुर्भगवंस्त्वयैव प्रेषितो गच्छ केदारखण्डं बधानेति। स एवमुक्तस्तौ शिष्यौ प्रत्युवाच तस्मात्तत्र सर्वे गच्छामो यत्र स गत इति।।

स तत्र गत्वा तस्याह्वानाय शब्दं चकारः। भो आरुणे पाञ्चाल्य क्वासि वत्सैहीति।।

adi-1-3-28__727 स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थायतमुपाध्यायमुपतस्थे।।

adi-1-3-29__728 प्रोवाच चैनमयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तमुपस्थितः।।

adi-1-3-30__729 तदभिवादये भगवन्तमाज्ञापयतु भवान्कमर्थं करवाणीति।।

adi-1-3-31__730 स एवमुक्त उपाध्यायः प्रत्युवाच यस्माद्भवान्केदारखण्डं विदार्योत्थितस्तस्मादुद्दालक एवनाम्ना भवान्भविष्यतीत्युपाध्यायेनानुगृहीतः।।

यस्माच्च त्वया मद्वचनमनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसि। सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति।।

adi-1-3-33__732 स एवमुक्त उपाध्यायेनेष्टं देशं जगाम।।

अथापरः शिष्यस्तस्यैवापोदस्य धौम्यस्योपमन्युर्नाम। तं चोपाध्यायः प्रेषयामास वत्सोपमन्यो गा रक्षस्वेति।।

adi-1-3-35__734 स उपाध्यायवचनादरक्षद्गाः स चाहनि गा रक्षित्वा दिवसक्षये गुरुगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे।।

adi-1-3-36__735 तमुपाध्यायः पीवानमपश्यदुवाच चैनं वत्सोपमन्यो केन वृत्तिं कल्पयसि पीवानसि दृढमिति।।

adi-1-3-37__736 स उपाध्यायं प्रत्युवाच भो भैक्ष्येण वृत्तिं कल्पयामीति तमुपाध्यायः प्रत्युवाच।।

मय्यनिवेद्य बैक्ष्यं नीपयोक्तव्यमिति। स तथेत्युक्तो भैक्ष्यं चरित्वोणध्यायन्यवेदयत्।।

स तस्मादुपाध्यायः सर्वमेव भैक्ष्यमगृह्णात्। स तथेत्युक्तः पुनररक्षद्गा अहनि रक्षित्वा निशामुखे गुरुकुलमागम्य गुरोरग्रतःस्थित्वा नमश्चक्रे।।

तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच। वत्सोपमन्यो सर्वमशेषतस्ते भैक्ष्यं गृह्णामि केनेदानीं वृत्तिं कल्पयसीति।।

स एवमुक्त उपाध्यायं प्रत्युवाच। भगवते निवेद्य पूर्वमपरं चरामि तेन वृत्तिं कल्पयामीति तमुपाध्यायः प्रत्युवाच।।

adi-1-3-42__741 नैषा न्याय्या गुरुवृत्तिरन्येषामपि भैक्ष्योपजीविनां वृत्त्युपरोधं करोषि इत्येवं वर्तमानो लुब्धोऽसीति।।

adi-1-3-43__742 स तथेत्युक्त्वा गा अरक्षद्रक्षित्वाच पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे।।

तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच। वत्सोपमन्यो अहं ते सर्वं भैक्ष्यं गृह्णामि न चान्यच्चरसि पीवानसि भृशं केन वृत्तिं कल्पयसीति।।

adi-1-3-45__744 स एवमुक्तस्तमुपाध्यायं प्रत्युवाच। भो एतासां गवां पयसा वृत्तिं कल्पयामीति। तमुवाचोपाध्यायो नैतन्न्याय्यं पय उपयोक्तुं भवतो मया नाभ्यनुज्ञातमिति।।

adi-1-3-46__745 स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहमेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे।।

तमुपाध्यायः पीवानमेव दृष्ट्वोवाच। वत्सोपमन्यो भैक्ष्यं नाश्नासि न चान्यच्चरसि पयो न पिबसि पीवानसि भृशं केनेदानीं वृत्तिं कल्पयसीति।।

स एवमुक्त उपाध्यायं प्रत्युवाच। भोः फेनं पिबापि यमिमे वत्सा मातॄणां स्तनात्पिबन्त उद्गिरन्ति।।

adi-1-3-49__748 तमुपाध्यायः प्रत्युवाच। एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति। तदेषामपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः। फेनमपि भवान्न पातुमर्हतीति स तथेति प्रतिश्रुत्य निराहारः पुनररक्षद्गाः।।

adi-1-3-50__749 तथा प्रतिषिद्धो भैक्ष्यं नाश्नाति नचान्यच्चरति पयो न पिबति फेनं नोपयुह्क्ते स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत्।।

स तैरर्कपत्रैर्भक्षितैः क्षारतिक्तकटुरूक्षैस्तीक्ष्णविपाकैश्चक्षुष्युपहतोऽन्धो बभूव। ततः सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत्।।

adi-1-3-52__751 अथ तस्मिन्ननागच्छति सूर्ये चास्ताचलावलम्बिनि उपाध्यायः शिष्यानवोचत्।।

मयोपमन्युः सर्वतः प्रतिषिद्धः स नियतं कुपितस्ततो नागच्छति चिरगतस्त्विति। ततोऽन्वेष्य इत्येवमुक्त्वा शिष्यैः सार्धमरण्यं गत्वा तस्याह्वानाय शब्दं चकार भो उपमन्यो क्वासि वत्सैहीति।।

स उपाध्यायस्य आह्वानवचनं श्रुत्वा प्रत्युवाचोच्चैरयमस्मिन्कूपे पतितोऽहमिति। तमुपाध्यायः प्रत्युवाच कथं त्वमस्मिन्कूपे पतित इति।।

स उपाध्यायं प्रत्युवाच अर्कपत्राणि भक्षयित्वान्धीभूतोस्म्यतश्चङ्क्रम्यमाणः कूपे पतित इति। तमुपाध्यायः प्रत्युवाच।।

अश्विनौ स्तुहि तौ देवभिषजौ त्वां चक्षुष्मन्तं कर्ताराविति। स एवमुक्त उपाध्यायेनोपमन्युः स्तोतुमुपचक्रमे देवावश्विनौ वाग्भिर्ऋग्भिः।।

adi-1-3-57__756 प्रपूर्वगौ पूर्वजौ चित्रभानू गिरा वां शंसामि तपसा ह्यनन्तौ। दिव्यौ सुपर्णौ विरजौ विमाना- वधिक्षिपन्तौ भुवनानि विश्वा।।

adi-1-3-58__757 हिरण्मयौ शकुनी सांपरायौ नासत्यदस्रौ सुनसौ वैजयन्तौ। शुक्लं वयन्तौ तरसा सुवेमा- वधिव्ययन्तावसितं विवस्वतः।।

adi-1-3-59__758 ग्रस्तां सुपर्णस्य बलेन वर्तिका- ममुञ्चतामश्विनौ सौभगाय। तावत्सुवृत्तावनमं तमाय या- वसत्तमा गा अरुणा उदावहत्।।

adi-1-3-60__759 षष्टिश्च गावस्त्रिशताश्च धेनव एकं वत्सं सुवते तं दुहन्ति। नानागोष्ठा विहिता एकदोहना- स्तावश्विनौ दुहतो घर्ममुक्थ्यम्।।

adi-1-3-61__760 एकां नाभिं सप्त सथा अराः श्रिताः प्रधिष्वन्या विंशतिरर्पिता अराः। अनेमि चक्रं परिवर्ततेऽजरं मायाऽश्विनौ समनक्ति चर्षणी।।

adi-1-3-62__761 एकं चक्रं वर्तते द्वादशारं षण्णाभिमेकाक्षममृतस्य धारणम्। यस्मिन्देवा अधि विश्वे विषक्ता- स्तावश्विनौ मुञ्चतो मा विषीदतम्।।

adi-1-3-63__762 अश्विनाविन्दुममृतं वृत्तभूयौ तिरोधत्तामश्विनौ दासपत्नी। हित्वा गिरिमश्विनौ गामुदाचरन्तौ तद्वृष्टिमह्नात्प्रस्थितौ बलस्य।।

adi-1-3-64__763 युवां दिशो जनयथो दशाग्रे समानं मूर्ध्नि रथयानं वियन्ति। तासां यातमृषयोऽनुप्रयान्ति देवा मनुष्याः क्षितिमाचरन्ति।।

adi-1-3-65__764 युवां वर्णान्विकुरुथो विश्वरूपां- स्तेऽधिक्षियन्ते भुवनानि विश्वा। ते भानवोऽप्यनुसृताश्चरन्ति देवा मनुष्याः क्षितिमाचरन्ति।।

adi-1-3-66__765 तौ नासत्यावश्विनौ वां महेऽहं स्रजं च यां बिभृथः पुष्करस्य। तौ नासत्वावमृतावृतावृधा- वृते देवास्तत्प्रपदे न सूते।।

adi-1-3-67__766 मुखेन गर्भं लभतां युवानौ गतासुरेतत्प्रपदेन सूते। सद्यो जातो मातरमत्ति गर्भ- स्तावश्विनौ मुञ्चथौ जीवसे गाम्।।

adi-1-3-68__767 स्तोतुं न शक्नोमि गुणैर्भवन्तौ चक्षुर्विहीनः पथि संप्रमोहः। दुर्गेऽहमस्मिन्पतितोऽस्मि कूपे युवां शरण्यौ शरणं प्रपद्ये।। सौतिरुवाच।

एवमृग्भिश्चान्यैरस्तुवत्। इत्येवं तेनाभिष्टुतावश्विनावाजग्मतुराहतुश्चैं प्रीतौ स्व एष तेऽपूपोशानैनमिति।।

adi-1-3-70__769 स एवमुक्तः प्रत्युवाच नानृतमूचतुर्भगवन्तौ नत्वहमेतमपूपमुपयोक्तुमुत्सहे गुरवेऽनिवेद्येति।।

ततस्तमश्विनावूचतुः। आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपोदत्त उपयुक्तः स तेनानिवेद्य गुरवे त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति।।

adi-1-3-72__771 स एवमुक्तः प्रत्युवाच एतत्प्रत्यनुनये भवन्तावश्विनौ नोत्सहेऽहमनिवेद्य गुरवेऽपूपमुपयोक्तुमिति।।

तमश्विनावाहतुः प्रीतौ स्वस्तवानया गुरुभक्त्या। उपाध्यायस्य ते कार्ष्णायसा दन्ता भवतोऽपि हिरण्मया भविष्यन्ति चक्षुष्मांश्च भविष्यसि श्रेयश्चावाप्स्यसीति।।

adi-1-3-74__773 स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्याभ्यवादयत्।।

adi-1-3-75__774 आचचक्षे च स चास्य प्रीतिमान्बभूव।।

adi-1-3-76__775 आह चैनं यथाऽश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति।।

सर्वे च ते वेदाःप्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति। एषा तस्यापि परीक्षोपमन्न्योः।।

adi-1-3-78__777 अथापरः शिष्यस्तस्यैवापोदस्य धौम्यस्य बैदो नाम तमुपाध्यायः समादिदेश वत्स बैद इहास्यतां तावन्मम गृहे कंचित्कालं शुश्रूषुणा च भवितव्यं श्रेयस्ते भविष्यतीति।।

स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत्। गौरिव नित्यं गुरुणा धूर्षु नियोज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलस्तस्य महतात्कालेन गुरुः परितोषं जगाम।।

तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप। एषा तस्यापि परीक्षा बैदस्य।।

adi-1-3-81__780 स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत। तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः स शिष्यान्न किंचिदुवाच कर्म वा क्रियतां गुरुशुश्रूषा वेति। दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष।।

adi-1-3-82__781 अथ कस्मिंश्चित्काले बैदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्योपाध्यायं वरयाञ्चक्रतुः।।

adi-1-3-83__782 स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कनामानं शिष्यं नियोजयामास।।

adi-1-3-84__783 भोयत्किंचिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीयमानं भवता क्रियमाणमिति स एवं प्रतिसंदिश्योत्तङ्कं बैदः प्रवासं जगाम।।

अथोत्तङ्कः शुश्रूषुर्गुरुनियोगमनुतिष्ठमानो गुरुकुले वसति स्म। स तत्र वसमान उपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः।।

adi-1-3-86__785 उपाध्यायानी ते ऋतुमती उपाध्यायश्च प्रोषितोऽस्या यथाऽयमृतुर्वन्ध्यो न भवति तथा क्रियतामेषा विषीदतीति।।

adi-1-3-87__786 एवमुक्तस्ताः स्त्रियः प्रत्युवाच। न मया स्त्रीणां वचनादिदमकार्यं करणीयम्। न ह्यहमुपाध्यायेन संदिष्टोऽकार्यमपि त्वया कार्यमिति।।

तस्य पुनरुपाध्यायः कालान्तरेण गृहमाजगाम तस्मात्प्रवासात्। स तु तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत्।।

उवाच चैनं वत्सोत्तङ्कं किं ते प्रियं करवाणीति। धर्मतो हि शुश्रूषितोऽस्मि भवता तेन प्रीतिः परस्परेण नौ संवृद्धा तदनुजाने भवन्तं सर्वानेव कामानवाप्स्यसि गम्यतामिति।।

adi-1-3-90__789 स एवमुक्तः प्रत्युवाच किं ते प्रियं करवाणीति एवं ह्याहुः।।

यश्चाधर्मेण वै ब्रूयाद्यश्चाधर्मेण पृच्छति। तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति।।

सोहमनुज्ञातो भवता इच्छामीष्टं गुर्वर्थमुपहर्तुमिति। तेनैवमुक्त उपाध्यायः प्रत्युवाच वत्सोत्तङ्क उष्यतां तावदिति।।

adi-1-3-93__792 स कदाचित्तमुपाध्यायमाहोत्तङ्क आज्ञापयतु भवान्किं ते प्रियमुपाहरामि गुर्वर्थमिति।।

adi-1-3-94__793 तमुपाध्यायः प्रत्युवाच वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपाहरामीति तद्गच्छैनां प्रविश्योपाध्यायानीं पृच्छ किमुपाहरामीति एषा यद्ब्रवीति तदुपाहरस्वेति।।

adi-1-3-95__794 स एवमुक्त उपाध्यायेनोपाध्यायानीमपृच्छद्भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुमिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुं तदाज्ञापयतु भवती किमुपाहरामि गुर्वर्थमिति।।

adi-1-3-96__795 सैवमुक्तोपाध्यायानी तमुत्तङ्कं प्रत्युवाच गच्छ पौष्यं प्रति राजानं कुण्डले भिक्षितुं तस्य क्षत्रियया पिनद्धे।।

आनयस्वेतश्चतुर्थेऽहनि पुण्यकर्म भविता ताभ्यामाबद्धाभ्यां शोभमाना ब्राह्मणान्परिवेष्टुमिच्छामि। तत्संपादयस्व एवं हि कुर्वतः श्रेयो भविताऽन्यथा कुतः श्रेय इति।।

adi-1-3-98__797 स एवमुक्तस्तयोपाध्यायान्या प्रातिष्ठतोत्तङ्कः स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव स पुरुष उत्तङ्कमभ्यभाषत।।

adi-1-3-99__798 भोउत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति स एवमुक्तो नैच्छत्।।

adi-1-3-100__799 तमाह पुरुषो भूयो भक्षयस्वोत्तङ्क मा विचारयोपाध्यायेनापि ते भक्षितं पूर्वमिति।।

adi-1-3-101__800 स एवमुक्तो बाढमित्युक्त्वा तदा तद्वृपभस्य मूत्रं पुरीषं च भक्षयित्वोत्तङ्कः संभ्रमाढुत्थित एवापोऽनुस्पृश्य प्रतस्थे।।

यत्र स क्षत्रियः पौष्यस्तमुपेत्यासीनमपश्यदुत्तङ्कः। स उत्तङ्कस्तमुपेत्याशीर्भिरभिनन्द्योवाच।।

अर्थी भवन्तमुपागतोऽस्मीति स एनमभिवाद्योवाच। भगवन्पौष्यः खल्वहं किं करवाणीति।।

स तमुवाच गुर्वर्थं कुण्डलयोरर्थेनाभ्यागतोऽस्मि। ये वै ते क्षत्रिया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति।।

तं प्रत्युवाच पौष्यः प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति। स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत्।।

adi-1-3-106__805 स पौष्यं पुनरुवाच न युक्तं भवताऽहमनृतेनोपचरितुं न हि तेऽन्तःपुरे क्षत्रिया सन्निहिता नैनां पश्यामि।।

स एवमुक्तः पौष्यः क्षणमात्रं विमृश्योत्तङ्कं प्रत्युवाच। नियतं भवानुच्छिष्टः स्मर तावन्न हि सा क्षत्रिया उच्छिष्टेनाशुचिना शक्या द्रष्टुं पतिव्रतात्वात्सैषा नाशुचेर्दर्शनमुपैतीति।।

अथैवमुक्त उत्तङ्कः स्मृत्वोवाचास्ति खलु मया तु भक्षितं नोपस्पृष्टमागच्छतेति। तं पौष्यः प्रत्युवाच एष ते व्यतिक्रमो नोत्थितेनोपस्पृष्टं भवति शीघ्रमागच्छतेति।।

adi-1-3-109__808 अथोत्तङ्कस्तं तथेत्युक्त्वा प्राङ्मुख उपावेश्य सुप्रक्षालितपाणिपादवदनो निःशब्दाभिरफेनाभिरनुष्णाभिर्हृद्गताभिरद्भिस्त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्य चान्तःपुरं प्रविवेश।।

adi-1-3-110__809 ततस्तां क्षत्रियामपश्यत्सा च दृष्ट्वैवोत्तङ्कं प्रत्युत्थायाभिवाद्योवाच स्वागतं ते भगवन्नाज्ञापय किं करवाणीति।।

स तामुवाचैते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति। सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छदाह चैनमेते कुण्डले तक्षको नागराजः सुभृशं प्रार्थयत्यप्रमत्तो नेतुमर्हसीति।।

स एवमुक्तस्तां क्षत्रियां प्रत्युवाच भवती सुनिर्वृता भवतु। न मां शक्तस्तक्षको नागराजो धर्षयितुमिति।।

स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत्। आह चैनं भोः पौष्य प्रीतोऽस्मीति तमुत्तङ्कं पौष्यः प्रत्युवाच।।

adi-1-3-114__813 भगवंश्चिरेण पात्रमासाद्यते भवाश्च गुणवानतिथिस्तदिच्छे श्राद्धं कर्तुं क्रियतां क्षण इति।।

adi-1-3-115__814 तमुत्तङ्कः प्रत्युवाच कृतक्षण एवास्मि शीघ्रमिच्छामि यथोपपन्नमन्नमुपस्कृतं भवतेति स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास।।

अथोत्तङ्कः सकेशं शीतमन्नं दृष्ट्वा अशुच्येतदिति मत्वा तं पौष्यमुवाच। यस्मान्मे अशुच्यन्नं ददासि तस्मादन्धो भविष्यसीति।।

तं पौष्यः प्रत्युवाच। यस्मात्त्वमदुष्टमन्नंदूषयसि तस्मादनपत्यो भविष्यसीति तमुत्तङ्कः प्रत्युवाच।।

न युक्तं भवताऽन्नमशुचि दत्त्वा प्रतिशापं दातुं तस्मादन्नमेव प्रत्यक्षीकुरु। ततः पौष्यस्तदन्नमशुचि दृष्ट्वा तस्याशुचिभावमपरोक्षयामास।।

adi-1-3-119__818 अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतमनुष्णं सकेशं चाशुच्येतदिति मत्वा तमृषिमुत्तङ्कं प्रसादयामास।।

adi-1-3-120__819 भघवन्नेतदज्ञानादन्नं सकेशमुपाहृतं शीतं च। तत्क्षामये भवन्तं न भवेयमन्ध इति। तमुत्तङ्कः प्रत्युवाच।।

न मृषा ब्रवीमि भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति। ममापि शापो भवता दत्तो न भवेदिति।।

तं पौष्यः प्रत्युवाच न चाहं शक्तः शापं प्रत्यादातुं न हि मे मन्युरद्याप्युपशमं गच्छति किं चैतद्भवता न ज्ञायते। यथा।।

adi-1-3-123__822 नवनीतं हृदयं ब्राह्मणस्य वाचि क्षुरो निहितस्तीक्ष्णधारः। तदुभयमेतद्विपरीतं क्षत्रियस्य वाङ्गवनीतं हृदयं तीक्ष्णधारम्।। इति।।

तदेवंगते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथाकर्तुं गम्यतामिति। तमुत्तङ्कः प्रत्युवाच।।

adi-1-3-125__824 भवताऽहमन्नस्याशुचिभावमालक्ष्य प्रत्यनुनीतः। प्राक् च तेऽभिहितं यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति। दुष्टे चान्ने नैष मम शापो भविष्यतीति।।

साधयामस्तावदित्युक्त्वा प्रातिष्ठतोत्तङ्कस्ते कुण्डले गृहीत्वा। सोऽपश्यदथ पथि नग्नं क्षपणकमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च।।

अथोत्तङ्कस्ते कुण्डले संन्यस्य भूमावुदकार्थं प्रचक्रमे। एतस्मिन्नन्तरे स क्षपणकस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत्।।

adi-1-3-128__827 तमुत्तङ्कोऽभिसृत्य कृतोदककार्यः शुचिः प्रयतो नमो देवेभ्यो गुरुभ्यश्च कृत्वा महता जवेन तमन्वयात्।।

तस्य तक्षको दृढमासन्नः सतं जग्राह। गृहीतमात्रः स तद्रूपं विहाय तक्षकस्वरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं प्रविवेश।।

प्रविश्य च नागलोकं स्वभवनमगच्छत्। अथोत्तङ्कस्तस्याः क्षत्रियाया वचः स्मृत्वा तं तक्षकमन्वगच्छत्।।

adi-1-3-131__830 स तद्बिलं दण्डकाष्ठेन चखान न चाशकत्। तं क्लिश्यमानमिन्द्रोऽपश्यत्स वज्रं प्रेषयामास। गच्छास्य ब्राह्मणस्य साहाय्यं कुरुष्वेति।।

adi-1-3-132__831 अथ वज्रं दण्डकाष्ठमनुप्रविश्य तद्बिलमदारयत्।।

adi-1-3-133__832 तमुत्तङ्कोऽनुविवेश तेनैव बिलेन प्रविश्य च तं नागलोकमपर्यन्तमनेकविधप्रासादहर्म्यवलभीनिर्यूहशतसंकुलमुच्चावचक्रीडाश्चर्यस्थानावकीर्णमपश्यत्।।

adi-1-3-134__833 स तत्र नागांस्तानस्तुवदेभिः श्लोकैः। य ऐरावतराजानः सर्पाः समितिशोभाः। क्षरन्त इव जीमूताः सविद्युत्पवनेरिताः।।

सुरूपा बहुरूपाश्च तथा कल्माषकुण्डलाः। आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः।।

बहूनि नागवेश्मानि गङ्गायास्तीर उत्तरे। तत्रस्थानपि संस्तौमि महतः पन्नगानहम्।।

इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना। शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः।।

सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदैजति। ये चैनमुपसर्पन्ति ये च दूरपथं गताः।।

अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः। यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्पुरा।।

तं नागराजमस्तौषं कुण्डलार्थाय तक्षकम्। तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ।।

कुरुक्षेत्रं च वसतां नदीमिक्षुमतीमनु। जघन्यजस्तक्षकस्य श्रुतसेनेति यः सुतः।।

अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम्। करवाणि सदा चाहं नमस्तस्मै महात्मने।। सौतिरुवाच।

एवं स्तुत्वा स विप्रर्षिरुत्तङ्को भुजगोत्तमान्। नैव ते कुण्डले लेभे ततश्चिन्तामुपागमत्।।

एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभत्तदाऽपश्यत्स्त्रियौ तन्त्रे अधिरोप्य सुवेमे पटं वयन्त्यौ। तस्मिंस्तन्त्रे कृष्णाः सिताश्च तन्तवश्चक्रं चापश्यद्द्वादशारं षड्भिः कुमारैः परिवर्त्यमानं पुरुषं चापश्यदश्वं च दर्शनीयम्।।

adi-1-3-145__844 स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवादश्लोकैः।।

adi-1-3-146__845 त्रीण्यर्पितान्यत्र शतानि मध्ये षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन्। चक्रे चतुर्विंशतिपर्वयोगे षड्वै कुमाराः परिवर्तयन्ति।।

adi-1-3-147__846 तन्त्रं चेदं विश्वरूपे युवत्यौ वयतस्तन्तून्सततं वर्तयन्त्यौ। कृष्णान्सितांश्चैव विवर्तयन्त्यौ भूतान्यजस्रं भुवनानि चैव।।

adi-1-3-148__847 वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हन्ता नमुचेर्निहन्ता। कृष्णे वसानो वसने महात्मा सत्यानृते यो विविनक्ति लोके।।

adi-1-3-149__848 यो वाजिनं गर्भमपां पुराणं वैश्वानरं वाहनमभ्युपैति। नमोऽस्तु तस्मै जगदीश्वराय लोकत्रयेशाय पुरंदराय।।

ततः स एनं पुरुषः प्राह प्रीतोऽस्मि तेऽहसनेन स्तोत्रेण किं ते प्रियं करवाणीति। स तमुवाच नागा मे वशमीयुरिति।।

adi-1-3-151__850 स चैनं पुरुषः पुनरुवाच एतमश्वमपाने धमस्वेति।।

adi-1-3-152__851 ततोऽश्वस्यापानमधमत्ततोऽश्वाद्धम्यमानात्सर्वस्रोतोभ्यः पावकार्चिषः सधूमा निष्पेतुः।।

adi-1-3-153__852 ताभिर्नागलोक उपधूपितेऽथ संभ्रान्तस्तक्षकोऽग्नेस्तेजोभयाद्विषण्णः कुण्डले गृहीत्वा सहसा भवनान्निष्क्रम्योत्तङ्कमुवाच।।

इमे कुण्डले गृह्णातु भवानिति। स ते प्रतिजग्राहोत्तङ्कः प्रतिगृह्य च कुण्डलेऽचिन्तयत्।।

adi-1-3-155__854 अद्य तत्पुण्यकमुपाध्यायान्या दूरं चाहमभ्यागतः स कथं संभावयेयमिति।।

तत एनं चिन्तयानमेव स पुरुष उवाच। उत्तङ्क एनमेवाश्वमधिरोह त्वां क्षणेनैवोपाध्यायकुलं प्रापयिष्यतीति।।

स तथेन्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलं। उपाध्यायानी च स्नाता केशानावापयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे।।

adi-1-3-158__857 अथैतस्मिन्नन्तरे स उत्तङ्कः प्रविश्य उपाध्यायकुलं उपाध्यायानीमभ्यवादयत्ते चास्यै कुण्डले प्रायच्छत्सा चैनं प्रत्युवाच।।

adi-1-3-159__858 उत्तङ्क देशे कालेऽभ्यागतः स्वागतं ते वत्स `इदानीं यद्यनागतोसि कोपितया मया शप्तो भविष्यसि’ श्रेयस्तवोपस्थितं सिद्धिमाप्नुहीति।।

अथोत्तङ्क उपाध्यायमभ्यवादयत्। तमुपाध्यायः प्रत्युवाच वत्सोत्तङ्क स्वागतं ते किं चिरं कृतमिति।।

तमुत्तङ्क उपाध्यायं प्रत्युवाच। भोस्तक्षकेण मे नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि तेनास्मि नागलोकं गतः।।

तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ तस्मिंश्च कृष्णाः सिताश्च तन्तवः। किं तत्।।

adi-1-3-163__862 तत्र च मया चक्रं दृष्टं द्वादशारं षट्चैनं कुमाराः परिवर्तयन्ति तदपि किं। पुरुषश्चापि मया दृष्टः स चापि कः। अश्वश्चातिप्रमाणो दृष्टः स चापि कः।।

adi-1-3-164__863 पथि गच्छता च मया ऋषभो दृष्टस्तं च पुरुषोऽधिरूढस्तेनास्मि सोपचारमुक्त उत्तङ्कास्य ऋषभस्य पुरीषं भक्षय उपाध्यायेनापि ते भक्षितमिति।।

adi-1-3-165__864 ततस्तस्य वचनान्मया तदृषभस्य पुरीषमुपयुक्तं स चापि कः। तदेतद्भवतोपदिष्टमिच्छेयं श्रोतुं किं तदिति। स तेनैवमुक्त उपाध्यायः प्रत्युवाच।।

ये ते स्त्रियौ धाता विधाता च ये च ते कृष्णाः सितास्तन्तवस्ते रात्र्यहनी। यदपि तच्चक्रं द्वादशारं षट्कुमाराः परिवर्तयन्ति तेपि षड्ऋतवः द्वादशारा द्वादश मासाः संवत्सरश्चक्रम्।।

adi-1-3-167__866 यः पुरुषःस पर्जन्यः योऽश्वः सोऽग्निः य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराट्।।

adi-1-3-168__867 यश्चैनमधिरूढः पुरुषः स चेन्द्रः यदपि ते भक्षितं तस्य ऋषभस्य पुरीषं तदमृतं तेन खल्वसि तस्मिन्नागभवने न व्यापन्नस्त्वम्।।

स हि भगवानिन्द्रो मम सखा त्वदनुक्रोशादिममनुग्रहं कृतवान्। तस्मात्कुण्डले गृहीत्वा पुनरागतोऽसि।।

तत्सौम्य गम्यतामनुजाने भवन्तं श्रेयोऽवाप्स्यसीति। स उपाध्यायेनानुज्ञातो भगवानुत्तङ्कः क्रुद्धस्तक्षकं प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे।।

स हास्तिनपुरं प्राप्य नचिराद्विप्रसत्तमः। समागच्छत राजानमुत्तङ्को जनमेजयम्।।

पुरा तक्षशिलासंस्थं निवृत्तमपराजितम्। सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम्।।

तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः। उवाचैनं वचः काले शब्दसंपन्नया गिरा।। उत्तङ्क उवाच।

अन्यस्मिन्करणीये तु कार्ये पार्थिवसत्तम। अर्चयित्वा यथान्यायं प्रत्युवाच द्विजोत्तमम्।। सौतिरुवाच।

एवमुक्तस्तु विप्रेण स राजा जनमेजयः। अर्चयित्वा यथान्यायं प्रत्युवाच द्विजोत्तमम्।। जनमेजय उवाच।

adi-1-3-176__875 आसां प्रजानां परिपालनेन स्वं क्षत्रधर्मं परिपालयामि। प्रव्रूहि मे किं करणीयमद्य येनासि कार्येण समागतस्त्वम्।। सौतिरुवाच।

adi-1-3-177__876 स एवमुक्तस्तु नृपोत्तमेन द्विजोत्तमः पुण्यकृतां वरिष्ठः। उवाच राजानमदीनसत्वं स्वमेव कार्यं नृपते कुरुष्व।। उत्तङ्क उवाच।

तक्षकेण महीन्द्रेन्द्र येन ते हिंसितः पिता। तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने।।

कार्यकालं हि मन्येऽहं विधिदृष्टस्य कर्मणः। तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः।।

तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना। पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः।।

बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः। अकार्यं कृतवान्पापो योऽदशत्पितरं तव।।

राजर्षिवंशगोप्तारममरप्रतिमं नृपम्। यियासुं काश्यपं चैव न्यवर्तयत पापकृत्।।

होतुमर्हसि तं पापं ज्वलिते हव्यवाहने। सर्पसत्रे महाराज त्वरितं तद्विधीयताम्।।

एवं पितुश्चापचितिं कृतवांस्त्वं भविष्यसि। मम प्रियं च सुमहत्कृतं राजन् भविष्यति।।

कर्मणः पृथिवीपाल मम येन दुरात्मना। विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ।। सौतिरुवाच।

एतच्छ्रुत्वा तु नृपतिस्तक्षकाय चुकोप ह। उत्तङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा।।

अपृच्छत्स तदा राजा मन्त्रिणः स्वान्सुदुःखितः। उत्तङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति।।

adi-1-3-188__887 तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत्। यदैव वृत्तं पितरमुत्तङ्कादशृणोत्तदा।। ।।

इति श्रीमन्महाभारते आदिपर्वणि पौष्यपर्वमि तृतीयोऽध्यायः।। 3 ।। ।। समाप्तं च पौष्यपर्व ।।

1-3-1 परिक्षितोऽपत्य पुमान्पारिक्षितः। सरमायाः देवशुन्याः अपत्यं पुमान्सारमेयः।। 1-3-9 अदृष्टं अतर्कितं।। 1-3-10 संभ्रान्तः संतप्त इति पाठान्तरं।। 1-3-11 पापकृत्यां शापरूपां बलायुः-प्राणनिकृन्तनीं देवतां। शमयेदक्रोधनां कुर्यात्। 1-3-18 उपांशुव्रतं गूढव्रतं।। 1-3-20 तक्षशिलां देशविशेषं जेतुमिति शेषः।। 1-3-21 अपोत्तीत्यपोदः अब्भक्षः तस्यापत्यमापोदः।। 1-3-22 केदारो महाक्षेत्रान्तर्गतं चतुरस्रं तस्य खण्डो जलनिरोधभित्तिः तं।। 1-3-36 पीवानं पुष्टं। वृत्तिं जीविकां।। 1-3-42 वृत्त्युपरोधं वृत्तिप्रतिबन्धं।। 1-3-44 चरसि भक्षयसि।। 1-3-51 तीक्ष्णविपाकैः पाककाले उदरेऽग्निज्वालोत्थापकैः।। 1-3-56 कर्ताराविति लुडन्तं।। 1-3-57 प्रपूर्वगाविति। अस्य श्लोकस्यानन्वयादुत्तरश्लोकस्थं संबोधनमिह योज्यम्। हे नासत्यदस्रौ गिरा वाण्या। वां युवां शंसामि स्तौमि। व्यवहिताश्चेति गतिसंज्ञत्वात्प्रशंसामीति वाऽन्वयः। किंभूतौ वां। प्रपूर्वगौ प्रकर्षेणान्यदेवताभ्यः पूर्वं यज्ञं गच्छन्तौ। पूर्वजौ अश्वजात्यां हि पूर्वं मुखसंयोगः ततः संयोगाद्गर्भोत्पत्तिरिति तत्र गर्भोत्पत्तेः पूर्वं मुखयोहगमात्राज्जातौ। चित्रभानू अग्नितुल्यौ। तपसा सामर्थ्येन। अनन्तौ अनन्तरूपधरौ। दिव्यौ दिवः द्योतमानात्सूर्याद्भवौ। सुपर्णौ शोभनगमनौ। विरजौ विगतरजोगुणौ। विश्वा विश्वानि। भुवनानि अधि। विमानौ स्वविमानौ। क्षिपन्तौ प्रेरयन्तौ।। 1-3-58 हिरण्मयाविति। किंभूतौ विमानौ। हिरण्मयौ सुवर्णमयौ। शकुनी। लुप्तोपममेतत्। शीघ्रगामित्वात्पक्षिणाविव। यद्वा पदद्वयमप्यश्विनोरेव विशेषणं। हिरण्मयौ सुवर्णालङ्कृतौ। शकुनी आरोग्यकरणेन शकुं शक्तिं नयतः प्रापयत इति शकुनी। सांपरायौ संपरायः परलोकस्तस्मै हितौ। यद्वा सांपरायामापदि अयः प्राप्तिर्ययोस्तौ। भक्तानामापदि तद्रक्षणायागच्छन्तौ। नासत्यदस्रौ। नासत्यौ असत्यरहितौ। नासापुटजातौ वा। दस्रौ दर्शनीयौ। सुसौ सुनासिकौ। विशेषेण जयन्तौ विजयन्तौ। विजयन्तावेव वैजयन्तौ। विवस्वतः सूर्यस्य तरसा बलेन असितं श्यामकुष्ठं अधिव्ययन्तौ निराकुर्वन्तौ। शुक्लं दीप्तियुक्तं वर्मं चक्षुर्वा। वयन्तौ कुर्वन्तौ। सूर्यस्य पितृत्वात् तद्बलेन युवयोरेतत्सामर्थ्यं युज्यत इति स्तुतिः। सुवेमौ। लुप्तोपममेतत्। यथा वेमधारिणौ तन्तुवायौ पटादसितकेशादि दूरीकुरुतः शुक्लं च तन्तुं वयतस्तथेत्यर्थः।। 1-3-59 ग्रस्तामिति। हे अश्विनौ। सुपर्णस्य लुप्तोपममेतत्। सुपर्णतुल्यपराक्रमस्य गतेर्वा वृकस्य बलेन ग्रस्तां अभिभूतां। वर्तिकां वर्तिकाख्यां पक्षिणीं। तस्याः सौभगाय जीवनरूपसुखाय। अमुञ्चतां भवन्ताविति शेषः। आस्नो वृकस्येत्यस्यामृचि इयं कथा प्रसिद्धा। अहं तौ युवां तावत् कार्त्स्न्येन अनमं नमस्कृतवानस्मि। तौ कौ। यौ प्रति। सुष्टु वर्तत इति सुवृत् सोमयागकर्ता। तमाय तमु ग्लानाविति धातोः ग्लानये। असत्तमाः असमीचीना अपि गाः उदावहत् प्रार्थनाविषयत्वेन प्रापयामास। गोविषयप्रार्थनां कृतवानित्यर्थः। किंभूतौ यौ। अरुणा अरुणौ। डादेशश्छान्दसः। लुप्तोपममेतत्। सोमयागे हि प्रातरनुवाकादावश्विनोः स्तुतत्वात् यथा दिनारम्भे अरुणस्तथा सोमयागारम्भे युवामित्यर्थः। अत्रायमाशयः। सोमयागे इन्द्रादिषु देवताभूतेषु सत्स्वपि असमीचीनगोरक्षणस्यानन्यसाध्यत्वज्ञानेन यजमानेन भवन्तावेव प्रार्थितावित्यहमपि युवामेव स्तौमीति।। 1-3-60 षष्टिश्च गाव इति। ज्योतिष्टोमे सन्त्युपसदस्तिस्रः। ताश्च सत्रेऽधिका भवन्ति। उपसत्सु च प्रवर्ग्य उक्तः। तत्र महावीराख्यपात्रेषु तप्ते घृते दुग्धं प्रक्षिप्यते तदर्था चास्ति धेनुः। ततो घृतं दुग्धं च मिश्रमश्विभ्यां हूयते। एवं सति यदा गवामयनादिसत्रेषु संवत्सरमुपसदः क्रियन्ते तत्र घर्मे सर्वोत्कृष्टे अश्विनावेव यष्टव्याविति स्तुतिरत्र क्रियते। तावश्विनावनममिति गतेन संबन्धः। तौ कौ यत्तदोर्नित्यसंबन्धाद्यौ तं घर्मं दुहतः साधयतः। प्रसिद्धोपि घर्मो भवतोर्भवति। भवतोरेव देवतात्वादित्याशयः। तं कं यत्तदोर्नित्यसंबन्धाद्यं घर्मं त्रिशताः षष्टिश्च धेनवो दुग्धदात्र्यो गावः। घर्मे दुग्धरहितानां गवामनुपयोगात्। एकं वत्सं वत्सरं। अत्यन्तसंयोगे द्वितीया। वत्सरावधीत्यर्थः। सुवते साधयन्ति। घृतेन। दुहन्ति दुग्धेन साधयन्ति। यज्ञादौ सावनः स्मृत इति वाक्यादत्र सावनवर्षग्रहणेन षष्ट्यधिकशतत्रयदिनानि भवन्ति। तेन तावत्य एव गावः घृतदुग्धाभ्यां घर्मं साधयन्तीत्यर्थः। कथंभूता गावः। नानागोष्ठाः लुप्तोपममेतत्। दिनानां गोष्ठोपमाया विवक्षितत्वात् नानागोष्ठनिष्ठा इत्यर्तः। एकदोहना विहिताः एकोऽध्वर्युर्दोहनकर्ता यासामेवंभूताः श्रुतावुक्ता इत्यर्थः। किंभूत घर्मं उक्थ्यं प्रशस्यम्।। 1-3-61-62 एकां नाभिमिति। सूर्यरथचालकत्वेनाश्विनावत्र स्तूयेते। श्लोकद्वयस्यैकान्वयः। हे अश्विनौ युवां। विषीदतं विषीदन्तं। छान्दसो नुमभावः। मां मुञ्चतः। लकारव्यत्ययेन मुञ्चतमित्याशंसा। तौ कौ। यावश्विनौ। चर्षणी लुप्तोपमं चैतत्। चर्षणिशब्दो निघण्टुषु मनुष्यपर्यायः पठितः। मनुष्याविवेत्यर्थः। सूर्यरथचालकत्वेन अश्विनोः शोभां वक्तुं सूर्यरथसंबन्धिचक्रद्वयगतिं वर्णयति पादत्रिकद्वयेन। एकपदमावृत्य योज्यं। एकं चक्रं ईदृशं परिवर्तते भ्रमति। अन्यदेकं चक्रं ईदृशं वर्तते चलतीत्यर्थः। कीदृशमेकं चक्रं आद्यस्य एकां नाभिं सप्तशताः सप्तशतसङ्ख्याः अराः अन्याश्च विंशतिसङ्ख्या अराः श्रिताः संलग्नाः। चक्रमध्यस्थनाभौ विंशत्यधिकसप्तशतसंख्याः अराः तिर्यक् संलग्ना इत्यर्थः। किंभूता अराः। प्रधिषु बाह्यचक्रावयवेषु अर्पिता अधिनिवेशिता इत्यर्थः। कीदृशमन्यच्चक्रं द्वादशारं षण्णाभि। पुंरत्वं छान्दसम्। कीदृशं प्रथमचक्रं। अनेमि चलनेमिरहितमित्यर्थः। अजरं न जीर्यत इत्यजरम्। जीर्णं न भवतीत्यर्थः। एकं चक्रं मध्यशङ्कुनिहितपाशवत्स्वस्थल एव परिभ्रमत्। द्वितीयं तु समन्ततश्चरतीत्याशयः। द्वितीयचक्रविशेषणमेकाक्षमिति। एकं उत्कृष्टोऽक्षोऽस्य अतिदृढ इत्यर्थः। अमृतस्य स्वर्गस्य धारणं रक्षणसाधनम्। यस्मिन्स्वचक्रे विश्वे सवे देवाः अधिविषक्ताः। प्राधान्याद्देवग्रहणम्। तेन तदुपलक्षिताः सर्वे जीवा इत्यर्थः। सर्वेषां सूर्यचक्रनियोगोदितत्वादित्यर्थः। अत्र “पञ्चारे चक्रे” इत्यादिश्रुतयो मानम्।। 1-3-63 अश्विनाविति। हे अश्विनौ दासपत्नी। सुपांसुलुगिति लुप्त सप्तमीबहुवचनत्वेन दासपत्नीषु अप्सु। इन्दुं अमृतं सोमाख्यममृतं। तिरोधत्तां कृतवन्तौ। किंभूतावश्विनौ वृत्तभूयौ भूयोवृत्तौ नानाकर्माणावित्यर्थः। हित्वेति। अश्विनौ यत् यदा गिरिं मे हित्वा त्यक्त्वा गां भुवं उदाचरन्तौ गच्छन्तौ। तत् तदा बलस्य प्राणिनां सामर्थ्यस्य संबन्धिनीं तज्जनिकां वृष्टिं प्रति। अह्नात शीघ्रम्। अह्नादिति सुबन्तप्रतिरूपकमव्ययं। प्रस्थितौ कृतप्रस्थानौ भवथः। सुमेरोः सकाशाद्भुवमागत्य प्राणिनामन्नादिद्वारेण बलजनिकां वृष्टिं कुरुथ इत्यर्थः।। 1-3-64 युवामिति। हे अश्विनौ युवां अग्रे प्रथमं समानं सम्यक् आनः आगतं गमन यस्मिन्कर्मणि तथा। सोमयागे प्रथमं गच्छन्ताविति यावत् दश दिशो जनयथः। दिक्शब्देन इन्द्रादयो दिक्पाला लक्ष्यन्ते। जनिः प्रादुर्भावार्थः। सोमयागे प्रथमगामित्वेन इन्द्रादिदेवताप्रादुर्भावकत्वं। अथ तदनन्तरं याः दिशः दिग्देवता मूर्ध्नि यागस्य मूर्ध्नि प्रधाने वियन्ति संबन्ध्यन्ते। तासां दिग्देवतानां यातं यानमनु पश्चात् ऋषयः प्रयान्ति मूर्ध्नीति पूर्वेणान्वयः। अतएव युवयोः देवा मनुष्याश्च क्षितिमैश्वर्यं ऐश्वर्य युक्तां स्तुतिमाचरन्ति कुर्वन्ति।। 1-3-65 युवां वर्णानिति त इति तच्छब्दात् यच्छब्दो द्रष्टव्यः। हे अश्विनौ युवां वर्णान्नानावर्णान् विश्वरूपान् सृष्ट्यादिहेतुत्वेन अनेकरूपान् यानभानून् विकुरुथः विशेषेण कुरुथः सूर्यरथप्रकाशयितृत्वादित्याशयः। ते भानवः सूर्यकिरणाः विश्वा विश्वानि सर्वाणि भुवनानि अधिक्षियन्ते आवृण्वन्ति। त एव भानवोऽनुसृताश्चरन्त्यपि विचरन्ति चेत्यर्थः। अतएव देवा मनुष्याश्च युवयोः क्षिति स्तुतिमाचरन्तीति पूर्ववदर्थः।। 1-3-66 तौ नासत्याविति हे नासत्यावश्विनौ अहं तौ वां युवां महे पूजयामि। मनसा पूजयामीत्यर्थः। यां छान्दसत्वेन जात्यभिप्रायेणैकवचनम्। ये। पुष्करस्य जात्यभिप्रायैकवचनं। पुष्कराणां पद्मानां स्रजं जात्येकवचनेन स्रजौ माले बिभृथो धारयथः। तौ प्रसिद्धौ अमृतौ नास्ति मृतं मरणं ययोस्तौ तथोक्तौ ऋतावृधौ ऋतं सत्यं यज्ञमुदकं वा वर्धयत इति तथा तौ नासत्यौ ऋते विना देवा इन्द्रादयः पदे स्थाने सोमयागादौ तद्देवसंबन्धित्वेन प्रसिद्धं हविः न प्रसूते वचनव्यत्ययेन न प्राप्नुवन्ति। सोमयागे अश्विनोः प्रथमगामित्वेन तौ विना देवाः स्वांशं न स्वीकुर्वन्तीत्यर्थः।। 1-3-67 मुखेन गर्भमिति। हे अश्विनौ तौ युवां जीवसे जीवितु। असेन्प्रत्ययान्तमेतत्। गां दृष्टिं मुञ्चथः लकारव्यत्ययेन मुञ्चतमित्याशंसा। तौ कौ यौ मुखेन कृत्वा युवानौ तरुणावेव गर्भं भावप्रधानो निर्देशः। गर्भत्वं लभतां अलभतां। बहुलं छन्दसीत्यडभावः। ननु नवमासगर्भधारणाभावे कथमाकस्मिकोत्पत्तिः कथं च स्तन्यपानाद्यभावे आकस्मिकं तारुण्यमित्यत आह। गतासुरित्यादि। गता असवः प्राणा यस्येति गतासुर्मनुष्यादिः। एतत् छान्दसो लिङ्गव्यत्ययः। एनं गर्भं। प्रपदेन प्रकृष्टेन पदेन गमनेन नवमासरूपेण प्रसूते जातः उत्पन्नः स गर्भः सद्यः तत्काले जननीं अत्ति पिबति। मनुष्यदेहे एतदुचितम्। अश्विनोस्तु मरणधर्मत्वाभावान्नैवमित्याशयः।। 1-3-77 एषा तस्येति सूतवाक्यं।। 1-3-79 गौर्बलीवर्दः।। 1-3-81 नेयेष न कामितवान्।। 1-3-83 नियोजयामास अग्निशुश्रूषादतविति शेषः।। 1-3-84 परिहीयते न्यूनं भवति।। 1-3-90 आहुः वृद्धा इति शेषः।। 1-3-91 व्रूयात् अध्यायपयेत्। पृच्छति अधीते। अधर्मेण गुरुदक्षिणादिव्यतिरेकेण।। 1-3-96 पिनद्धे धृते।। 1-3-101 अनुपस्पृश्य अनाचम्य।। 1-3-106 अनृतेनोपचरितुं वञ्चयितुं।। 1-3-127 उदकार्थं शौचाचमनादि कर्तुं।। 1-3-129 दृढमासन्नः अत्यन्तसन्निहितः।। 1-3-135 कल्माषकुण्डलाः चित्रकुण्डलाः।। 1-3-137 अर्कांशुसेनायां सेनावद्दुःसहरश्मिजाले।। 1-3-142 महद्द्युग्नि तीर्थविशेषे।। 1-3-145 मन्त्रवादश्लोकैः मन्त्रस्वरूपश्लोकैः।। 1-3-146 त्रीण्यर्पितानीति। मन्त्रलिङ्गमात्रावगमात्तुष्टाव। विशेषशानं तु तस्य गुरुमुखादेव भविष्यति। अत्र चक्रे। नित्यं चरति भ्रमति। ध्रुवे प्रवाहरूपेण नित्ये कालरूपे। शतानि षष्टिश्च अहोरात्राणामिति शेषः। चतुर्विंशतिपर्वणां शुक्लकृष्णपक्षरूपाणां योगो युस्मिन्तथाभूते। मध्येऽर्पितानि। यच्च षट्कुमाराः ऋतवः परिवर्तयन्ति।। 1-3-147 तन्त्रं चेदमिति। तन्त्रं आतानवितानरूपं तन्तुसमुदायं। विश्वरूपे समयभेदेन स्त्रीपुरुषादिरूपे। युवत्यौ धाताविघातारौ। वयतः रचनां कुरतः। संवत्सररूपं पटमितिशेषः। वर्तयन्त्यौ संचारयन्त्यौ। भूतानि च परिवर्तयन्त्यौ वयत इति पूर्वेणान्वयः।। 1-3-148 भर्ता धारकः।। 1-3-149 अपां गर्भं अद्भ्यो जातं। पुराणं आदिसर्गभवं। वैश्वानरं अग्निरूपमश्व। वाजिन वाहनं अभ्युपैति। तस्मै नम इत्यन्वयः।। 1-3-152 स्नोतोभ्यः शरीररन्ध्रेभ्यः।। 1-3-157 आवापयन्ती वेणीरूपेण केशानां संग्रथनं कारयन्ती।। 1-3-159 त्वं मनागसि न शप्तः इति पाठे स्वलकालनिमित्तं न शप्तोसि। यदि क्षमं नागतः स्याः शप्तः स्या इत्यर्थः।। 1-3-168 न व्यापन्नो न मृतः।। 1-3-182 कश्यप इत्यपि पाठो दृश्यते।। ।। तृतीयोऽध्यायः।। 3 ।।

अध्यायः 004

(अथ पौलोमपर्व।। 4 ।।)

सौतिशौनकसंवादमुखेन कथोपोद्धातः।। 1 ।।

adi-1-4-1__888 रोमहर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको नैमिशारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे।।

adi-1-4-2__889 पौराणिकः पुराणे कृतश्रमः स कृताञ्जलिस्तानुवाच। `मयोत्तङ्कस्य चरितमशेषमुक्तं जनमेजयस्य सार्पसत्रे निमित्तान्तरमिदमपि।’ किं भवन्तः श्रोतुमिच्छन्ति किमहं ब्रवाणीति।। adi-1-4-3x__25तमृषय ऊचुः।

adi-1-4-3__890 परं रौमहर्षणे प्रवक्ष्यामस्त्वां नः प्रतिवक्ष्यसि वचः शुश्रूषतां कथायोगं नः कथायोगे।।

adi-1-4-4__891 तत्र भगवान् कुलपतिस्तु शौनकोऽग्निशरणमध्यास्ते। `दीर्घसत्रत्वात्सर्वाः कथाः श्रोतुं कालोस्ति।।’

यौऽसौ दिव्याः कथा वेद देवतासुरसंश्रिताः। मनुष्योरगगन्धर्वकथा वेद च सर्वशः।।

स चाप्यस्मिन्मशे सौते विद्वान्कुलपतिर्दिवजः। दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः।।

सत्यवादी शमपरस्तपस्वी नियतव्रतः। सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम्।।

तस्मिन्नध्यासति गुरावासनं परमार्चितम्। ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः।। सौतिरुवाच।

एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि। तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः।।

सोऽथ विप्रर्षभः सर्वं कृत्वा कार्यं यथाविधि। देवान्वाग्भिः पितॄनद्भिस्तर्पयित्वाऽऽजगाम ह।।

यत्र ब्रह्मर्षयः सिद्धाः सुखासीना धृतव्रताः। यज्ञायतनमाश्रित्य सूतपुत्रपुरस्पराः।।

ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्तदा। उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम्।। ।।

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि चतुर्थोऽध्यायः।। 4 ।।

1-4-7 प्रतिपाल्यतां प्रतीक्ष्यतां।। 1-4-10 वाग्भिः ब्रह्मयज्ञीयाभिः।। चतुर्थोऽद्यायः।। 4 ।।

अध्यायः 005

भृगुवंशकथनम्।। 1 ।। पौलोमोपाख्यानम्।। 2 ।। पुलोमापहारः।। 3 ।। पुलोमाग्निसंवादः।। 4 ।।

adi-1-5-0__900 शौनक उवाच।

adi-1-5-1__901 पुराणमखिलं तात पिता तेऽधीतवान्पुरा। `भारताध्ययनं सर्वं कृष्णद्वैपायनात्तदा।’ कच्चित्त्वमपि तत्सर्वमधीषे रौमहर्षणे।।

पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम्। कथ्यन्ते ये पुराऽस्माभिः श्रुतपूर्वाः पितुस्तव।।

तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम्। कथयस्व कथामेतां कल्याः स्मः श्रवणे तव।। सौतिरुवाच।

यदधीतं पुरा सम्यग्द्विजश्रेष्ठैर्महात्मभिः। वैशंपायनविप्राग्र्यैस्तैश्चापि कथितं यथा।।

यदधीतं च पित्रा मे सम्यक्कैव ततो मया। तावच्छृणुष्व यो देवैः सेन्द्रैः सर्षिमरुद्गणैः।।

पूजितः प्रवरो वंशो भार्गवो भृगुनन्दन। इमं वंशमहं पूर्वं भार्गवं ते महामुने।।

निगदामि यथायुक्तं पुराणाश्रयसंयुतम्। भृगुर्महर्षिर्भगवान्ब्रह्मणा वै स्वयंभुवा।।

वरुणस्य क्रतौ जातः पावकादिति नः श्रुतम्। भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः।।

च्यवनस्य च दायादः प्रमतिर्नाम धार्मिकः। प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत।।

रुरोरपि सुतो जज्ञे शुनको वेदपारगः। प्रमद्वरायां धर्मात्मा तव पूर्वपितामहः।।

तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः। धार्मिकः सत्यवादी च नियतो नियताशनः।। शौनक उवाच।

सूतपुत्र यथा तस्य भार्गवस्य महात्मनः। च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः।। सौतिरुवाच।

भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता। तस्यां समभवद्गर्भो भृगुवीर्यसमुद्भवः।।

तस्मिन्गर्भेऽथ संभूते पुलोमायां भृगूद्वह। समये समशीलिन्यां धर्मपत्न्यां यशस्विनः।।

अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे। आश्रमं तस्य रक्षोऽथ पुलोमाऽभ्याजगाम ह।।

तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम्। हृच्छयेन समाविष्टो विचेताः समपद्यत।।

अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना। न्यमन्त्रयत वन्येन फलमूलादिना तदा।।

तां तु रक्षस्तदा ब्रह्मन्हृच्छयेनाभिपीडितम्। दृष्ट्वा हृष्टमभूद्राजञ्जिहीर्षुस्तामनिन्दिताम्।।

जातमित्यब्रवीत्कार्यं जिहीर्षुर्मुदितः शुभाम्। सा हि पूर्वं वृता तेन पुलोम्ना तु शुचिस्मिता।।

तां तु प्रादात्पिता पश्चाद्भृगवे शास्त्रवत्तदा। तस्य तत्किल्बिषं नित्यं हृदि वर्तति भार्गव।।

इदमन्तरमित्येवं हर्तुं चक्रे मनस्तदा। अथाग्निशरणेऽपश्यज्ज्वलन्तं जातवेदसम्।।

तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा। शंस मे कस्य भार्येयमग्ने पृच्छे ऋतेन वै।।

मुखं त्वमसि देवानां वद पावक पृच्छते। मया हीयं वृता पूर्वं भार्यार्थे वरवर्णिनी।।

पश्चादिमां पिता प्रादाद्भृगवेऽनृतकारकः। सेयं यदि वरारोहा भृगोर्भार्या रहोगता।।

तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम्। स मन्युस्तत्र हृदयं प्रदहन्निव तिष्ठति।।

मत्पूर्वभार्यां यदिमां भृगुराप सुमध्यमाम्। `असंमतमिदं मेऽद्य हरिष्याम्याश्रमादिमाम्’।। सौतिरुवाच।

एवं रक्षस्तमामन्त्र्य ज्वलितं जातवेदसम्। शङ्कमानं भृगोर्भार्यां पुनःपुनरपृच्छत।।

त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा। साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः।।

मत्पूर्वभार्याऽपहृता भृगुणाऽनृतकारिणा। सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि।।

श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्याश्रमादिमाम्। जातवेदः पश्यतस्ते वद सत्यां गिरं मम।। सौतिरुवाच।

तस्यैतद्वचनं श्रुत्वा सप्तार्चिर्दुःखितोऽभवत्। `सत्यं वदामि यदि मे शापः स्याद्ब्रह्मवित्तमात्।।

adi-1-5-32__932 असत्यं चेदहं ब्रूयां पतिष्ये नरकान्ध्रुवम्।’ भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः।।

त्वया वृता पुलोमेयं पूर्वं दानवनन्दन। किं त्वियं विधिना पूर्वं मन्त्रवन्न वृता त्वया।।

पित्रा तु भृगवे दत्ता पुलोमेयं यशस्विनी। ददाति न पिता तुभ्यं वरलोभान्महायशाः।।

अथेमां वेददृष्टेन कर्मणा विधिपूर्वकम्। भार्यामृषिर्भृगुः प्राप मां पुरस्कृत्य दानव।।

सेयमित्यवगच्छामि नानृतं वक्तुमुत्सहे। नानृतं हि सदा लोके पूज्यते दानवोत्तम।। ।।

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि पञ्चमोऽध्यायः।। 5 ।।

1-5-3 कल्याः समर्थाः। तव त्वत्तः श्रोतुमिति संबन्धः।। 1-5-7 यथायुक्तं कथायुक्तं इत्यपि पाठः। पुराणस्य आश्रयः उपोद्धातःतत्संयुतं।। 1-5-19 बाल्ये किल रुदतीं कन्यां रोदनानिवृत्त्यर्थं भीषयितुं पित्रोक्तं रे रक्ष एनां गृहाणेति। तावतैव गृहे सन्निहितेन रक्षसा वृता ममेयं भार्येति।। 1-5-27 शङ्कमानं छलवचनेन पूर्वं मह्यं दत्ता पश्चाद्विधिपूर्वकं भृगवे दत्ताऽतो मम वा भृगोर्वा भार्येति सन्दिहानम्।। 1-5-28 कवे सर्वज्ञ।। पञ्चमोऽध्यायः।। 5 ।।

अध्यायः 006

च्यवनोत्पत्ती रक्षोविनाशश्च।। 1 ।। अग्नेर्भृगुशापः।। 2 ।।

adi-1-6-0__937 सौतिरुवाच।

अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम्। ब्रह्मन्वराहरूपेण मनोमारुतरंहसा।।

ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह। रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत्।।

तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम्। तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम्।।

सा तमादाय सुश्रोणी ससार भृगुनन्दनम्। च्यवनं भार्गवं पुत्रं पुलोमा दुःखमूर्च्छिता।।

तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः। रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम्।।

सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः। अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी।।

आवर्तन्ती सृतिं तस्या भृगोः पत्न्यास्तपस्विनः। तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा।।

नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः। वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति।।

adi-1-6-9__946 स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान्। तं ददर्श पिता तत्र च्यवनं तां च भामिनीम्। स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः।। भृगुरुवाच।

केनासि रक्षसे तस्मै कथिता त्वं जिहीर्षवे। न हि त्वा वेद तद्रक्षो मद्भार्यां चारुहासिनीम्।।

तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा। बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः।। पुलोमोवाच।

अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता। ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव।।

साऽहं तव सुतस्यास्य तेजसा परिमोक्षिता। भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै।। सौतिरुवाच।

इति श्रुत्वा पुलोमाया भृगुः परममन्युमान्। शशापाग्निमतिक्रुद्धः सर्वभक्षो भविष्यसि।। ।।

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि षष्ठोऽध्यायः।। 6 ।।

1-6-2 तेन च्युतत्वेन हेतुना।। 2 ।। 1-6-7 आवर्तन्ती सृतिं तस्याः। सृतिं मार्गं। अनुवर्त्म सृता तस्या इति पाठान्तरं।। 7 ।। षष्ठोऽध्यायः।। 6 ।।

अध्यायः 007

क्रोधेनाग्निकृत आत्मोपसंहारः।। 1 ।। ब्रह्मोक्तसान्त्ववचनेनाग्नेः संतोषः।। 2 ।।

adi-1-7-0__952 सौतिरुवाच।

शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत्। किमिदं साहसं ब्रह्मन्कृतवानसि मां प्रति।।

धर्मे प्रयतमानस्य सत्यं च वदतः समम्। पृष्टो यदब्रवं सत्यं व्यभिचारोऽत्र को मम।।

पृष्टो हिसाक्षीयः साक्ष्यं जानानोऽप्यन्यथा वदेत्। स पूर्वानात्मनः सप्त कुले हन्यात्तथाऽपरान्।।

यश्च कार्यार्थतत्त्वज्ञो जानानोऽपि न भाषते। सोऽपि तेनैव पापेन लिप्यते नात्र संशयः।।

शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम। जानतोऽपि च ते ब्रह्मन्कथयिष्ये निबोध तत्।।

योगेन बहुधाऽऽत्मानं कृत्वा तिष्ठामि मूर्तिषु। अग्निहोत्रेषु सत्रेषु क्रियासु च मखेषु च।।

वेदोक्तेन विधानेन मयि यद्धूयते हविः। देवताः पितरश्चैव तेन तृप्ता भवन्ति वै।।

आपो देवगणाः सर्वे आपः पितृगणास्तथा। दर्शश्च पौर्णमासश्च देवानां पितृभिः सह।।

देवताः पितरस्तस्मात्पितरश्चापि देवताः। एकीभूताश्च दृश्यन्ते पृथक्त्वेन च पर्वसु।।

देवताः पितरश्चैव भुञ्जते मयि यद्भुतम्। देवतानां पितॄणां च मुखमेतदहं स्मृतम्।।

अमावास्यां हि पितरः पौर्णमास्यां हि देवताः। मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः।।

adi-1-7-12__964 सर्वभक्षः कथं त्वेषां भविष्यामि मुखं त्वहम्। सौतिरुवाच। चिन्तयित्वा ततो वह्निश्चके संहारमात्मनः।।

द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च। निरोंकारवषट्काराः स्वधास्वाहाविवर्जिताः।।

विनाऽग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः। अथर्षयः समुद्विग्ना देवान् गत्वाब्रुवन्वचः।।

अग्निनाशात्क्रियाभ्रांशाद्भ्रान्ता लोकास्त्रयोऽनघाः। विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा।।

अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु। अग्नेरावेदयञ्शापं क्रियासंहारमेव च।।

भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे। कथं देवमुखो भूत्वा यज्ञभागाग्रभुक् तथा।।

adi-1-7-18__970 हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति। सौतिरुवाच। श्रुत्वा तु तद्वचस्तेषामग्निमाहूय विश्वकृत्।।

उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम्। लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च।।

त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः। स तथा कुरु लोकेश नोच्छिद्येरन्यथा क्रियाः।।

कस्मादेवं विमूढस्त्वमीश्वरः सन् हुताशेन। त्वं पवित्रं सदा लोके सर्वभूतगतिश्च ह।।

न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि। अपाने ह्यर्चिषो यास्ते सर्वं भक्ष्यन्ति ताः शिखिन्।।

क्रव्यादा च तनुर्या ते सा सर्वं भक्षयिष्यति। यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते।।

तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति। त्वमग्ने परमं तेजः स्वप्रभावाद्विनिर्गतम्।।

स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो। देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम्।। सौतिरुवाच।

एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम्। जगाम शासनं कर्तुं देवस्य परमेष्ठिनः।।

देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम्। ऋषयश्च यथा पूर्वं क्रियाः सर्वाः प्रचक्रिरे।।

दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः। अग्निश्च परमां प्रीतिमवाप हतकल्मषः।।

adi-1-7-29__981 एवं स भगवाञ्छापं लेभेऽग्निर्भृगुतः पुरा। एवमेष पुरा वृत्त हतिहासोऽग्निशापजः। पुलोम्नश्च विनाशोऽयं च्यवनस्य च संभवः।। ।।

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि सप्तमोऽध्यायः।। 7 ।।

1-7-2 समं पक्षपातहीनां। व्यभिचारः अपराधः।। 2 ।। 1-7-8 आपः सोमाज्य प्रभृतयोग्नौ हूयमाना देवपितृरूपाः। अग्नौ हुता आप एव देवताशरीररूपेण परिणमन्त इत्यर्थः।। 1-7-9 देवादिभावस्यापि कर्मप्राप्यत्वाद्देवानां पितॄणां च मिथो भेदो नास्त्येव तुल्यहेतुकत्वादित्याह देवता इति।। 1-7-11 अमावास्यां अमावास्यायां। हूयन्ते इज्यन्ते।। 1-7-12 संहारं तिरोभावं।। 1-7-22 भक्ष्यन्ति भक्षयिष्यन्ति।। 1-7-23 क्रव्यादा मांसभक्षिणी।। 1-7-24 स्वप्रभावात् अग्निप्रेरणया। तस्य वागधिष्ठातृत्वात्तत्प्रेरणयैव विनिर्गतं शापं।। 24 ।। सप्तमोऽध्यायः।। 7 ।।

अध्यायः 008

रुरुचरितं।। 1 ।। मेन्कात्मजायाः प्रमद्वरायाः रुरुणा सह विवाहप्रसङ्गः।। 2 ।। प्रमद्वरायाः सर्पदंशेन रुरोर्दुःखम्।। 3 ।।

adi-1-8-0__982 सौतिरुवाच।

स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम्। सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम्।।

प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत्। रुरुः प्रमद्वरायां तु शुनकं समजीजनम्।।

शुनकस्तु महासत्वः सर्वभार्गवनन्दनः। जातस्तपसि तीव्रे च स्थितः स्थिरयशास्ततः।।

तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः। विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः।।

ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः। स्थूलकेश इति ख्यातः सर्वभूतहिते रतः।।

एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान्। गन्धर्वराजो विप्रर्षे विश्वावसुरिति स्मृतः।।

अप्सरा मेनका तस्य तं गर्भं भृगुनन्दन। उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति।।

उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम सा। अप्सरा मेनका ब्रह्मन्निर्दया निरपत्रपा।।

कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया। तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः।।

स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम्। स तां दृष्ट्वा तदा कन्यां स्थूलकेशो महाद्विजः।।

जग्राह च मुनिश्रेष्ठः कृपाविष्टः पुपोष च। ववृधे सा वरारोहा तस्याश्रमपदे शुभे।।

जातकाद्याः क्रियाश्चास्या विधिपूर्वं यथाक्रमम्। स्थूलकेशो महाभागश्चकार सुमहानृषिः।।

प्रमदाभ्यो वरा सा तु सत्त्वरूपगुणान्विता। ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः।।

तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम्। बभूव किल धर्मात्मा मदनोपहतस्तदा।।

पितरं सखिभिः सोऽथ श्रावयामास भार्गवम्। प्रमतिश्चाभ्ययाचत्तां स्थूलकेशं यशस्विनम्।।

ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम्। विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते।।

ततः कतिपयाहस्य विवाहे समुपस्थिते। सखीभिः क्रीडती सार्धं सा कन्यावरवर्णिनी।।

नापश्यत्संप्रसुप्तं वै भुजंगं तिर्यगायतम्। पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता।।

स तस्याः संप्रमत्तायाश्चोदितः कालधर्मणा। विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत्।।

सा दष्टा तेन सर्पेण पपात सहसा भुवि। विवर्णा विगतश्रीका भ्रष्टाभरणचेतना।।

निरानन्दकरी तेषां बन्धूनां मुक्तमूर्धजा। व्यसुरप्रेक्षणीया सा प्रेक्षणीयतमाऽभवत्।।

प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता। भूयो मनोहरतरा बभूव तनुमध्यमा।।

ददर्श तां पिता चैव ये चैवान्ये तपस्विनः। विचेष्टमानां पतितां भूतले पद्मवर्चसम्।।

ततः सर्वे द्विजतराः समाजग्मुः कृपान्विताः। स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः।।

उद्दालकः कठश्चैव श्वेतश्चैव महायशाः। भरद्वाजः कौणकृत्स्य आर्ष्टिषेणोऽथ गौतमः।।

प्रमतिः सह पुत्रेण तथान्ये वनवासिनः। तां ते कन्यां व्यसुं दृष्ट्वा भुजंगस्य विषार्दिताम्।।

रुरुदुः कृपयाऽविष्टा रुरुस्त्वार्तो बहिर्ययौ। ते च सर्वे द्विजश्रेष्ठास्तत्रैवोपाविशंस्तदा।। ।।

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि अष्टमोऽध्यायः।। 8 ।।

1-8-3 शुनकस्तु शौनकस्त्वमिति पाठान्तरम्।। 1-8-6 प्रजज्ञिवान् उत्पादितवान्।। 1-8-17 कतिपयाहस्य कतिपयाहस्सु इति पाठान्तरं। कतिपयाहस्सु हतेष्वित्यर्थः।। 1-8-19 कालधर्मणा मृत्युना।। अष्टमोऽध्यायः।। 8 ।।

अध्यायः 009

देवदूतवचनेन रुरुकृतस्वार्धायुः प्रदानेन प्रमद्वराजीवनं तया सह रुरोर्विवाहश्च।। 1 ।।

adi-1-9-0__1010 सौतिरुवाच।

तेषु तत्रोपविष्टेषु ब्राह्मणेषु महात्मसु। रुरुश्चुक्रोश गहनं वनं गत्वाऽतिदुःखितः।।

शोकेनाभिहतः सोऽथ विलपन्करुणं बहु। अब्रवीद्वचनं शोचन्प्रियां स्मृत्वा प्रमद्वराम्।।

शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी। `प्राणानपहरन्तीव पूर्णचन्द्रनिभानना।।

यदि पीनायतश्रोणी पद्मपत्रनिभेक्षणा। मुमूर्षुरपि मे प्राणानादायाशु गमिष्यति।।

adi-1-9-5__1015 पितृमातृसखीनां च लुप्तपिण्डस्य तस्य मे।’ बान्धवानां च सर्वेषां किं नु दुःखमतःपरम्।।

यदि दत्तं तपस्तप्तं गुरवो वा मया यदि। सम्यगाराधितास्तेन संजीवतु मम प्रिया।।

यथा च जन्मप्रभृति यतात्माऽहं धृतव्रतः। प्रमद्वरा तथाद्यैषा समुत्तिष्ठतु भामिनी।।

adi-1-9-8__1018 [एवं लालप्यतस्तस्य भार्यार्थे दुःखितस्य च। देवदूतस्तदाऽभ्येत्य वाक्यमाह रुरुं वने।।]

`कृष्णे विष्णौ हृषीकेशे लोकेशेऽसुरविद्विषि। यदि मे निश्चला भक्तिर्मम जीवतु सा प्रिया।।

विलप्यमाने तु रुरौ सर्वे देवाः कृपान्विताः। दूतं प्रस्थापयामासुः संदिश्यास्य हितं वचः।।

स दूतस्त्वरितोऽभ्येत्य देवानां प्रियकृच्छुचिः। उवाच देववचनं रुरुमाभाष्य दुःखितम्।।

adi-1-9-12__1022 देवैः सर्वैरहं ब्रह्मन्प्रेषितोऽस्मि तवान्तिकम्। त्वद्धितं त्वद्धितैरुक्तं शृणु वाक्यं द्विजोत्तम।।’

अभिधत्से ह यद्वाचा रुरो दुःखान्न तन्मृषा। न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः।।

गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता। तस्माच्छोके मनस्तात मा कृथास्त्वं कथंचन।।

उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः। तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीह प्रमद्वराम्।। रुरुरुवाच।

क उपायः कृतो देवैर्बूहि तत्त्वेन खेचर। करिष्येऽहं तथा श्रुत्वा त्रातुमर्हति मां भवान्।। देवेदूत उवाच।

आयुषोऽर्धं प्रयच्छ त्वं कन्यायै भृगुनन्दन। एवमुत्थास्यति रुरो तव भार्या प्रयद्वरा।। रुरुरुवाच।

आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम। शृङ्गाररूपाभरणा समुत्तिष्ठतु मे प्रिया।। सौतिरुवाच।

ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ। धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम्।।

धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा। समुत्तिष्ठतु कल्याणी मृतैवं यदि मन्यसे।। धर्मराज उवाच।

प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि। उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता।। सौतिरुवाच।

एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा। रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी।।

एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः। आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धमलुप्यत।।

तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा। विवाहं तौ च रेमाते परस्परहितैषिणौ।।

स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसुप्रभाम्। व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः।।

स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः। अभिहन्ति यथासत्त्वं गृह्य प्रहरणं सदा।।

स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत्। शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम्।।

तत उद्यम्य दम्डं स कालदण्डोपमं तदा। जिघांसुः कुपितो विप्रस्तमुवाचाथ डुण्डुभः।।

नापराध्यामि ते किंचिदहमद्य तपोधन। संरम्भाच्च किमर्थं मामभिहंसि रुषान्वितः।। ।।

इति श्रीमन्महाभारते आदिपर्वाणि पौलोमपर्वणि नवमोऽध्यायः।। 9 ।।

1-9-13 गतायुषः आयुर्नास्ति पुनर्न भवतीत्यर्थः।। 1-9-23 भविष्ये जातके।। 1-9-25 जिह्मगानां सर्पाणां।। 1-9-27 डुण्डुभं जलसर्पं।। नवमोऽध्यायः।। 9 ।।

अध्यायः 010

रुरुडुण्डुभसंवादः।। 1 ।।

adi-1-10-0__1040 रुरुरुवाच।

मम प्राणसमा भार्या दष्टासीद्भुजगेन ह। तत्र मे समयो घोर आत्मनोरग वै कृतः।।

भुजंगं वै सदा हन्यां यं यं पश्येयमित्युत। ततोऽहं त्वां जिघांसामि जीवितेनाद्य मोक्ष्यसे।। डुण्डुभ उवाच।

अन्ये ते भुजगा ब्रह्मन्ये दश्तीह मानवान्। डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि।।

एकानर्थान्पृथग्धर्मानेकदुःखान्पृथक्सुखान्। डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि।। सौतिरुवाच।

इति श्रुत्वा वचस्तस्य डुण्डुभस्य रुरुस्तदा। नावधीद्भयसंविग्नमृषिं मत्त्वाऽथ डुण्डुभम्।।

उवाच चैनं भगवान्रुरुः संशमयन्निव। केन त्वं भुजग ब्रूहि कोऽसीमां विक्रियां गतः।। डुण्डुभ उवाच।

अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात्। सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः।। रुरुरुवाच।

किमर्थं शप्तवान्कुद्धो द्विजस्त्वां भुजगोत्तम। कियन्तं चैव कालं ते वपुरेतद्भविष्यसि।। ।।

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि दशमोऽध्यायः।। 10 ।।

1-10-3 अहिगन्धेन सर्पसादृश्यमात्रेण।। 1-10-4 एकानर्थान् एकः समानः अनर्थः जनकर्तृकहिंसादिरूपो येषां तान्। पृथक् सर्पजात्युचितप्राणहरणादिविलक्षणो धर्मो लक्षणं येषां ते। एकं तुल्यं बिलेशयत्वादिरूपं दुःखं येषां तान्। पृथक् हविर्भागादिभ्यो भिन्नं भेकभक्षणादि सुखं येषां तान्। धर्मवित् कृतापराधस्यैव दण्डो नत्वन्यस्येति धर्मस्तज्ज्ञः।। दशमोऽध्यायः।। 10 ।।

अध्यायः 011

डुण्डुभचरितम्।। 1 ।।

adi-1-11-0__1049 डुण्डुभ उवाच।

सखा बभूव मे पूर्वं खगमो नाम वै द्विजः। भृशं संशितवाक्तात तपोबलसमन्वितः।।

स मया क्रीडता बाल्ये कृत्वा तार्णं भुजंगमम्। अग्निहोत्रे प्रसक्तस्तु भीषितः प्रमुमोह वै।।

लब्ध्वा स च पुनः संज्ञां मामुवाच तपोधनः। नर्दहन्निव कोपेन सत्यवाक्संशितव्रतः।।

यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया। तथावीर्यो भुजंगस्त्वं मम शापाद्भविष्यसि।।

तस्याहं तपसो वीर्यं जानन्नासं तपोधन। भृशमुद्विग्नहृदयस्तमवोचमहं तदा।।

प्रणतः संभ्रमाच्चैव प्राञ्जलिः पुरतः स्थितः। सखेति हसतेदं ते नर्मार्थं वै कृतं मया।।

क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम्। सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम्।।

मुहुरुष्णं विनिःश्वस्य सुसंभ्रान्तस्तपोधनः। नानृतं वै मया प्रोक्तं भवितेदं कथंचन।।

यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे तपोधन। श्रुत्वा च हृदि ते वाक्यमिदमस्तु सदाऽनघ।।

adi-1-11-10__1059 उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः। तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव। `एवमुक्तस्तु तेनाहमुरगत्वमवाप्तवान्।।’

स त्वं रुरुरिति ख्यातः प्रमतेरात्मजोऽपि च। स्वरूपं प्रतिपद्याहमद्य वक्ष्यामि ते हितम्।। सौतिरुवाच।

स डौण्डुभं परित्यज्य रूपं विप्रर्षभस्तदा। स्वरूपं भास्वरं भूयः प्रतिपेदे महायशाः।।

इदं चोवाच वचनं रुरुमप्रतिमौजसम्। अहिंसा परमो धर्मः सर्वप्राणभृतां वर।।

तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित्। ब्राह्मणः सौम्य एवेह भवतीति परा श्रुतिः।।

वेदवेदाङ्गविन्नाम सर्वभूताभयप्रदः। अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम्।।

ब्राह्मणस्य परो धर्मो वेदानां धारणापि च। क्षत्रियस्य हि यो धर्मः स नेहेष्येत वै तव।।

दण्डधारणमुग्रत्वं प्रजानां परिपालनम्। तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो।।

जनमेजयस्य यज्ञेऽस्मिन्सर्पाणां हिंसनं पुरा। परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि।।

तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात्। आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम।। ।।

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि एकादशोऽध्यायः।। 11 ।।

1-11-1 संशितवाक् तीक्ष्णवचनः।। 1-11-2 तार्णं तृणमयम्।। 1-11-14 सौम्यः अतीक्ष्णस्वभावः।। 1-11-18 परित्राणं दृष्टमिति शेषः।। एकादशोऽध्यायः।। 11 ।।

अध्यायः 012

जनमेजयसर्पसन्नप्रस्तावः।। 1 ।।

adi-1-12-0__1069 रुरुरुवाच।

कथं हिंसितवान्सर्पान्स राजा जनमेजयः। सर्पा वा हिंसितास्तत्र किमर्थं द्विजसत्तम।।

किमर्थं मोक्षिताश्चैव पन्नगास्तेन धीमता। आस्तीकेन द्विजश्रेष्ठ श्रोतुमिच्छाम्यशेषतः।। ऋषिरुवाच।

श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत्। ब्राह्मणानां कथयतां त्वरावान्गमने ह्यहम्।। सौतिरुवाच।

adi-1-12-4__1073 `इत्युक्त्वान्तर्हिते योगात्तस्मिन्नृषिवरे प्रभौ। संभ्रमाविष्टहृदयो रुरुर्मेने तदद्भुतम्।।’

बलं परममास्थाय पर्यधावत्समन्ततः। तमृषिं नष्टमन्विच्छन्संश्रान्तो न्यपतद्भुवि।।

स मोहे परमं गत्वा नष्टसंज्ञ इवाभवत्। तदृषेर्वचनं तथ्यं चिन्तयानः पुनःपुनः।।

लब्धसंज्ञो रुरुश्चायात्तदाचख्यौ पितुस्तदा। `पित्रे तु सर्वमाख्याय डुण्डुभस्य वचोऽर्थवत्।।

अपृच्छत्पितरं भूयः सोस्तीकस्य वचस्तदा। आख्यापयत्तदाऽऽख्यानं डुण्डुभेनाथ कीर्तितम्।।

adi-1-12-9__1078 तत्कीर्त्यमानं भगवञ्श्रोतुमिच्छामि तत्त्वतः।’ पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत्।। ।।

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि द्वादशोऽध्यायः।। 12 ।।

।। समाप्तं पौलोमपर्व ।।

1-12-5 नष्टं अन्तर्हितं।। द्वादशोऽध्यायः।। 12 ।।

अध्यायः 013

(अथास्तीकपर्व।। 5 ।।)

आस्तीकजरत्कार्वोराख्यानं।। 1 ।। जरत्कारोस्तत्पितॄणां च संवादः।। 2 ।।

adi-1-13-0__1079 शौनक उवाच।

किमर्थं राजशार्दूलः स राजा जनमेजयः। सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे।।

निखिलेन यथातत्त्वं सौते सर्वमशेषतः। आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः।।

मोक्षयामास भुजगान्प्रदीप्ताद्वसुरेतसः। कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत्।।

adi-1-13-4__1083 स च द्विजातिप्रवरः कस्य पुत्रोऽभिधत्स्व मे। सौतिरुवाच। महदाक्यानमास्तीकं यथैतत्प्रोच्यते द्विज।।

adi-1-13-5__1084 सर्वमेतदशेषेण शृणु मे वदतां वर। शौनक उवाच। श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम्।।

adi-1-13-6__1085 आस्तीकस्य पुराणर्षेर्ब्राह्मणस्य यशस्विनः। सौतिरुवाच। इतिहासमिमं विप्राः पुराणं परिचक्षते।।

कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिषु। पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः।।

शिष्यो व्यासस्य मेधावी ब्राह्मणेष्विदमुक्तवान्। तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम्।।

इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते। कथयिष्याम्यशेषेण सर्वपापप्रणाशनम्।।

आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः। ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा।।

जरत्कारुरिति ख्यात ऊर्ध्वरेता महातपाः। यायावराणां प्रवरो धर्मज्ञः संशितव्रतः।।

स कदाचिन्महाभागस्तपोबलसमन्वितः। चचार पृथिवीं सर्वां यत्रसायंगृहो मुनिः।।

तीर्थेषु च समाप्लावं कुर्वन्नटति सर्वशः। चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः।।

वायुभक्षो निराहारः शुष्यन्ननिमिषो मुनिः। इतस्ततः परिचरन्दीप्तपावकसप्रभः।।

अटमानः कदाचित्स्वान्स ददर्श पितामहान्। लम्बमानान्महागर्ते पादैरूर्ध्वैरवाङ्मुखान्।।

तानब्रवीत्स दृष्ट्वै जरत्कारुः पितामहान्। के भवन्तोऽवलम्बन्ते गर्ते ह्यस्मिन्नधोमुखाः।।

वीरणस्तम्भके लग्नाः सर्वतः परिभक्षिते। मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना।। adi-1-13-18x__63पितर ऊचुः।

यायावरा नाम वयमृषयः संशितव्रताः। संतानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम्।।

अस्माकं संततिस्त्वेको जरत्कारुरिति स्मृतः। मन्दभाग्योऽल्पभाग्यानां तप एकं समास्थितः।।

न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति। तेन लम्बामहे गर्ते संतानस्य क्षयादिह।।

अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा। `येषां तु संततिर्नास्ति मर्त्यलोके सुखावहा।।

adi-1-13-22__1101 न ते लभन्ते वसतिं स्वर्गे पुण्यकृतोऽपि हि।’ कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम।।

ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह नः स्थितः। किमर्थं चैव नः शोच्याननुशोचसि सत्तम।। जरत्कारुरुवाच।

मम पूर्वे भवन्तो वै पितरः सपितामहाः। ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम्।। adi-1-13-25x__65पितर ऊचुः।

यतस्व यत्नवांस्तात संतानाय कुलस्य नः। आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव वा विभो।।

न हि धर्मफलैस्तात न तपोऽभिः सुसंचितैः। तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति वै।।

तद्दारग्रहणे यत्नं संतत्यां च मनः कुरु। पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम्।। जरत्कारुरुवाच।

न दारान्वै करिष्येऽहं न धनं जीवितार्थतः। भवतां तु हितार्थाय करिष्ये दारसंग्रहम्।।

समयेन च कर्ताऽहमनेन विधिपूर्वकम्। तथा यद्युपलप्स्यामि करिष्ये नान्यथा ह्यहम्।।

सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः। भैक्ष्यवत्तामहं कन्यामुपयंस्ये विधानतः।।

दरिद्राय हि मे भार्यां को दास्यति विशेषतः। प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति।।

एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः। अनेन विधिना शश्वन्न करिष्येऽहमन्यथा।।

तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै। शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रयोदशोऽध्यायः।। 13 ।।

1-13-11 यायावराणां ग्रामैकरात्रवासिनां गृहस्थानां।। 1-13-12 सायंकालस्तत्रैव गृहमस्येति यत्रसायंगृहः।। 1-13-30 उपयंस्येपरिणेष्ये।। 30 ।। त्रयोदशोऽध्यायः।। 13 ।।

अध्यायः 014

वासुकिभगिन्या जरत्कारोर्विवाहः।। 1 ।।

adi-1-14-0__1113 सौतिरुवाच।

ततो निवेशाय तदा स विप्रः संशितव्रतः। महीं चचार दारार्थी न च दारानविन्दत।।

स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन्। चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव।।

तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा। न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन्।।

सनाम्नीं चोद्यतां भार्यां गृह्णीयामिति तस्य हि। मनो निविष्टमभवज्जरत्कारोर्महात्मनः।।

तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः। किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम।। वासुकिरुवाच।

adi-1-14-6__1119 जरत्कारो जरत्कारुः स्वसेयमनुजा मम। प्रतिगृह्णीष्व भार्यार्थे मया दत्तां सुमध्यमाम्। त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम।। सौतिरुवाच।

एवमुक्त्वा ततः प्रादाद्भार्यार्थे वरवर्णिनीम्। स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुर्दशोऽध्यायः।। 14 ।।

1-14-1 निवेशाय दारसंग्रहाय।। चतुर्दशोऽध्यायः।। 14 ।।

अध्यायः 015

आस्तीकोत्पत्तिः।। 1 ।। संक्षेपेण सर्पमोचनवृत्तान्तश्च।। 2 ।।

adi-1-15-0__1121 सौतिरुवाच।

मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर। जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः।।

तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः। स्वसारमृषये तस्मै सुव्रताय महात्मने।।

स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा। आस्तीको नाम पुत्रश्च तस्यां जज्ञे महामनाः।।

तपस्वी च महात्मा च वेदवेदाङ्गपारगः। समः सर्वस्य लोकस्य पितृमातृभयापहः।।

अथ दीर्घस्य कालस्य पाण्डवेयो नराधिपः। आजहार महायज्ञं सर्पसत्रमिति श्रुतिः।।

तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै। मोचयामास ताञ्शापादास्तीकः सुमहातपाः।।

भ्रातॄंश्च मातुलांश्चैव तथैवान्यान्स पन्नगान्। पितॄंश्च तारयामास संतत्या तपसा तथा।।

व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत्। देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः।।

ऋषींश्च ब्रह्मचर्येम सन्तत्या च पितामहान्। अपहृत्य गुरं भारं पितॄणां संशितव्रतः।।

जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः। आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः।।

adi-1-15-11__1132 जरत्कारुः सुमहता कालेन स्वर्गमेयिवान्। एतदाख्यानमास्तीकं यथावत्कथितं मया। प्रब्रूहि भृगुशार्दूल किमन्यत्कथयामि ते।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चदशोऽध्यायः।। 15 ।।

अध्यायः 016

आस्तीकाख्यानविस्तरः।। 1 ।। कद्रूविनतयोः कश्यपाद्वरलाभः।। 2 ।। कद्र्वाः सर्पोत्पत्तिर्विनताया अरुणोत्पत्तिश्च।। 3 ।।

adi-1-16-0__1133 शौनक उवाच।

सौते त्वं कथयस्वेमां विस्तरेण कथां पुनः। आस्तीकस्य कवेःसाधोः शुश्रूषा परमा हिनः।।

मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया। प्रीयामहे भृशं तात पितेवेदं प्रभाषसे।।

अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव। आचष्टैतद्यथाऽऽक्यानं पिता तेत्वं तथा वद।। सौतिरुवाच।

आयुष्मन्निदमाख्यानमास्तीकं कथयामि ते। यथाश्रुतं कथयतः सकाशाद्वै पितुर्मया।।

पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे। आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघ।।

ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह। प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः।।

कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः। वरातिसर्गं श्रुत्वैवं कश्यपादुत्तमं च ते।।

हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ। वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यवर्चसः।।

द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले। तेजसा वपुषा चैव विक्रमेणाधिकौ च तौ।।

तस्यै भर्ता वरं प्रादादीदृसौ ते भविष्यतः। एवमस्त्विति तं चाह कश्यपं विनता तदा।।

यथावत्प्रार्थितं लब्ध्वा वरं तुष्टाभवत्तदा। कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ।।

कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यवर्चसाम्। धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः।।

adi-1-16-13__1146 ते भार्ये वरसंतुष्टे कश्यपो वनमाविशत्। सौतुरिवाच। कालेन महता कद्रूरण्डानां दशतीर्दश।।

जनयामास विप्रेन्द्र द्वे चाण्डे विनता तदा। तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः।।

सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च। ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः।।

अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत। ततः पुत्रार्थिनी देवी व्रीडिता च तपस्विनी।।

अण्डं बिभेद विनता तत्र पुत्रमपश्यत। पूर्वार्धकायसंपन्नमितरेणाप्रकाशता।।

स पुत्रः क्रोधसंरब्धः शशापैनामिति श्रुतिः। योऽहमेवं कृतो मातस्त्वया लोभपरीतया।।

शरीरेणासमग्रेण तस्माद्दासी भविष्यसि। पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह।।

एष च त्वां सुतो मातर्दासीत्वान्मोचयिष्यति। यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात्।।

न करिष्यस्यनङ्गं वा व्यङ्गं वापि तपस्विनम्। प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया।।

विशिष्टं बलमीप्सन्त्या पञ्चवर्षशतात्परः। एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः।।

अरुणोऽदृश्यत ब्रह्मन्प्रभातसमये तदा। `उद्यन्नथ सहस्रांशुर्दृष्ट्वा तमरुणं प्रभुः।।

स्वतेजसा प्रज्वलन्तमात्मनः समतेजसम्। सारथ्ये कल्पयामास प्रीयमाणस्तमोनुदः।।

adi-1-16-25__1158 सोऽपि तं रथमारुह्य भानोरमिततेजसः। सर्वलोकप्रदीपस्य ह्यमरोऽप्यरुणोऽभवत्।।’

गरुडोऽपि यथाकालं जज्ञे पन्नगभोजनः। स जातमात्रो विनतां परित्यज्य खमाविशत्।।

आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत्। विधात्रा भृगुशार्दूल क्षुधितः पतगेश्वरः।। ।।

इति श्रीमन्महाभारते आदिपर्वाणि आस्तीकपर्वणि षोडशोऽध्यायः।। 16 ।।

1-16-15 सोपस्वेदेषु ऊष्मवत्सु।। षोडशोऽध्यायः।। 16 ।।

अध्यायः 017

अमृतमथनविषये भगवदाज्ञया देवानां विचारः।। 1 ।।

adi-1-17-0__1161 सौतिरुवाच।

एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन। अपश्यतां समायान्तमुच्चैः श्रवसमन्तिकात्।।

यं तु देवगणाः सर्वे हृष्टरूपमपूजयन्। मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम्।।

अमोघबलमश्वानामुत्तमं जविनां वरम्। श्रीमन्तमजरं दिव्यं सर्वलक्षणपूजितम्।। शौनक उवाच।

adi-1-17-4__1165 कथं तदमृतं देवैर्मथितं क्व च शंस मे। `कारणं चात्र मथने संजातममृतात्परम्।।’ यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः।। सौतिरुवाच।

ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम्। आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः।।

कनकाभरणं चित्रं देवगन्धर्वसेवितम्। अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः।।

व्यालैरावारितं घोरैर्दिव्यौषधिविदीपितम्। नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम्।।

अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम्। नानापतगसङ्घैश्च नादितं सुमनोहरैः।।

तस्य शृङ्गमुपारुह्य बहुरत्नाचितं शुभम्। अनन्तकल्पमद्वन्द्वं सुराः सर्वे महौजसः।।

ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः। अमृताय समागम्य तपोनियमसंयुताः।।

तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत्। चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः।।

देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः। भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ।।

सर्वौषधीः समावाप्य सर्वरत्नानि चैव ह। मन्थध्वयुदधिं देवा वेत्स्यध्वममृतं ततः।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सप्तदशोऽध्यायः।। 17 ।।

1-17-9 अनन्तकल्पं अनन्तो विष्णुराकाशो वात तत ईषन्न्यूनम्।। 1-17-13 वेत्स्यध्वं लप्स्यध्वम्।। सप्तदशोऽध्यायः।। 17 ।।

अध्यायः 018

मोहितैर्दैत्यैर्मोहिन्या अमृतकलशदानम्।। 1 ।।

adi-1-18-0__1175 सौतिरुवाच।

ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलंकृतम्। मन्दरं पर्वतवरं लताजालसमाकुलम्।।

नानाविहंगसंघुष्टं नानादंष्ट्रिसमाकुलम्। किंनरैरप्सरोभिश्च देवैरपि च सेवितम्।।

एकादश सहस्राणि योजनानां समुच्छ्रितम्। अधोभूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम्।।

तमुद्धर्तुमशक्ता वै सर्वे देवगणास्तदा। विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन्।।

भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम्। मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः।। सौतिरुवाच।

तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव। अचोदयदमेयात्मा फणीन्द्रं पद्मलोचनः।।

ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः। नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान्।।

अथ पर्वतराजानं तमनन्तो महाबलः। उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम्।।

ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे। तमूचुरमृतस्यार्थे निर्मथिष्यामहे जलम्।।

अपांपतिरथोवाच ममाप्यंशो भवेत्ततः। सोढाऽस्मि विपुलं मर्दं मन्दरभ्रमणादिति।।

ऊचुश्च कूर्मराजानमकूपारे सुरासुराः। अधिष्ठानं गिरेरस्य भवान्भवितुमर्हति।।

कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम्। तं शैलं तस्य पृष्ठस्थं वज्रेणेन्द्रोऽभ्यपीडयत्।।

adi-1-18-13__1188 मन्थानं मन्दरं कृत्वा तथा योक्त्रं च वासुकिम्। देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम्। अमृतार्थे पुरा ब्रह्मस्तथैवासुरदानवाः।।

adi-1-18-14__1189 एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः।।

विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः। अनन्तो भगवान्देवो यतो नारायणः स्थितः।।

adi-1-18-16__1191 `वासुकेरग्रमाश्लिष्टा नागराज्ञो महासुराः।’ शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपन्।।

वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः। सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्।।

`वासुकेर्मथ्यमानस्य निःसृतेन विषेण च। अभवन्मिश्रितं तोयं तदा भार्गवनन्दन।।

मथनान्मन्दरेणाथ देवदानवबाहुभिः। विषं तीक्ष्णं समुद्भूतं हालाहलमिति श्रुतम्।।

देवाश्च दानवाश्चैव दग्धाश्चैव विषेण ह। अपाक्रामंस्ततो भीता विषादमगमंस्तदा।।

ब्रह्माणमब्रुवन्देवाः समेत्य मुनिपुंगवैः। मथ्यमानेऽमृते जातं विषं कालानलप्रभम्।।

तेनैव तापिता लोकास्तस्य प्रतिकुरुष्वह। एवमुक्तस्तदा ब्रह्मा दध्यौ लोकेश्वरं हरम्।।

त्र्यक्षं त्रिशूलिनं रुद्रे देवदेवमुमापतिम्। तदाऽथ चिन्तितो देवस्तज्ज्ञात्वा द्रुतमाययौ।।

तस्याथ देवस्तत्सर्वमाचचक्षे प्रजापतिः। तच्छ्रुत्वा दवेदेवेशो लोकस्यास्य हितेप्सया।।

अपिबत्तद्विषं रुद्रः कालानलसमप्रभम्। कण्ठे स्थापितवान्देवो लोकानां हितकाम्यया।।

यस्मात्तु नीलता कण्ठे नीलकण्ठस्ततः स्मृतः। पीतमात्रे विषे तत्र रुद्रेणामिततेजसा।।

देवाः प्रीताः पुनर्जग्मुश्चक्रुर्वै कर्म तत्तथा। मथ्यमानेऽमृतस्यार्थे भूयो वै देवदानवैः।।

adi-1-18-28__1203 वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः। सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्।।’

ते धूमसङ्घाः संभूता मेघसङ्घाः सविद्युतः। अभ्यवर्षन्सुरगणाञ्श्रमसंतापकर्शितान्।।

तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः। सुरासुरगणान्सर्वान्समन्तात्समवाकिरन्।।

बभूवात्र महान्नादो महामेघरवोपमः। उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः।।

तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा। विलयं समुपाजग्मुः शतशो लवणाम्भसि।।

वारुणानि च भूतानि विविधानि महीधरः। पातालतलवासीनि विलयं समुपानयत्।।

तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम्। न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः।।

तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः। विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम्।।

ददाह कुञ्जरांस्तत्र सिंहांश्चैव विनिर्गतान्। विगतासूनि सर्वाणि सत्त्वानि विविधानि च।।

तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः। वारिणा मेघजेनेन्द्रः शमयामास सर्वशः।।

ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि। महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः।।

तेषाममृतवीर्याणां रसानां पयसैव च। अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात्।।

ततस्तस्य समुद्रस्य तञ्जातमुदकं पयः। रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्धृतम्।।

ततो ब्रह्माणमासीनं देवा वरदमब्रुवन्। श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत्।।

ऋते नारायणं देवं सर्वेऽन्ये देवदानवाः। चिरारब्धमिदं चापि सागरस्यापि मन्थनम्।।

adi-1-18-43__1218 `ग्लानिरस्मान्समाविष्टा न चात्रामृतमत्थितम्। सौतिरुवाच। देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः’।।

ततो नारायणं देवं वचनं चेदमब्रवीत्। विधत्स्वैषां बलं विष्णो भवानत्र परायणम्।। विष्णुरुवाच।

बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः। क्षोभ्यतां कलशः सर्वैमन्दरः परिवर्त्यताम्।। सौतिरुवाच।

नारायणवचः श्रुत्वा बलिनस्ते महोदधेः। तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम्।।

adi-1-18-47__1222 `तत्र पूर्वं विषं जातं तद्ब्रह्मवचनाच्छिवः। प्राग्रसल्लोकरक्षार्थं ततो ज्येष्ठा समुत्थिता। कृष्णरूपधरा देवी सर्वाभरणभूषिता।।’

ततः शतसहस्रांशुर्मथ्यमानात्तु सागरात्। प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः।।

श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी। सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा।।

कौस्तुभस्तु मणिर्दिव्य उत्पन्नो घृतसंभवः। मरीचिविकचः श्रीमान्नारायणउरोगतः।।

adi-1-18-51__1226 श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः। `पारिजातश्च तत्रैव सुरभिश्च महामुने। जज्ञाते तौ तदा ब्रह्मन्सर्वकामफलप्रदौ।।

adi-1-18-52__1227 ततो जज्ञे महाकायश्चतुर्दन्तो महागजः। कपिला कामवृक्षश्च कौस्तुभश्चाप्सरोगणः।’ यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः।।

धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत। श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति।।

एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः। अमृतार्थे महान्नादो ममेदमिति जल्पताम्।।

ततो नारायणो मायां मोहिनीं समुपाश्रितः। स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः।।

ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः। स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः।।

`सा तु नारायणी माया धारयन्ती कमण्डलुम्। आस्यमानेषु दैत्येषु पङ्क्त्या च प्रति दानवैः।।

adi-1-18-58__1233 देवानपाययद्देवी न दैत्यांस्ते च चुक्रुशुः।। ।।

इति श्रीमन्महाबारते आदिपर्वणि आस्तीकपर्वणि अष्टादशोऽध्यायः।। 18 ।।

1-18-11 अकूपारे समुद्रसमीपे। अधिष्ठानं आधारः।। 1-18-12 तु तथेत्युक्ते पृष्ठे त्वस्य समर्पितः। सशैलस्तस्य चाग्रं वै वज्रेणेन्द्रोऽभ्यपीडयत्। इति पाठान्तरं।। 1-18-13 योक्त्रं मन्थनरज्जुम्।। 1-18-14 एकमन्तं एकं प्रदेशं मुखभागम्।। 1-18-33 वारुणानि वरुणलोकस्थानि आप्यांशप्रधानशरीराणि।। 1-18-40 लवणाम्भसि कुतो दुग्धमित्यत आह। तत इति। ततः तेषां निःस्रवं प्राप्य। समुद्रस्य तत्क्षारं उदकं पयः क्षीरं जातम्।। 1-18-50 मरीचिविकचः रश्मिभिरुज्ज्वलः। नारायणउरोगत इत्यसन्धिरार्षः।। 1-18-55 अभिसंश्रितः संमुखः स्थितः मोहनार्थमिति शेषः।। अष्टादशोऽध्यायः।। 18 ।।

अध्यायः 019

देवानाममृतपानं।। 1 ।। देवरूपेणामृतं पिबतो राहोः शिरश्छेदनं।। 2 ।। देवदैत्ययोर्युद्धं। तत्र दैत्यपराजयः।। 3 ।।

adi-1-19-0__1234 सौतिरुवाच।

अथावरणमुख्यानि नानाप्रहरणानि च। प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः।।

ततस्तदमृतं देवो विष्णुरादाय वीर्यवान्। जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः।।

ततो देवगणाः सर्वे पपुस्तदमृतं तदा। विष्णोः सकाशात्संप्राप्य संभ्रमे तुमुले सति।।

adi-1-19-4__1238 `पाययत्यमृतं देवान्हरौ बाहुबलान्नरः। निरोधयति चापेन दूरीकृत्य धनुर्धरान्। ये येऽमृतं पिबन्ति स्म ते ते युद्ध्यन्ति दानवैः;’।।

ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम्। राहुर्विबुधरूपेण दानवः प्रापिबत्तदा।।

तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा। आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया।।

ततो भगवता तस्य शिरश्छिन्नमलंकृतम्। चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा।।

adi-1-19-8__1242 तच्छैलशृह्गप्रङ्गिमं दानवस्य शिरो महत्। `चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम्।।’

चक्रच्छिन्नं खमुत्पत्य ननादातिभयंकरम्। तत्कबन्धं पपातास्य विस्फुरद्धरणीतले।।

`त्रयोदश सहस्राणि चतुरश्रं समन्ततः। सपर्वतवनद्वीपां दैत्यस्याकम्पयन्महीम्।।

ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै। शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ।।

विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः। नानाप्रहरणैर्भीमैर्दानवान्तमकम्पयत्।।

ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः। सुराणामसुराणां च सर्वघोरतरो महान्।।

प्रासाश्च विपुलास्तीक्ष्णा न्यपतन्त सहस्रशः। तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च।।

ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु। असिशक्तिगदारुग्णा निपेतुर्धरणीतले।।

छिन्नानि पट्टिशैश्चैव शिरांसि युधि दारुणैः। तप्तकाञ्चनमालीनि निपेतुरनिशं तदा।।

रुधिरेणानुलिप्ताङ्गा निहताश्च महासुराः। अद्रीणामिव कूटानि धातुरक्तानि शेरते।।

आहाकारः समभवत्तत्र तत्र सहस्रशः। अन्योन्यंछिन्दतां शस्त्रैरादित्ये लोहितायति।।

परिघैरायसैस्तीक्ष्णैः सन्निकर्षे च मुष्टिभिः। निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत्।।

छिन्धिभिन्धि प्रधाव त्वं पातयाभिसरेति च। व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः।।

एवं सुतुमुले युद्धे वर्तमाने महाभये। नरनारायणौ देवौ समाजग्मतुराहवम्।।

तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि। चिन्तयामास तच्चक्रं विष्णुर्दानवसूदनम्।।

adi-1-19-23__1257 ततोऽम्बराच्चिन्तितमात्रमागतं महाप्रभं चक्रममित्रतापनम्। विभावसोस्तुल्यमकुण्ठमण्डलं सुदर्शनं संयति भीमदर्शनम्।।

adi-1-19-24__1258 तदागतं ज्वलितहुताशनप्रभं भयंकरं करिकरबाहुरच्युतः। मुमोच वै प्रबलवदुग्रवेगवा- न्महाप्रभं परनगरावदारणम्।।

adi-1-19-25__1259 तदन्तकज्वलनसमानवर्चसं पुनःपुनर्न्यपतत वेगवत्तदा। विदारयद्दितिदनुजान्सहस्रशः करेरितं पुरुषवरेण संयुगे।।

adi-1-19-26__1260 दहत्क्वचिज्ज्वलन इवावलेलिह- त्प्रसह्य तानसुरगणान्न्यकृन्तत। प्रवेरितं वियति मुहुः क्षितौ तथा पपौ रणे रुधिरमथो पिशाचवत्।।

adi-1-19-27__1261 तथाऽसुरा गिरिभिरदीनचेतसो मुहुर्मुहुः सुरगणमार्दयंस्तदा। महाबला विगलितमेघवर्चसः सहस्रशो गगनमभिप्रपद्यह।।

adi-1-19-28__1262 अथाम्बराद्भयजननाः प्रपेदिरे सपादपा बहुविधमेघरूपिणः। महाद्रयः परिगलिताग्रसानवः परस्परं द्रुतमभिहत्य सस्वनाः।।

adi-1-19-29__1263 ततो मही प्रविचलिता सकानना महाद्रिपाताभिहता समन्ततः। परस्परं भृशमभिगर्जतां मुहू रणाजिरे भृशमभिसंप्रवर्तिते।।

adi-1-19-30__1264 नरस्ततो वरकनकाग्रभूषणै- र्महेषुभिर्गगनपथं समावृणोत्। विदारयन्गिरिशिखराणि पत्रिभि- र्महाभयेऽसुरगणविग्रहे तदा।।

adi-1-19-31__1265 ततो महीं लवणजलं च सागरं महासुराः प्रविविशुरर्दिताः सुरैः। वियद्गतं ज्वलितहुताशनप्रभं सुदर्शनं परिकुपितं निशाम्य ते।।

adi-1-19-32__1266 ततः सुरैर्विजयमवाप्य मन्दरः स्वमेव देशं गमितः सुपूजितः। विनाद्य खं दिवमपि चैव सर्वश- स्ततो गताः सलिलधरा यथागतम्।।

adi-1-19-33__1267 ततोऽमृतं सुनिहितमेव चक्रिरे सुराः पुरां मुदमभिगम्य पुष्कलाम्। ददो च तं निधिममृतस्य रक्षितुं किरीटिने बलभिदथामरैः सह।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकोनविंशोऽध्यायः।। 19 ।।

1-19-1 आवरणमुख्यानि कवचाग्र्याणि।। 1-19-3 संभ्रमे उभयेषाममृतादरे सति। सङ्ग्रामे इति पाठान्तरं।। 1-19-26 प्रवेरितं प्रेरितं।। 1-19-27 विगलितमेघाः रिक्तमेघाः।। 1-19-32 सलिलधराः अमृतभृतो देवाः।। 1-19-33 किरीटिने नराय।। एकोनविंशोऽध्यायः।। 19 ।।

अध्यायः 020

कद्रूविनतयोः पणबन्धः।। 1 ।। सर्पाणां कद्रूशापः।। 2 ।। ब्रह्मणा कश्यपाय विषहरविद्यादानं।। 3 ।।

adi-1-20-0__1268 सौतिरुवाच।

एतत्ते कथितं सर्वममृतं मथितं यथा। यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः।।

तं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत्। उच्चैःश्रवा हि किंवर्णो भद्रे प्रब्रूहि मा चिरम्।। विनतोवाच।

श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे। ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे।। कद्रूरुवाच।

कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते। एहि सार्धं मया दीव्य दासीभावाय भामिनि।। सौतिरुवाच।

एवं ते समयं कृत्वा दासीभावाय वै मिथः। जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह।।

ततः पुत्रसहस्रं तु कद्रूर्जिह्यं चिकीर्षती। आज्ञापयामास तदा वाला भूत्वाऽञ्जनप्रभाः।।

आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा। नावपद्यन्त ये वाक्यं ताञ्शशाप भुजंगमान्।।

सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति। जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः।।

शापमेनं तु शुश्राव स्वयमेव पितामहः। अतिक्रूरं समुत्सृष्टं कद्र्वा दैवादतीव हि।।

सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत। बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया।।

तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः। तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय च।।

युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणाम्। अन्येषामपि सत्त्वानां नित्यं दोषपरास्तु ये।।

तेषां प्राणान्तिको दण्डो दैवेन विनिपात्यते। एवं संभाष्य देवस्तु पूज्य कद्रूं च तां तदा।।

आहूय कश्यपं देव इदं वचनमब्रवीत्। यदेते दन्दशूकाश्च सर्पा जातास्त्वयानघ।।

विषोल्बणा महाभोगा मात्रा शप्ताः परंतप। तत्र मन्युस्त्वया तात न कर्तव्यः कथंचन।।

adi-1-20-16__1284 दृष्टं पुरातनं ह्येतद्यज्ञे सर्पविनाशनम्। इत्युक्त्वा सृष्टिकृद्देवस्तं प्रसाद्य प्रजापतिम्। प्रादाद्विषहरीं विद्यां कश्यपाय महात्मने।।

`एवं शप्तेषु नागेषु कद्र्वातु द्विजसत्तम। अद्विग्नः शापतस्तस्याः कद्रूं कर्कोटकोऽब्रवीत्।।

मातरं परमप्रीतस्तथा भुजगसत्तमः। आविश्य वाजिनं मुख्यं बालो भूत्वाञ्जनप्रभः।।

दर्शयिष्यामि तत्राहमात्मानं काममाश्वस। एवमस्त्विति सा पुत्रं प्रत्युवाच यशस्विनी’।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकर्पणि विंशोऽध्यायः।। 20 ।।

1-20-3 विपणावहे पणं कुर्वहे।। 1-20-6 जिह्मं कौटिल्यं। वालाः लोमानि।। 1-20-7 नावपद्यन्त नानुमोदितवन्तः।। विंशोऽध्यायः।। 20 ।।

अध्यायः 021

उच्चैःश्रवसो दर्शार्थं कद्रूविनतयोर्गमनम्।। 1 ।।

adi-1-21-0__1288 सौतिरुवाच।

ततो रजन्यां व्युष्टायां प्रभातेऽभ्युदिते रवौ। कद्रूश्च विनता चैव भगिन्यौ ते तपोधन।।

adi-1-21-2__1290 अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा। `स्मगरस्य परं पारं वेलावनविभूषितम्।’ जग्मतुस्तुरगं द्रष्टुमुच्चैःश्रवसमन्तिकात्।।

ददृशातेऽथ ते तत्र समुद्रं निधिमम्भसाम्। महान्तमुदकागाधं क्षोभ्यमाणं महास्वनम्।।

तिमिंगिलझषाकीर्णं मकरैरावृतं तथा। सत्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम्।।

भीषणैर्विकृतैरन्यैर्घोरैर्जलचरैस्तथा। उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम्।।

आकरं सर्वरत्नानामालयं वरुणस्य च। नागानामालयं रम्यमुत्तमं सरितां पतिम्।।

पातालज्वलनावासमसुराणां च बान्धवम्। भयंकरं च सत्त्वानां पयसां निधिमर्णवम्।।

शुभं दिव्यममर्त्यानाममृतस्याकरं परम्। अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम्।।

घोरं जलचरारावरौद्रं भैरवनिःस्वनम्। गम्भीरावर्तकलिलं सर्वभूतभयंकरम्।।

वेलादोलानिलचलं क्षोभोद्वेगसमुच्छ्रितम्। वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वतः।।

चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिसमाकुलम्। पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम्।।

गां विन्दता भगवता गोविन्देनामितौजसा। वराहरूपिणा चान्तर्विक्षोभितजलाविलम्।।

ब्रह्मर्षिणा व्रतवता वर्षाणां शतमत्रिणा। अनासादितगाधं च पातालतलमव्ययम्।।

अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः। युगादिकालशयनं विष्णोरमिततेजसः।।

वज्रपातनसंत्रस्तमैनाकस्याभयप्रदम्। डिम्बाहवार्दितानां च असुराणां परायणम्।।

बडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शिवम्। अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम्।।

adi-1-21-17__1305 महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः। अभिसार्यमाणमनिशं ददृशाते महार्णवम्। आपूर्यमाणमत्यर्थं नृत्यमानमिवोर्मिभिः।।

adi-1-21-18__1306 गम्भीरं तिमिमकरोग्रसंकुलं तं गर्जन्तं जलचररावरौद्रनादैः। विस्तीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भसामनन्तम्।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकविंशतितमोऽध्यायः।। 21 ।।

1-21-3 क्षोभ्यमाणं मकरादिभिः।। 1-21-7 पातालज्वलनो बडवाग्निः।। 1-21-12 गां पृथ्वीं विन्दता लम्बमानेन।। 1-21-15 डिम्बो भयवतामाक्रन्दस्तद्वति आहवे।। 1-21-18 ते कद्रूविनते।। एकविंशतितमोऽध्यायः।। 21 ।।

अध्यायः 022

सर्पौर्मातृवचनादुच्चैःश्रवःपुच्छवेष्टनम्।। 1 ।।

adi-1-22-0__1307 सौतिरुवाच।

नागाश्च संविदं कृत्वा कर्तव्यमिति तद्वचः। निःस्नेहा वै दहेन्माता असंप्राप्तमनोरथा।।

प्रसन्ना मोक्षयेदस्मांस्तस्माच्छापाच्च भामिनी। कृष्णं पुच्छं करिष्यामस्तुरगस्य न संशयः।।

adi-1-22-3__1310 `इति निश्चित्य ते तस्य कृष्णा वाला इव स्थिताः।’ एतस्मिन्नन्तरे ते तु सपत्न्यौ पणिते तदा।।

ततस्ते पणितं कृत्वा भगिन्यौ द्विजसत्तम। जग्मतुः परया प्रीत्या परं पारं महोदधेः।।

कद्रूश्च विनता चैव दाक्षायण्यौ विहायसा। आलोकयन्त्यावक्षोभ्यं समुद्रं निधिमम्भसाम्।।

वायुनाऽतीव सहसा क्षोभ्यमाणं महास्वनम्। तिमिंगिलसमाकीर्णं मकरैरावृतं तथा।।

संयुतं बहुसाहस्रैः सत्वैर्नानाविधैरपि। घोरर्घोरमनाधृष्यं गम्भीरमतिभैरवम्।।

आकरं सर्वरत्नानामालयं वरुणस्य च। नागानामालयं चापि सुरम्यं सरितां पतिम्।।

पातालज्वलनावासमसुराणां तथालयम्। भयंकराणां सत्त्वानां पयसो निधिमव्ययम्।।

शुभ्रं दिव्यममर्त्यानाममृतस्याकरं परम्। अप्रमेयमचिन्त्यं च सुपुम्यजलसंमितम्।।

महानदीभिर्बह्वीभिस्तत्र तत्र सहस्रशः। आपूर्यमाणमत्यर्थं नृत्यन्तमिव चोर्मिभिः।।

adi-1-22-12__1319 इत्येवं तरलतरोर्मिसंकुलं ते गम्भीरं विकसितमम्बरप्रकाशम्। पातालज्वलनशिखाविदीपिताङ्गं गर्जन्तं द्रुतमभिजग्मतुस्ततस्ते।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि द्वाविंशोऽध्यायः।। 22 ।।

1-22-1 संविदं मिथ आलोचनम्।। 1-22-3 पणिते पणं कृत वत्यौ।। 3 ।। द्वाविंशोऽध्यायः।। 22 ।।

अध्यायः 023

गरुडोत्पत्तिः।। 1 ।। देवकृतस्तुत्या गरुडकृतं स्वतेजस्संहरणम्।। 2 ।।

adi-1-23-0__1320 सौतिरुवाच।

तं समुद्रमतिक्रम्य कद्रूर्विनतया सह। न्यपतत्तुरगाभ्याशे न चिरादिव शीघ्रगा।।

ततस्ते तं हयश्रेष्ठं ददृशाते महाजवम्। शशाङ्ककिरणप्रख्यं कालवालमुभे तदा।।

निशाम्य च बहून्वालान्कृष्णान्पुच्छसमाश्रितान्। विषण्णरूपां विनतां कद्रूर्दास्ये न्ययोजयत्।।

ततः सा विनता तस्मिन्पणितेन पराजिता। अभवद्दुःखसंतप्ता दासीभावं समास्थिता।।

एतस्मिन्नन्तरे चापि गरुडः काल आगते। विना मात्रा महातेजा विदार्याण्डमजायत।।

महासत्त्वबलोपेतः सर्वा विद्योतयन्दिशः। कामरूपः कामगमः कामवीर्यो विहंगमः।।

अग्निराशिरिवोद्भासन्समिद्धोऽतिभयंकरः। विद्युद्विस्पष्टपिङ्गाक्षो युगान्ताग्निसमप्रभः।।

प्रवृद्धः सहसा पक्षी महाकायो नभोगतः। घोरो घोरस्वनो रौद्रो वह्निरौर्व इवापरः।।

तं दृष्ट्वा शरणं जग्मुर्देवाः सर्वे विभावसुम्। प्रमिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम्।।

अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि। असौ हि राशिः सुमहान्समिद्धस्तव सर्पति।। अग्निरुवाच।

नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः। गरुडो बलवानेष मम तुल्यश्च तेजसा।।

जातः परमतेजस्वी विनतानन्दवर्धनः। तेजोराशिमिमं दृष्ट्वा युष्मान्मोहः समाविशत्।।

नागक्षयकरश्चै काश्यपेयो महाबलः। देवानां च हिते युक्तस्त्वहितो दैत्यरक्षसाम्।।

adi-1-23-14__1334 न भीः कार्या कथं चात्र पश्यध्वं सहिता मया। सौतिरुवाच। एवमुक्तास्तदा गत्वा गरुडं वाग्भिरस्तुवन्।।

adi-1-23-15__1335 ते दूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा। देवा ऊचुः। त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः।।

त्वं प्रभुस्तपनः सूर्यः परमेष्ठी प्रजापतिः। त्वमिन्द्रस्त्वं हयमुखस्त्वं शर्वस्त्वं जगत्पतिः।।

त्वं मुखं पद्मजी विप्रस्त्वमग्निः पवनस्तथा। त्वं हि धाता विधाता च त्वं विष्णुः सुरसत्तमः।।

त्वं महानभिभूः शश्वदमृतं त्वं महद्यशः। त्वं प्रभास्त्वमभिप्रेतं त्वं नस्त्राणमनुत्तमम्।।

adi-1-23-19__1339 `त्वं गतिः सततं त्वत्तः कथं नः प्राप्नुयाद्भयम्।’ बलोर्मिमान्साधुरदीनसत्त्वः समृद्धिमान्दुर्विषहस्त्वमेव। त्वत्तः सृतं सर्वमहीनकीर्ते ह्यनागतं चोपगतं च सर्वम्।।

adi-1-23-20__1340 त्वमुत्तमः सर्वमिदं चराचरं गभस्तिभिर्भानुरिवावभाससे। समाक्षिपन्भानुमतः प्रभां मुहु- स्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम्।।

adi-1-23-21__1341 दिवाकरः परिकुपितो यथा दहे- त्प्रजास्तथा दहसि हुताशनप्रभ। भयंकरः प्रलय इवाग्निरुत्थितो विनाशयन्युगपरिवर्तनान्तकृत्।।

adi-1-23-22__1342 खगेश्वरं शरणमुपागता वयं महौजसं ज्वलनसमानवर्चसम्। तडित्प्रभं वितिमिरमभ्रगोचरं महाबलं गरुडमुपेत्य खेचरम्।।

adi-1-23-23__1343 परावरं वरदमजय्यविक्रमं तवौजस सर्वमिदं प्रतापितम्। जगत्प्रभो तप्तसुवर्णवर्चसा त्वं पाहि सर्वांश्च सुरान्महात्मनः।।

adi-1-23-24__1344 भयान्विता नभसि विमानगामिनो विमानिता विपथगतिं प्रयान्ति ते। ऋषेः सुतस्त्वमसि दयावतः प्रभो महात्मनः खगवर कश्यपस्य ह।।

adi-1-23-25__1345 स मा क्रुधः कुरु जगतो दयां परां त्वमीश्वरः प्रशममुपैहि पाहि नः। महाशनिस्फुरितसमस्वनेन ते दिशोऽम्बरं त्रिदिवमियं च मेदिनी।।

adi-1-23-26__1346 चलन्ति नः खग हृदयानि चानिशं निगृह्यतां वपुरिदमग्निसन्निभम्। तव द्युतिं कुपितकृतान्तसन्निभां निशाम्य नश्चलति मनोऽव्यवस्थितम्। प्रसीद नः पतगते प्रयाचतां शिवश्च नो भव भगवन्सुखावहः।। सौतिरुवाच।

एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा। तेजसः प्रतिसंहारमात्मनः स चकार ह।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रयोविंशोऽध्यायः।। 23 ।।

1-23-2 शशाङ्ककिरणवत्प्रख्या दीप्तिर्यस्य तं तादृशमपि कालवालं कृष्णकेशम्।। 1-23-8 और्वो वडवाग्निः।। 1-23-9 विभावसुं अग्निम्।। 1-23-10 अग्ने मात्वमिति देवानां भ्रमवर्णनं अग्निगरुडयोरति सादृश्यकथनार्थम्।। 1-23-25 चलन्तीत्युत्तरादपकृष्यते।। 1-23-26 निगृत्यतां संक्षिप्यताम्।। त्रयोविंशोऽध्यायः।। 23 ।।

अध्यायः 024

राहुणा कृतोपद्रवस्य सूर्यस्य क्रोधः।। 1 ।। ब्रह्माज्ञयाऽरुणस्य सूर्यसारथ्यकरणम्।। 2 ।।

adi-1-24-0__1348 सौतिरुवाच।

स श्रुत्वाऽथात्मनो देहं सुपर्णः प्रेक्ष्य च स्वयम्। शरीरप्रतिसंहारमात्मनः संप्रचक्रमे।। सुपर्ण उवाच।

न मे सर्वाणि भूतानि विभियुर्देहदर्शनात्। भीमरूपात्समुद्विग्रास्तस्मात्तेजस्तु संहरे।। सौतिरुवाच।

ततः कामगमः पक्षी कामवीर्यो विहंगमः। अरुणं चात्मनः पृष्ठमारोप्य स पितुर्गृहात्।।

मातुरन्तिकमागच्छत्परं तीरं महोदधेः। तत्रारुणश्च निक्षिप्तो पुरोदेशे महाद्युतेः।।

adi-1-24-5__1353 सूर्यस्तेजोभिरत्युग्रैर्लोकान्दग्धुमना यदा। रुरुरुवाच। किमर्थं भगवान्सूर्यो लोकान्दग्धुमनास्तदा।।

adi-1-24-6__1354 किमस्तापहृतं देवैर्येनमं मन्युराविशत्। प्रमतिरुवाच। चन्द्रार्काभ्यां यदा राहुराख्यातो ह्यमृतं पिबन्।।

वैरानुबन्धं कृतवांश्चन्द्रादित्यौ तदाऽनघ। बाध्यमानं ग्रहेणाथ ह्यादित्यं मन्युराविशत्।।

सुरार्थाय समुत्पन्नो रोषो राहोस्तु मां प्रति। बह्वनर्थकरं पापमेकोऽहं समवाप्नुयाम्।।

सहाय एव कार्येषु न च कृच्छ्रेषु दृश्यते। पश्यन्ति ग्रस्यमानं मां सहन्ते वै दिवौकसः।।

तस्माल्लोकविनाशार्थं ह्यवतिष्ठे न संशयः। एवं कृतमतिः सूर्यो ह्यस्तमभ्यगमद्गिरिम्।।

तस्माल्लोकविनाशाय संतापयत भास्करः। ततो देवानुपागम्य प्रोचुरेवं महर्षयः।।

आद्यार्धरात्रसमये सर्वलोकभयावहः। उत्पत्स्यते महान्दाहस्त्रैलोक्यस्य विनाशनः।।

ततो देवाः सर्षिगणा उपगम्य पितामहम्। अब्रुवन्किमिवेहाद्य महद्दाहकृतं भयम्।।

न तावद्दृश्यते सूर्यः क्षयोऽयं प्रतिभाति च। उदिते भगवन्भानौ कथनेतद्भविष्यति।। पितामह उवाच।

एष लोकविनाशाय रविरुद्यन्तुमुद्यतः। दृश्यन्नेव हि लोकान्स भस्मराशीकरिष्यति।।

तस्य प्रतिविधानं च विहितं पूर्वमेव हि। कश्यपस्य सुतो धीमानरुणेत्यभिविश्रुतः।।

महाकायो महातेजाः स स्थास्यति पुरो रवेः। करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति।।

adi-1-24-18__1366 लोकानां स्वस्ति चैवं स्यादृषीणां च दिवौकसाम्। प्रमतिरुवाच। ततः पितामहाज्ञातः सर्वं चक्रे तदाऽरुणः।।

उदितश्चैव सविता ह्यरुणेन समावृतः। एतत्ते सर्वमाख्यातं यत्सूर्यं मन्युराविशत्।।

अरुणश्च यथैवास्य सारथ्यमकरोत्प्रभुः। भूय एवापरं प्रश्नं शृणु पूर्वमुदाहृतम्।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुर्विंशोऽध्यायः।। 24 ।।

1-24-2 समुद्विग्नाः समुद्विग्नानि।। 1-24-7 चन्द्रादित्यौ प्रतीति शेषः।। 1-24-12 किमुत सूर्ये उदिते इति शेः।। चतुर्विंशोऽध्यायः।। 24 ।।

अध्यायः 025

विनतया कद्रूवहनं गरुडेन सर्पवहनं च।। 1 ।। सूर्यातपतप्तस्वपुत्ररक्षार्थं कद्रूकृत इन्द्रस्तवः।। 2 ।।

adi-1-25-0__1369 सौतिरुवाच।

ततः कामगमः पक्षी महावीर्यो महाबलः। मातुरन्तिकमागच्छत्परं पारं महोदधेः।।

यत्र सा विनता तस्मिन्पणितेन पराजिता। अतीव दुःखसंतप्ता दासीभावमुपागता।।

ततः कदाचिद्विनतां प्रणतां पुत्रसन्निधौ। काले चाहूय वचनं कद्रूरिदमभाषत।।

नागानामालयं भद्रे सुरम्यं चारुदर्शनम्। समुद्रकुक्षावेकान्ते तत्र मां विनते नय।। सौतिरुवाच।

ततः सुपर्णमाता तामवहत्सर्पमातरम्। पन्नगान्गरुडश्चापि मातुर्वचनचोदितः।।

स सूर्यमभितो याति वैनतेयो विहंगमः। सूर्यरश्मिप्रतप्ताश्च मूर्च्छिताः पन्नगाऽभवन्।।

तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत्। नमस्ते सर्वदेवेश नमस्ते बलसूदन।।

नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते। सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव।।

त्वमेव परमं त्राणमस्माकममरोत्तम। ईशो असि पवः स्रष्टुं त्वमनल्पं पुरंदर।।

त्वमेव मेघस्त्वं वायुस्त्वमग्निर्विद्युतोऽम्बरे। त्वमभ्रगणविक्षेप्ता त्वामेवाहुर्महाघनम्।।

त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः। स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः।।

त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः। त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः।।

त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम्। त्वं सर्वममृतं देव त्वं सोमः परमार्चितः।।

adi-1-25-14__1383 त्वं मुहूर्तस्तिथिस्त्वं च त्वं लवस्त्वं पुनः क्षणः। शुक्लस्त्वं बहुलस्त्वं च कला काष्ठा त्रुटिस्तथा। संवत्सरर्तवो मासा रजन्यश्च दिनानि च।।

adi-1-25-15__1384 त्वमुत्तमा सगिरिवना वसुंधरा सभास्करं वितिमिरमम्बरं तथा। मदोदधिः सतिमितिमिङ्गिलस्तथा महोर्मिमान्बहुमकरो झषाकुलः।।

adi-1-25-16__1385 महायशास्त्वमिति सदाऽभिपूज्यसे मनीषिभिर्मुदितमना महर्षिभिः। अभिष्टुतः पिबसि च सोममध्वरे कषट्कृतान्यपि च हवींषि भूतये।।

adi-1-25-17__1386 त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदाङ्गेष्वतुलबलौघ गीयसे च। त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्यभिगमयन्ति सर्वयत्नैः।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चविंशोऽध्यायः।। 25 ।।

1-25-6 अभितः संमुखम्।। 1-25-14 बहुलः कृष्णपक्षः।। पञ्चविंशोऽध्यायः।। 25 ।।

अध्यायः 026

स्तुत्या तुष्टेन इन्द्रेण कृतं जलवर्षणम्।। 1 ।।

adi-1-26-0__1387 सौतिरुवाच।

एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः। नीलजीमूतसंघातैः सर्वमम्बरमावृणोत्।।

मेघानाज्ञापयामास वर्षध्वममृतं शुभम्। ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः।।

परस्परमिवात्यर्थं गर्जन्तः सततं दिवि। संवर्तितमिवाकाशं जलदैः सुमहाद्भुतैः।।

सृजद्भिरतुलं तोयमजस्रं सुमहारवैः। संप्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः।।

मेघस्तनितनिर्घोषौर्विद्युत्पवनकम्पितैः। तैर्मेघैः सततासारं वर्षद्भिरनिशं तदा।।

नष्टचन्द्रार्ककिरणमम्बरं समपद्यत। नागानामुत्तमो हर्षस्तथा वर्षति वासवे।।

adi-1-26-7__1394 आपूर्यत मही चापि सलिलेन समन्ततः। रसातलमनुप्राप्तं शीतलं विमलं जलम्।

तदा भूरभवच्छन्ना जलोर्मिभिरनेकशः। रामणीयकमागच्छन्मात्रा सह भुजंगमाः।। ।।

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि षड्विंशोऽध्यायः।। 26 ।।

1-26-3 संवर्तः कल्पान्तः संजातोस्मिन्निति संवर्तितम्।। 1-26-8 रामणीयकं रमणकसंज्ञं द्वीपम्।। ष़ड्विंशोऽध्यायः।। 26 ।।

अध्यायः 027

गरुडस्य विनतां प्रति दास्यकारणप्रश्नः।। 1 ।। सर्पैः दास्यमोचनोपायकथनम्।। 2 ।।

adi-1-27-0__1396 सौतिरुवाच।

संप्रहृष्टास्ततो नागा जलधाराप्लुतास्तदा। सुपर्णेनोह्यमानास्ते जग्मुस्तं द्वीपमाशु वै।।

तं द्वीपं मकरावासं विहितं विश्वकर्मणा। तत्र ते लवणं घोरं ददृशुः पूर्वमागताः।।

सुपर्णसहिताः सर्पाः काननं च मनोरमम्। सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिजादितम्।।

विचित्रफलपुष्पाभिर्वनराजिभिरावृतम्। भवनैरावृतं रम्यैस्तथा पद्माकरैरपि।।

प्रसन्नसलिलैश्चापि ह्वदैर्दिव्यैर्विभूषितम्। दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम्।।

उत्पतद्भिरिवाकाशं वृक्षैर्मलयजैरपि। शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धतैः।।

वायुविक्षिप्तकुसुमैस्तथाऽन्यैरपि पादपैः। किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः।।

मनःसंहर्षजं दिव्यं गन्धर्वाप्सरसां प्रियम्। मत्तभ्रमस्संघुष्टं मनोज्ञाकृतिदर्शनम्।।

रमणीयं शिवं पुण्यं सर्वैर्जनमनोहरैः। नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम्।।

तत्ते वनं समासाद्य विजह्रुः पन्नगास्तदा। अब्रुवंश्च महावीर्यं सुपर्णं पतगेश्वरम्।।

वहास्मानपरं द्वीपं सुरम्यं विमलोदकम्। त्वं हि देशान्बहून्रम्यान्व्रजन्पश्यसि खेचर।। सौतिरुवाच।

स विचिन्त्याब्रवीत्पक्षी मातरं विनतो तदा। किं कारणं मया मातः कर्तव्यं सर्पभाषितम्।। विनतोवाच।

दासीभूतास्मि दुर्योगात्सपत्न्याः पतगोत्तम। पणं वितथमास्थाय सर्पैरुपधिना कृतम्।। सौतिरुवाच।

तस्मिंस्तु कथिते मात्रा कारणे गगनेतरः। उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः।।

किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम्। दास्याद्वो विप्रमुच्येयं तथ्यं वदत लेलिहाः।। सौतिरुवाच।

श्रुत्वा समब्रुवन्सर्पा आहरामृतमोजसा। ततो दास्याद्विप्रमोक्षो भविता तव खेचर।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सप्तविंशोऽध्यायः।। 27 ।।

1-27-2 लवणं लवणासुरं पूर्वं ददृशुः।। 1-27-8 मनःसंहर्षजं मनसः संहर्षाय जातम्।। 1-27-15 लेलिहाः भोसर्पाः।। सप्तविंशोऽध्यायः।। 27 ।।

अध्यायः 028

अमृताहरणार्थं गच्छतो गरुडस्य मक्ष्ययाचनम्।। 1 ।। ब्राह्मणवर्जं समुद्रकुक्षिस्थनिषादभक्षणे विनताया अनुज्ञा।। 2 ।।

adi-1-28-0__1413 सौतिरुवाच।

इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत्। गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम्।। विनतोवाच।

समुद्रकुक्षावेकान्ते निषादालयमुत्तमम्। `भवनानि निषादानां तत्र सन्ति द्विजोत्तम।।

पापिनां नष्टलोकानां निर्घृणानां दुरात्मनाम्’। निषादानां सहस्राणि तान्भुक्त्वाऽमृतमानय।।

न च ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथंचन। अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः।।

अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः। गुरुर्हि सर्वभूतानां ब्राह्मणः परिकीर्तितः।।

एवमादिस्वरूपैस्तु सतां वै ब्राह्मणो मतः। स ते तात न हन्तव्यः संक्रुद्धेनापि सर्वथा।।

ब्राह्मणानामभिद्रोहो न कर्तव्यः कथंचन। न ह्येवमग्निर्नादित्यो भस्म कुर्यात्तथानघ।।

यथा कुर्यादभिक्रुद्धो ब्राह्मणः संशितव्रतः। तदेतैर्विविधैर्लिङ्गैस्त्वं विद्यास्तं द्विजोत्तमम्।।

adi-1-28-9__1422 भूतानामग्रभूर्विप्रो वर्णश्रेष्ठः पिता गुरुः। गरुड उवाच। किंरूपो ब्राह्मणो मातः किंशीलः किंपराक्रमः।।

किंस्विदग्निनिभो भाति किंस्वित्सौम्यप्रदर्शनः। यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः।।

adi-1-28-11__1424 तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि। विनतोवाच। यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा।।

दहेदङ्गारवत्पुत्रं तं विद्याद्ब्राह्मणर्षभम्। विप्रस्त्वया न हन्तव्यः संक्रुद्धेनापि सर्वदा।।

प्रोवाच चैन विनता पुत्रहार्दादिदं वचः। जठरे न च जीर्येद्यस्तं जानीहि द्विजोत्तमम्।।

पुनः प्रोवाच विनता पुत्रहार्दादिदं वचः। जानन्त्यप्यतुलं वीर्यमाशीर्वादपरायणा।।

adi-1-28-15__1428 प्रीता परमदुःखार्ता नागैर्विप्रकृता सती। विनतोवाच। पक्षौ ते मारुतः पातु चन्द्रसूर्यौ च पृष्ठतः।।

adi-1-28-16__1429 शिरश्च पातु वह्निस्ते वसवः सर्वतस्तनुम्। `विष्णुः सर्वगतः सर्वमह्गानि तव चैव ह।’ अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा।।

इहासीना भविष्यामि स्वस्तिकारे रता सदा। अरिष्टं व्रज पन्थानं पुत्र कार्यार्थसिद्धये।। सौतिरुवाच।

adi-1-28-18__1431 ततः स मातुर्वचनं निशम्य वितत्य पक्षौ नभ उत्पपात। ततो निषादान्बलवानुपागतो बुभुक्षितः काल इवान्तकोऽपरः।।

adi-1-28-19__1432 स तान्निषादानुपसंहरंस्तदा रजः समुद्धूय नभःस्पृशं महत्। समुद्रकुक्षौ च विशोषयन्पयः समीपजान्भूधरजान्विचालयन्।।

adi-1-28-20__1433 ततः स चक्रे महदाननं तदा निषादमार्गं प्रतिरुध्य पक्षिराट्। ततो निषादास्त्वरिताः प्रवव्रजु- र्यतो मुखं तस्य भुजंगभोजिनः।।

adi-1-28-21__1434 तदाननं विवृतमतिप्रमाणव- त्समभ्ययुर्गगनमिवार्दिताः खगाः। सहस्रशः पवनजोविमोहिता यथा।ञनिलप्रचलितपादपे वने।।

adi-1-28-22__1435 ततः खगो वदनममित्रतापनः समाहरत्परिचपलो मत्बलाः। निषूदयन्बहुविधमत्स्यजीविनो बभुक्षितो गगनचरेश्वरस्तदा।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि अष्टाविंशोऽध्यायः।। 28 ।।

1-28-18 काले समये।। 1-28-19 भूधरजान् पर्वतजान्वृक्षान्।। 1-28-22 परिचपलः तेषां ग्रहणाय सर्वतो भ्रमन्।। अष्टाविंशोऽध्यायः।। 28 ।।

अध्यायः 029

कण्ठं दहतो ब्राह्मणस्य विषादीसहितस्य परित्राणम्।। 1 ।। गरुडस्य कश्यपेन संवादः।। 2 ।। गजकच्छपपूर्ववृत्तान्तकथनम्।। 3 ।। कश्यपाज्ञया गरुडस्य गजकच्छपग्रहणम्।। 4 ।। रोहिणवृक्षशाखाभङ्गः।। 5 ।।

adi-1-29-0__1436 सौतिरुवाच।

तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया। दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः।।

द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात्। न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा।। सौतिरुवाच।

ब्रुवाणमेवं गरुडं ब्राह्मणः प्रत्यभाषत। निषादी मम भार्येयं निर्गच्छतु मया सह।। गरुड उवाच।

एतामपि निषादीं त्वं परिगृह्याशु निष्पत। तूर्णं संभावयात्मानमजीर्णं मम तेजसा।। सौतिरुवाच।

ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा। वर्धयित्वा च गरुडमिष्टं देशं जगाम ह।।

सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट्। वितत्य पक्षावाकाशमुत्पपात मनोजवः।।

ततोऽपश्यत्स्वपितरं पृष्टश्चाख्यातवान्पितुः। यथान्यायममेयात्मा तं चोवाच महानृषिः।। कश्यप उवाच।

कच्चिद्वः कुशलं नित्यं भोजने बहुलं सुत। कच्चिच्च मानुषे लोके तवान्नं विद्यते बहु।। `क्व गन्तास्यतिवेगेन मम त्वं वक्तुमर्हसि।।’ गरुड उवाच।

माता मे कुशला शश्वत्तथा भ्राता तथा ह्यहम्। न हि मे कुशलं तात भोजने बहुले सदा।।

अहं हि सर्पैः प्रहितः सोममाहर्तुमुत्तमम्। महातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै।।

मात्रा चात्र समादिष्टो निषादान्भक्षयेति ह। न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः।।

तस्माद्भक्ष्यं त्वमपरं भगवन्प्रदिशस्व मे। यद्भुक्त्वाऽमृतमाहर्तुं समर्तः स्यामहं प्रभो।।

adi-1-29-13__1449 क्षुत्पिपासाविघातार्थं भक्ष्यमाख्यातु मे भवान्। कश्यप उवाच। इदं सरो महापुण्यं देवलोकेऽपि विश्रुतम्।।

यत्र कूर्माग्रजं हस्ती सदा कर्षत्यवाङ्मुखः। तयोर्जन्मान्तरे वैरं संप्रवक्ष्याम्यसोषतः।।

तन्मे तत्त्वं निबोधस्य यत्प्रमाणौ च तावुभौ। `शृणु त्वं वत्स भद्रं ते कथां वैराग्यवर्धिनीम्।।

adi-1-29-16__1452 पित्रोरर्थविभागे वै समुत्पन्नां पुराण्डज।’ आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम्।।

भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः। स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः।।

विभागं कीर्तयत्येव सुप्रतीको हि नित्यशः। अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः।।

adi-1-29-19__1455 `विभागे बहवो दोषा भविष्यन्ति महातपः।’ विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यशः। ततो विभक्तास्त्वन्योन्यं नाद्रियन्तेऽर्थमोहिताः।।

ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः। विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः।।

विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ। भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते।।

तस्माद्विभागं भ्रातॄणां न प्रशंसन्ति साधवः। `एवमुक्तः सुप्रतीको भागं कीर्तयतेऽनिशम्।।

adi-1-29-23__1459 एवं निर्बध्यमानस्तु शशापैनं विभावसुः।’ गुरुशास्त्रेऽनिबद्धानामन्योन्येनाभिशङ्किनाम्।।

नियन्तु न हि शक्यस्त्वं भेदतो धनमिच्छसि। यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि।। कश्यप उवाच।

शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत्। त्वमप्यन्तर्जलचरः कच्छपः संभविष्यसि।।

एवमन्योन्यशापात्तौ सुप्रतीकविभावसू। गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ।।

रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि। परस्परद्वेषरतौ प्रमाणबलदर्पितौ।।

सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ। तयोरन्यतरः श्रीमान्समुपैति महागजः।।

यस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः। उत्थितोऽसौ महाकायः कृत्स्नं विक्षोभयन्सरः।।

तं दृष्ट्वाऽऽवेष्टितकरः पतत्येष गजो जलम्। दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान्।।

विक्षोभयंस्ततो नागः सरो बहुझषाकुलम्। कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान्।।

षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः। कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः।।

तावुभौ युद्धसंमत्तौ परस्परवधैषिणौ। उपयुज्याशु कर्मेदं साधये हितमात्मनः।।

महाभ्रघनसंकाशं तं भुक्त्वामृतमानय। महागिरिसमप्रख्यं घोररूपं च हस्तिनम्।। सौतिरुवाच।

इत्युक्त्वा गरुडं सोऽथ माङ्गल्यमकरोत्तदा। युध्यतः सह देवैस्ते युद्धे भवतु मङ्गलम्।।

पूर्णकुम्भो द्विजा गावो यच्चान्यत्किंचिदुत्तमम्। शुभं स्वस्त्ययनं चापि भविष्यति तवाण्डजा।।

युध्यमानस्य सङ्ग्रामे देवैः सार्धं महाबल। ऋचो यजूंषि सामानि पवित्राणि हवींषि च।।

adi-1-29-38__1474 रहस्यानि च सर्वाणि सर्वे वेदाश्च ते बलम्। `वर्धयिष्यन्ति समरे भविष्यति खगोत्तम।’ इत्युक्तो गरुडः पित्रा गतस्तं ह्वदमन्तिकात्।।

अपश्यन्निर्मलजलं नानापक्षिसमाकुलम्। स तत्स्मृत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः।।

नखेन गजमेकेन कूर्ममेकेन चाक्षिपत्। सधुत्पपात चाकाशं तत उच्चैर्विहङ्गमः।।

सोऽलम्बं तीर्थणासाद्य देववृक्षानुपागमत्। ते भीताः समकम्पन्त तस्य पक्षानिलाहताः।।

न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः। प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलद्रुमान्।।

adi-1-29-43__1479 अन्यानतुलरूपाङ्गानुपचक्राम खेचरः। काञ्चनै राजतैश्चैव फलैर्वैदूर्यशाखिनः। सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान्।।

`तेषां मध्ये महानासीत्पादपः सुमनोहरः। सहस्रयोजनोत्सेधो बहुशाखासमन्वितः।।

खगानामालयो दिव्यो नाम्ना रौहिणपादपः। यस्य छायां समाश्रित्य सद्यो भवति निर्वृतः;।।

तमुवाच खगश्रेष्ठं तत्र रौहिणपादपः। अतिप्रवृद्धः समुहानापतन्तं मनोजवम्।। रौहिण उवाच।

यैषा मम महाशाखा शतयोजनमायता। एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ।। सौतिरुवाच।

adi-1-29-48__1484 ततो द्रुमं पतगसहस्रसेवितं महीधरप्रतिमवपुः प्रकम्पयन्। खगोत्तमो द्रुतमभिपत्य वेगवा- न्बभञ्ज तामविरलपत्रसंचयाम्।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकोनत्रिंशोऽध्यायः।। 29 ।।

1-29-4 संभावय संजीवय।। 1-29-7 ततोऽपश्यत्स्वपितरं काश्यपं दीप्ततेजसम्। तं श्रेष्ठं पततां श्रेष्ठो ब्रह्म ब्रह्मविदां वरम्। पृष्टश्च पित्रा बलवान्वैनतेयः प्रतापदान्। इति पाठान्तरम्।। 7 ।। 1-29-9 भोजने बहुले मम कुशलं न हि।। 1-29-10 सोमं अमृतम्।। 1-29-14 कूर्माग्रजं कूर्मभूतं ज्येष्ठभ्रातरम्।। 1-29-21 अन्तरेषु छिद्रेषु।। 1-29-30 आवेष्टितकरः कुण्डलीकृतशुण्डादण्डः।। 1-29-33 उपयुज्य भुक्त्वा।। 1-29-38 भविष्यति समरे।। एकोनत्रिंशोऽध्यायः।। 29 ।।

अध्यायः 030

भग्नशाखाया अधोभागे लम्बमानवालखिल्यरक्षणार्थं मुखेन शाखाग्रहणम्।। 1 ।। कश्यपाज्ञया हिमालयं गत्वा तत्र शाखां परित्यज्य तत्रैव स्थित्वा गजकच्छपभक्षणम्।। 2 ।। उत्पातान्दृष्ट्वा देवैः कृतोऽमृतरक्षणोपायः।। 3 ।।

adi-1-30-0__1485 सौतिरुवाच।

स्पष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा। अभज्यत तरोः शाखा भग्नां चैकामधारयत्।।

तां भङ्क्त्वा स महाशाखां स्मयमानो विलोकयन्। अथात्रं लम्बतोऽपश्यद्वालखिल्यानधोमुखान्।।

ऋषयो ह्यत्र लम्बन्ते न हन्यामिति तानृषीन्। तपोरतांल्लम्बमानान्ब्रह्मर्षीनभिवीक्ष्य सः।।

हन्यादेतान्संपतन्ती शाखेत्यथ विचिन्त्य सः। नखैर्दृढतरं वीरः संगृह्य गजकच्छपौ।।

स तद्विनाशसंत्रासादभिपत्य स्वगाधिपः। शाखामास्येन जग्राह तेषामेवान्ववेक्षया।।

अतिदैवं तु तत्तस्य कर्म दृष्ट्वा महर्षयः। विस्मयोत्कम्पहृदया नाम चक्रुर्महाखगे।।

गुरुं भारं समासाद्योड्डीन एष विहङ्गमः। गरुडस्तु खगश्रेष्ठस्तस्मात्पन्नगभोजनः।।

ततः शनैः पर्यपतत्पक्षैः शैलान्प्रकम्पयन्। एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः।।

दयार्थं वालखिल्यानां न च स्थानमविन्दत। स गत्वा पर्वतश्रेष्ठं गन्धमादनमञ्जसा।।

ददर्श कश्यपं तत्र पितरं तपसि स्थितम्। ददर्श तं पिता चापि दिव्यरूपं विहङ्गमम्।।

तेजोवीर्यबलोपेतं मनोमारुतरंहसम्। शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम्।।

अचिन्त्यमनभिध्येयं सर्वभूतभयंकरम्। महावीर्यधरं रौद्रं साक्षादग्निमिवोद्यतम्।।

अप्रधृष्यमजेयं च देवदानवराक्षसैः। भेत्तारं गिरिशृङ्गाणां समुद्रजलशोषणम्।।

adi-1-30-14__1499 लोकसंलोडनं घोरं कृतान्तसमदर्शनम्। तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा। विदित्वा चास्यं संकल्पमिदं वचनमब्रवीत्।। कश्यप उवाच।

पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम्। मा त्वां दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः।। सौतिरुवाच।

ततः प्रसादयामास कश्यपः पुत्रकारणात्। वालखिल्यान्महाभागांस्तपसा हतकल्मषान्।। कश्यप उवाच।

प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः। चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ।। सौतिरुवाच।

एवमुक्ता भगवता मुनयस्ते समभ्ययुः। मुक्त्वा शाखां गिरिं पुण्यं हिमवन्त तपोऽर्थिनः।।

ततस्तेष्वपयातेषु पितरं विनतासुतः। शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम्।।

भगवन्क्व विमुञ्चामि तरोः शाखामिमामहम्। वर्जितं मानुषैर्देशमाख्यातु भगवान्मम।। सौतिरुवाच।

ततो निःपुरुषं शैलं हिमसंरुद्धकन्दरम्। अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः।।

तं पर्वतं महाकुक्षिमुद्दिश्य स महाखगः। जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः।।

न तां वध्री परिणहेच्छतचर्मा महातनुम्। शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः।।

स ततः शतसाहस्रं योजनान्तरमागतः। कालेन नातिमहता गरुडः पतगेश्वरः।।

स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः। अमुञ्चन्महतीं शाखां सस्वनं तत्र खेचरः।।

पक्षानिलहतश्चास्य प्राकम्पत स शैलराट्। मुमोच पुष्पवर्षं च समागलितपादप।।

शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः। मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम्।।

शाखिनो बहवश्चापि शाखयाऽभिहतास्तया। काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः।।

ते हेमविकचा भूमौ युताः पर्वतधातुभिः। व्यराजञ्छाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः।।

ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः। भक्षयामास गरुडस्तावुभौ गजकच्छपौ।।

तावुभौ भक्षयित्वा तु स तार्क्ष्यः कूर्मकुञ्जरौ। ततः पर्वतकूटाग्रादुत्पपात महाजवः।।

प्रावर्तन्ताथ देवानामुत्पाता भयशंसिनः। इन्द्रस्य वज्रं दयितं प्रजज्वाल भयात्ततः।।

सधूमा न्यपतत्सार्चिर्दिवोल्का नभसश्च्युता। तथा वसूनां रुद्राणामादित्यानां च सर्वशः।।

साध्यानां मरुतां चैव ये चान्ये देवतागणाः। स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत्।।

अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च। ववुर्वाताः सनिर्घाताः पेतुरुल्काः सहस्रशः।।

निरभ्रमेव चाकाशं प्रजगर्ज महास्वनम्। देवानामपि यो देवः सोऽप्यवर्षत शोणितम्।।

मम्लुर्माल्यानि देवानां नेशुस्तेजांसि चैव हि। उत्पातमेघा रौद्राश्च ववृषुः शोणितं बहु।।

adi-1-30-38__1523 रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन्। ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः। उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम्।।

किमर्थं भगवन्घोरा उत्पाताः सहसोत्थिताः। न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत्।। बृहस्पतिरुवाच।

तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो। तपसा वालखिल्यानां महर्षीणां महात्मनाम्।।

कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः। हर्तुं सोममभिप्राप्तो बलवान्कामरूपधृक्।।

समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः। सर्वं संभावयाम्यस्मिन्नसाध्यमपि साधयेत्।। सौतिरुवाच।

श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः। महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः।।

युष्मान्संबोधयाम्येष `गृहीत्वावरणायुधान्। परिवार्यामृतं सर्वे यूयं मद्वचनादिह।।

रक्षध्वं विबुधा वीरा’ यथा न स हरेद्बलात्। अतुलं हि बलं तस्य बृहस्पतिरुवाच ह।। सौतिरुवाच।

तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः। परिवार्यामृतं तस्थूर्वज्री चेन्द्रः प्रतापवान्।।

धारयन्तो विचित्राणि काञ्चनानि मनस्विनः। कवचानि महार्हाणि वैदूर्यविकृतानि च।।

चर्माण्यपि च गात्रेषु भानुमन्ति दृढानि च। विविधानि च शस्त्राणि घोररूपाण्यनेकशः।।

शिततीक्ष्णाग्रधाराणि समुद्यम्य सुरोत्तमः। सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः।।

adi-1-30-50__1535 चक्राणि परघांश्चैव त्रिशूलानि परश्वधान्। शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान्। स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः।।

तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः। भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः।।

adi-1-30-52__1537 अनुपमबलवीर्यतेजसो धृतमनसः परिरक्षणेऽमृतस्य। असुरपुरविदारणाः सुरा ज्वलनसमिद्धवपुःप्रकाशिनः।।

adi-1-30-53__1538 इति समरवरं सुराः स्थितास्ते परिघसहस्रशतैः समाकुलम्। विगलितमिव चाम्बरान्तरं तपनमरीचिविकाशितं बभासे।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रिंशोऽध्यायः।। 30 ।।

1-30-6 अतिदैवं देवैरपि कर्तुमशक्यम्।। 1-30-7 गुरुशब्दपूर्वाड्डीड््विहायसागतावित्यस्माड्डः आदेरकारश्च पृषोदरादित्वात् गरुडशब्दो निष्पन्न इत्यर्थः।। 1-30-18 शाखां मुक्त्वा गिरिं समभ्ययुरिति संबन्धः।। 1-30-19 शाखया मुखस्थया व्याक्षिप्तं वदनं वचनक्रियायस्य स तथा।। 1-30-23 शतचर्मा शतगोचर्मणा कृता। वध्री रज्जुः। न परिणहेत् परितो न बध्नीयात्।। 1-30-29 विकचाः हेमवदुज्ज्वलाः।। 1-30-33 दिवा अह्नि।। 1-30-36 देवानां देवः पर्जन्यः।। 1-30-42 अन्येषामसाध्यमप्ययं साधयेत्।। 1-30-48 भानुमन्ति दीप्तिमन्ति।। 1-30-50 स्वदेहरूपाणि स्वदेहानुरूपाणि।। 1-30-52 ज्वलनवत्समिद्धैर्दीप्यमानैर्वपुर्भिः प्रकाशिनः।। त्रिंशोऽध्यायः।। 30 ।।

अध्यायः 031

वालखिल्यतपसा गरुडोत्पत्तिकथनपूर्वकं तस्य पक्षीन्द्रत्वेऽभिषेचनम्।। 1 ।।

adi-1-31-0__1539 शौनक उवाच।

कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज। तपसा वालखिल्यानां संभूतो गरुडः कथम्।।

कश्यपस्य द्विजातेश्च कथं वै पक्षिराट् सुतः। अधृष्टः सर्वभूतानामवध्यस्चाभवत्कथम्।।

कथं च कामचारी स कामवीर्यश्च खेचरः। एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते।। सौतिरुवाच।

विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि। शृणु मे वदतः सर्वमेतत्संक्षेपतों द्विज।।

यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः। साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल।।

तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह। मुनयो वालखिल्याश्च ये चान्ये देवतागणाः।।

शक्रस्तु वीर्यसदृशमिध्यभारं गिरिप्रभम्। समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः।।

अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरवर्ष्मणः। पलाशवर्तिकामेकां वहतः संहतान्पथि।।

प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान्। क्लिश्यमानान्मन्दबलान्गोष्पदे संप्लुतोदके।।

तान्सर्वान्विस्मयाविष्टो वीर्योन्मत्तः पुरन्दरः। अपहास्याभ्यगाच्छीघ्रं लम्बयित्वाऽवमन्य च।।

तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः। आरेभिरे महत्कर्म तदा शक्रभयंकरम्।।

जुहुवुस्ते सुतपसो विधिवज्जातवेदसम्। मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु।।

कामवीर्यः कामगमो देवराजभयप्रदः। इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः।।

इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः। तपसो नः फलेनाद्य दारुणः संभवित्विति।।

तद्बुद्ध्वा भृशसंतप्तो देवराजः शतक्रतुः। जगाम शरणं तत्र कश्यपं संशितव्रतम्।।

तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः। वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत।। `कश्यप उवाच।

केन कामेन चारब्धं भवद्भिर्होमकर्म च। याथातथ्येन मे ब्रूत श्रोतुं कौतूहलं हि मे।। adi-1-31-18x__138वालखिल्या ऊचुः।

अवज्ञाताः सुरेन्द्रेण मूढेनाकृतबुद्धिना। ऐश्वर्यमदमत्तेन सदाचारान्निरस्यता।।

adi-1-31-19__1558 तद्विघातार्थमारम्भो विधिवत्तस्य कश्यप।। सौतिरुवाच।’

एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः। तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः।।

अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः। इन्द्रार्थे च भवन्तोऽपि यत्नवन्तस्तपोधनाः।।

न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः। भवतां हि न मिथ्याऽयं संकल्पो वै चिकीर्षितः।।

भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान्। प्रसादः क्रियतामस्य देवराजस्य याचतः।। सौतिरुवाच।

एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः। प्रत्यूचुरभिसंपूज्य मुनिश्रेष्ठं प्रजापतिम्।। adi-1-31-25x__141वालखिल्या ऊचुः।

इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते। अपत्यार्थं समारम्भो भवतश्चायमीप्सितः।।

तदिदं सफलं कर्म त्वयैव प्रतिगृह्यताम्। तथा चैवं विधत्स्वात्र यथा श्रेयोऽनुपश्यसि।। सौतिरुवाच।

एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा। विनता नाम कल्याणी पुत्रकामा यशस्विनी।।

तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः। उपचक्राम भर्तारं तामुवाचाथ कश्यपः।।

आरम्भः सफलो देवि भविता यस्त्वयेप्सितः। जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ।।

तपसा वालखिल्यानां मम संकल्पतस्तथा। भविष्यतो महाभागौ पुत्रौ त्रैलोक्यपूजितौ।।

उवाच चैनां भगवान्कश्यपः पुनरेव ह। धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः।।

एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति। लोकसंभावितो वीरः कामरूपो विहङ्गमः।। सौतिरुवाच।

शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः। त्वत्सहायौ महावीर्यौ भ्रातरौ ते भविष्यतः।।

नैताभ्यां भविता दोषः सकाशात्ते पुरंदर। व्येतु ते शक्र संतापस्त्वमेवेन्द्रो भविष्यसि।।

न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः। न चावमान्या दर्पात्ते वाग्वज्रा भृशकोपनाः।। सौतिरुवाच।

एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम्। विनता चापि सिद्धार्था बभूव मुदिता तथा।।

जनयामास पुत्रौ द्वावरुणं गरुडं तथा। विकलाङ्गोऽरुणस्तत्र भास्करस्य पुरःसरः।।

पतत्त्रीणां च गरुडमिन्द्रत्वेनाभ्यषिञ्चत। तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकत्रिंशोऽध्यायः।। 31 ।।

1-31-8 अङ्गुष्ठोदरप्रमाणं वर्ष्म शरीरं येषां तान्। वर्तिकां यष्टिम्।। 1-31-9 स्वेष्वङ्गेषु प्रलीनानिव अतिकृशानित्यर्थः। क्लिश्यमानान् गोष्पदमात्रेति जले मज्जनेनेत्यर्थः।। 1-31-11 जातमन्यवः दीनाः। मन्युर्दैन्ये क्रतौ क्रुधीति कोशः।। 1-31-14 दारुणः इन्द्रं प्रत्येव।। 1-31-16 कर्मसिद्धिमपृच्छत सिद्ध वः कर्मेत्यपृच्छत्।। 1-31-20 एवमस्तु सिद्धमस्तु।। 1-31-28 पुंसवने ऋतुकाले।। 1-31-32 कारयिष्यति स्वार्थे णिच्।। एकत्रिंशोऽध्यायः।। 31 ।।

अध्यायः 032

देवगरुडयुद्धं तत्र देवानां पराजयः।। 1 ।।

adi-1-32-0__1578 सौतिरुवाच।

adi-1-32-1__1579 `ततस्तस्माद्गिरिवरात्समुदीर्णमहाबलः।’ गरुडः पक्षिराट् तूर्णं संप्राप्तो विबुधान्प्रति।।

तं दृष्ट्वातिबलं चैव प्राकम्पन्त सुरास्ततः। परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्युत।।

तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः। भौमनः सुमहावीर्यः सोमस्य परिरक्षिता।।

स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः। मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि।।

रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः। कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत्।।

तेनावकीर्णा रजसा देवा मोहमुपागमन्। न चैवं ददृशुश्छन्ना रजसाऽमृतरक्षिणः।।

एवं संलोडयामास गरुडस्त्रिदिवालयम्। पक्षतुण्डप्रहारैस्तु देवान्स विददार ह।।

ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत्। विक्षिपेमां रजोवृष्टिं तवेदं कर्म मारुत।। सौतिरुवाच।

अथ वायुरपोवाह तद्रजस्तरसा बली। ततो वितिमिरे जाते देवाः शकुनिमार्दयन्।।

ननादोच्चैः स बलवान्महामेघ इवाम्बरे। वध्यमानः सुरगणैः सर्वभूतानि भीषयन्।।

उत्पपात महावीर्यः पक्षिराट् परवीरहा। समुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम्।।

वर्मिमो विबुधाः सर्वे नानाशस्त्रैरवाकिरन्। पट्टिशैः परिधैः शूलैर्गदाभिश्च सवासवाः।।

क्षुरप्रैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः। नानाशस्त्रविसर्गैस्तैर्वध्यमानः समन्ततः।।

adi-1-32-14__1592 कुर्वन्सुतुमुलं युद्धं पक्षिराण्ण व्यकम्पत। निर्दहन्निव चाकाशे वैनतेयः प्रतापवान्। पक्षाभ्यामुरसा चैव समन्ताद्व्यक्षिपत्सुरान्।।

ते विक्षिप्तास्ततो देवा दुद्रुवुर्गरुडार्दिताः। नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु।।

साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम्। प्रजग्मुः सहिता रुद्राः पतगेन्द्रप्रधर्षिताः।।

दिशं प्रतीचीमादित्या नासत्यावुत्तरां दिशम्। मुहुर्मुहुः प्रेक्षमाणा युध्यमानं महौजसः।।

अश्वक्रन्देन वीरेण रेणुकेन च पक्षिराट्। क्रथनेन च शूरेण तपनेन च खेचरः।।

उलूकश्वसनाभ्यां च निमेषेण च पक्षिराट्। प्ररुजेन च संग्रामं चकार पुलिनेन च।।

तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः। युगान्तकाले संक्रुद्धः पिनाकीव परंतप।।

महाबला महोत्साहास्तेन ते बहुधा क्षताः। रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः।।

तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान्। अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत।।

आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम्। दहन्तमिव तीक्ष्णांशुं चण्डवायुसमीरितम्।।

adi-1-32-24__1602 `नभः स्पृशन्तं ज्वालाभिः सर्वभूतभयंकरम्।’ ततो नवत्या नवतीर्मुखानां कृत्वा महात्मा गरुडस्तरस्वी। नदीः समापीय मुखैस्ततस्तैः सुशीघ्रमागम्य पुनर्जवेन।।

adi-1-32-25__1603 ज्वलन्तमग्निं तममित्रतापनः समास्तरत्पत्ररथो नदीभिः। ततः प्रचक्रे वपुरन्यदल्पं प्रवेष्टुकामोऽग्निमभिप्रशाम्य।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि द्वात्रिंशोऽध्यायः।। 32 ।।

1-32-3 भौमनः विश्वकर्मा।। 1-32-4 विनिहतः मृतकल्पः कृतः।। 1-32-9 अपोवाह अपसारितवान्।। 1-32-24 नवत्याः नवतीः शताधिकाष्टसाहस्रीः।। 1-32-25 समास्तरत् आच्छादितवान् शामितवानित्यर्थः।। द्वात्रिंशोऽध्यायः।। 32 ।।

अध्यायः 033

अमृतसमीपे गरुडस्य गमनम्।। 1 ।। अमृतं गृहीत्वा गच्छतो गरुडस्य विष्णुदर्शनम्।। 2 ।। विष्णुगरुडयोः परस्परं वरदानम्।। 3 ।। गरुडस्य सुपर्णनामप्राप्तिः।। 4 ।।

adi-1-33-0__1604 सौतिरुवाच।

जाम्बूनदमयो भूत्वा मरीचिनिकरोज्ज्वलः। प्रविवेश बलात्पक्षी वारिवेग इवार्णवम्।।

स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके। परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम्।।

ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम्। घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम्।।

तस्यान्तरं स दृष्ट्वै पर्यवर्तत खेचरः। अरान्तरेणाभ्यपतत्संक्षिप्याङ्गं क्षणेन ह।।

अधश्चक्रस्य चैवात्र दीप्तानलसमद्व्युती। विद्युज्जिह्वौ महावीर्यौ दीप्तास्यौ दीप्तलोचनौ।।

चक्षुर्विषौ महाघोरौ नित्यं क्रुद्धौ तरस्विनौ। अमृतस्यैव रक्षार्थं ददर्श भुजगोत्तमौ।।

सदा संरब्धनयनौ सदा चानिमिषेक्षणौ। तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत्।।

`तौ दृष्ट्वा सहसा खेदं जगाम विनतात्मजः। कथमेतौ महावीर्यौ जेतव्यौ हरिभोजिनौ।।

adi-1-33-9__1613 इति संचिन्त्य गरुडस्तयोस्तूर्णं निराकरः।’ तयोश्चक्षूंषि रजसा सुपर्णः सहसाऽऽवृणोत्। ताभ्यामदृष्टरूपोऽसौ सर्वतः समताडयत्।।

तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः। आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः।।

समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली। उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान्।।

अपीत्वैवामृतं पक्षी परिगृह्याशु निःसृतः। आगच्छदपरिश्रान्त आवार्यार्कप्रभां ततः।।

विष्णुना च तदाकाशे वैनतेयः समेयिवान्। तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा।।

तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम्। स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः।।

उवाच चैनं भूयोऽपि नारायणमिदं वचः। अजरश्चामरश्च स्याममृतेन विनाऽप्यहम्।। सौतिरुवाच।

एवमस्त्विति तं विष्णुरुवाच विनतासुतम्। प्रतिगृह्य वनौ तौ च गरुडो विष्णुमब्रवीत्।।

भवतेपि वरं दद्यां वृणोतु भगवानपि। तं वव्रे वाहनं विष्णुर्नरुत्मन्तं महाबलम्।।

ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम्। एवमस्त्विति तं देवमुक्त्वा नारायणं खगः।।

वव्राज तरसा वेगाद्वायुं स्पर्धन्महाजवः। तं व्रजन्तं खगश्रेष्ठं वज्रेणेन्द्रोऽभ्यताडयत्।।

हरन्तममृतं रोषाद्गरुडं पक्षिणां वरम्। तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः।।

प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः। ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसंभवम्।।

वज्रस्य च करिष्यामि तवैव च शतक्रतो। एतत्पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे।।

न च वज्रनिपातेन रुजा मेऽस्तीह काचन। एवमुक्त्वा ततः पुत्रमुत्ससर्ज स पक्षिराट्।।

तदुत्सृष्टमभिप्रेक्ष्य तस्य पर्णमनुत्तमम्। हृष्टानि सर्धभूतानि नाम चक्रुर्गरुत्मतः।।

adi-1-33-25__1629 सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति। तद्दृष्ट्वा महदाश्चर्यं सहस्राक्षः पुरंदरः। खगो महदिदं भूतमिति मत्वाऽभ्यभाषत।।

बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम्। सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीपर्वणि त्रयस्त्रिंशोऽध्यायः।। 33 ।।

1-33-4 संक्षिप्य अणुतरं कृत्वा।। 1-33-10 तयोः अङ्गे देहौ आच्छिनत् खण्डशः कृतवान्।। 1-33-11 यन्त्रमुन्मथ्य अमृतं अमृतकुम्भं समुत्पाठ्य उत्पपातेत्यन्वयः।। 1-33-12 आवार्य वारयित्वा तिरस्कृत्येत्यर्थः।। 1-33-13 अलौल्येन अमृतपानलोभराहित्येन।। 1-33-14 उपरि ध्वजे इत्यर्थः।। 1-33-19 स्पर्धावानिवाचरतीति स्पर्धन्।। 1-33-20 आक्रन्दे कलकले।। 1-33-21 ऋषेः दधीचेः।। त्रयस्त्रिंशोऽध्यायः।। 33 ।।

अध्यायः 034

इन्द्रस्य गरुडसख्यलाभः।। 1 ।। इन्द्राद्गरुडस्य वरलाभः।। 2 ।। विनताया दास्यमोचनम्।। 3 ।। सर्पाणां द्विजिह्वत्वप्राप्तिः।। 4 ।।

adi-1-34-0__1631 सौतिरुवाच।

adi-1-34-1__1632 `इत्येवमुक्तो गरुडः प्रत्युवाच शचीपतिम्’। गरुड उवाच। सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर। बलं तु मम जानीहि महच्चासह्यमेव च।।

कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम्। `अनिमित्तं सुरश्रेष्ठ सद्यः प्राप्नोति गर्हणाम्।।

adi-1-34-3__1634 गुणसंकीर्तनं चापि पृष्टेनान्येन गोपते। वक्तव्यं न तु वक्तव्यं स्वयमेव शतक्रतो।।’

सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया। न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः।।

सपर्वतवनामुर्वीं ससागरजलामिमाम्। वहे पक्षेण वै शक्र त्वामप्यत्रावलम्बिनम्।।

सर्वान्संपिण्डितान्वापि लोकान्सस्थाणुजङ्गमान्। वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम्।। सौतिरुवाच।

इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः। आह शौनक देवेन्द्रः सर्वलोकहितः प्रभुः।।

एवमेव यथात्थ त्वं सर्वं संभाव्यते त्वयि। संगृह्यतामिदानीं मे सख्यमत्यन्तमुत्तमम्।।

न कार्यं यदि सोमेन मम सोमः प्रदीयताम्। अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम्।। गरुड उवाच।

किंचित्कारणमुद्दिश्य सोमोऽयं नीयते मया। न दास्यामि समापातुं सोमं कस्मैचिदप्यहम्।।

यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम्। त्वमादाय ततस्तृर्णं हरेथास्त्रिदिवेश्वर।। शक्र उवाच।

वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज। यमिच्छसि वरं मत्तस्तं गृहाण खगोत्तम।। सौतिरुवाच।

इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन्। भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः।। गरुड उवाच।

ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम्। भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः।। सौतिरुवाच।

तथेत्युक्त्वाऽन्वगच्छत्तं ततो दानवसूदनः। देवदेवं महात्मानं योगिनामीश्वरं हरिम्।।

स चान्वमोदत्तं चार्थं यथोक्तं गरुडेन वै। इदं भूयो वचः प्राह भगवांस्त्रिदशेश्वरः।।

हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम्। आजगाम ततस्तूर्णं सुपर्णी मातुरन्तिकम्।।

`विनयावनतो भूत्वा वचनं चेदमब्रवीत्। इदमानीतममृतं देवानां भवनान्मया।।

adi-1-34-19__1650 प्रशाधि किमितो मातः करिष्यामि शुभव्रते। विनतोवाच। परितुष्टाऽहमेतेन कर्मणा तव पुत्रक।।

adi-1-34-20__1651 अजरश्चाभरश्चैव देवानां सुप्रियो भव। सौतिरुवाच।’ अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत्। गरुड उवाच। इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः।।

स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः। भवद्भिरिदमासीनैर्यदुक्तं तद्वचस्तदा।।

अदासी चैव मातेयमद्यप्रभृति चास्तु मे। यथोक्तं भवतामेतद्वचो मे प्रतिपादितम्।। सौतिरुवाच।

ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत। शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः।।

अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा। स्नाताश्च कुतजप्याश्च प्रहृष्टाः कृतमङ्गलाः।।

adi-1-34-25__1656 `परस्परकृतद्वेषाः सोमप्राशनकर्मणि। अहं पूर्वमहं पूर्वमित्युक्त्वा ते समाद्रवन्।।’

यत्रैतदमृतं चापि स्थापितं कुशसंस्तरे। तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत्।।

सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा। ततो द्विधा कृता जिह्वाः सर्पाणां तेन कर्मणा।।

adi-1-34-28__1659 अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः। `नागाश्च वञ्चिता भूत्वा विसृज्य विनतां ततः। विषादमगमंस्तीव्रं गरुडस्य बलात्प्रभो।।’

एवं तदमृतं तेन हृतमाहृतमेव च। द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना।।

adi-1-34-30__1661 ततः सुपर्णः परमप्रहर्षवा- न्विहृत्य मात्रा सह तत्र कानने। भुजंगभक्षः परमार्चितः खगै- रहीनकीर्तिर्विनतामनन्दयत्।।

adi-1-34-31__1662 इमां कथां यः शृणुयान्नरः सदा पठेत वा द्विजगणमुख्यसंसदि। असंशयं त्रिदिवमियात्स पुण्यभा- ङ्महात्मनः पतगपतेः प्रकीर्तनात्।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुस्त्रिंशोऽध्यायः।। 34 ।।

1-34-6 संपिण्डितान् एकीकृतान्। स्थाणु स्थावरम्।। 1-34-7 किरीटी इन्द्रः।। 1-34-13 उपधिकृतं छलकृतम्।। 1-34-14 ईशः समर्थः। अर्थितां अन्यस्मै अमृतं न देयमित्यर्थेप्सुताम्।। 1-34-17 अनुभाष्य हे गरुडेति संबोध्य।। 1-34-20 इदं वः युष्माकममृतं न तु मम।। 1-34-26 प्रतिमायाकृतं यथा दास्यं मायाकृतं तथा अमृतदानमपि इतरेण कृतमित्यर्थः।। चतुस्त्रिंशोऽध्यायः।। 34 ।।

अध्यायः 035

सर्पनामकथनम्।। 1 ।।

adi-1-35-0__1663 शौनक उवाच।

भुजङ्गमानां शापस्य मात्रा चैव सुतेन च। विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन।।

वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा। नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः।।

पन्नगानां तु नामानि न कीतर्यसि सूतज। प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम्।। सौतिरुवाच।

बहुत्वान्नामधेयानि पन्नगानां तपोधन। न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु।।

शेषः प्रथमतो जातो वासुकिस्तदनन्तरम्। ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ।।

कालियो मणिनागश्च नागश्चापूरणस्तथा। नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः।।

नीलानीलौ तथा नागौ कल्माषशबलौ तथा। आर्यकश्चोग्रकश्चैव नागः कलशपोतकः।।

सुमनाख्यो दधिमुखस्तथा विमलपिण्डकः। आप्तः कोटरकश्चैव शङ्खो वालिशिखस्तथा।।

निष्टानको हेमगुहो नहुषः पिङ्गलस्तथा। बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः।।

कम्बलाश्वतरौ चापि नागः कालीयकस्तथा। वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ।।

नागः शङ्खमुखश्चैव तथा कूष्माण्डकोऽपरः। क्षेमकश्च तथा नागो नागः पिण्डारकस्तथा।।

करवीरः पुष्पदंष्ट्रो बिल्वको बिल्वपाण्डुरः। मूषकादः शङ्खशिराः पूर्णभद्रो हरिद्रकः।।

अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा। कौरव्यो धृतराष्ट्रश्च शङ्खपिण्डश्च वीर्यवान्।।

विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान्। हस्तिपिण्डः पिठरकः सुमुखः कौणपाशनः।।

कुठऱः कुञ्जरश्चैव तथा नागः प्रभाकरः। कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा।।

कर्दमश्च महानागो नागश्च बहुमूलकः। कर्कराकर्करौ नागौ कुण्डोदरमहोदरौ।।

एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम। बहुत्वान्नामधेयानामितरे नानुकीर्तिताः।।

एतेषां प्रसवो यश्च प्रसवस्य च संततिः। असङ्ख्येयेति मत्त्वा तान्न ब्रवीमि तपोधन।।

बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च। अशक्यान्येव सङ्ख्यातुं पन्नगानां तपोधन।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चत्रिंशोऽध्यायः।। 35 ।।

1-35-1 भुजङ्गमानां मात्रा शापो दत्तस्तस्य कारणं अवज्ञया मातुराज्ञाकारित्वं। विनतायाः सुतेन अरुणेन शापो दत्तस्तस्य कारणं सपत्नीर्ष्या।। पञ्चत्रिंशोऽध्यायः।। 35 ।।

अध्यायः 036

शेषस्य ब्रह्मणो वरलाभः पृथ्वीधारणाज्ञा च।। 1 ।।

adi-1-36-0__1683 शौन उवाच।

आख्याता भुजगास्तात वीर्यवन्तो दुरासदाः। शापं तं तेऽभिविज्ञाय कृतवन्तः किमुत्तरम्।। सौतिरुवाच।

तेषां तु भगवाञ्छेषः कद्रूं त्यक्त्वा महायशाः। उग्रं तपः समातस्थे वायुभक्षो यतव्रतः।।

गन्धमादनमासाद्य बदर्यां च तपोरतः। गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे।।

तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च। एकान्तशीलो नियतः सततं विजितेन्द्रियः।।

तप्यमानं तपो घोरं तं ददर्श पितामहः। संशुष्कमांसत्वक्स्नायुं जटाचीरधरं मुनिम्।।

तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः। किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु।।

त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ। ब्रूहि कामं च मे शेष यस्ते हृदि व्यवस्थितः।। शेष उवाच।

सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः। सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम्।।

अभ्यसूयन्ति सततं परस्परममित्रवत्। ततोऽहं तप आतिष्ठे नैतन्पश्येयमित्युत।।

न मर्षयन्ति ससुतां सततं विनतां च ते। अस्माकं चापरो भ्राता वैनतेयोऽन्तरिक्षगः।।

तं च द्विषन्ति सततं स चापि बलवत्तरः। वरप्रदानात्स पितुः कश्यपस्य महात्मनः।।

सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम्। कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह सङ्गमः।।

तमेवं वादिनं शेषं पितामह उवाच ह। जानामि शेष सर्वेषां भ्रातॄणां ते विचेष्टितम्।।

मातुश्चाप्यपराधाद्वै भ्रातॄणां ते महद्भयम्। कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम।।

भ्रातॄणां तव सर्वेषां न शोकं कर्तुमर्हसि। वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम्।।

adi-1-36-16__1699 दास्यामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि। दिष्ट्या बुद्धिश्च ते धर्मे निविष्टा पन्नगोत्तम। भूयो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा।। शेष उवाच।

एष एव वरो देव काङ्क्षितो मे पितामह। धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर।। ब्रह्मोवाच।

प्रीतोऽस्म्यनेन ते शेष दमेन च शमेन च। त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम्।।

adi-1-36-19__1702 इमां महीं शैलवनोपपन्नां ससागरग्रामविहारपत्तनाम् त्वं शेष सम्यक् चलितां यथाव- त्संगृह्य तिष्ठस्व यथाऽचला स्यात्।। शेष उवाच।

adi-1-36-20__1703 यथाऽऽह देवो वरदः प्रजापति- र्महीपतिर्भूतपतिर्जगत्पतिः। तथा महीं धारयिताऽस्मि निश्चलां प्रयच्छतां मे विवरं प्रजापते।। ब्रह्मोवाच।

adi-1-36-21__1704 अधो महीं गच्छ भुजङ्गमोत्तम स्वयं तवैषा विवरं प्रदास्यति। इमां धरां धारयता त्वया हि मे महत्प्रियं शेष कृतं भविष्यति।। सौतिरुवाच।

adi-1-36-22__1705 तथैव कृत्वा विवरं प्रविश्य स प्रभुर्भुवो भुजगवराग्रजः स्थितः। बिभर्ति देवीं शिरसा महीमिमां समुद्रनेमिं परिगृह्य सर्वतः।। ब्रह्मोवाच।

adi-1-36-23__1706 शेषोऽसि नागोत्तम धर्मदेवो महीमिमां धारयसे यदेकः। अनन्तभोगैः परिगृह्य सर्वां यथाहमेवं बलभिद्यथा वा।। सौतिरुवाच।

अधो भूमौ वसत्येवं नागोऽनन्तः प्रतापवान्। धास्यन्वसुधामेकः शासनाद्ब्रह्मणो विभोः।।

सुपर्णं च सहायं वै भगवानमरोत्तमः। प्रादादनन्ताय तदा वैनतेयं पितामहः।।

adi-1-36-26__1709 `अनन्तेऽभिप्रयाते तु वासुकिः स महाबलः। अभ्यषिच्यत नागैस्तु दैवतैरिव वासवः।।’ ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि षट्त्रिंशोऽध्यायः।। 37 ।।

1-36-1 उत्तरं अनन्तरम्।। 1-36-23 अनन्तभोगैः अनन्तफणाभिः।। षट्त्रिंशोऽध्यायः।। 36 ।।

अध्यायः 037

मातृशापपरिहारार्थं सर्पाणां मन्त्रालोचनम्।। 1 ।।

adi-1-37-0__1710 सौतिरुवाच।

मातुः सकाशात्तं शापं श्रुत्वा वै पन्नगोत्तमः। वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम्।।

ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः। ऐरावतप्रभृतिभिः सर्वैर्धर्मपरायणैः।। वासुकिरुवाच।

अयं शापो यथोद्दिष्टो विदितं वस्तथाऽनघाः। तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे।।

सर्वेषामेव शापानां प्रतिघातो हि विद्यते। न तु मात्राऽभिशप्तानां मोक्षः क्वचन विद्यते।।

अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः। शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः।।

adi-1-37-6__1716 नूनं सर्वविनाशोऽयमस्माकं समुपागतः। `शापः सृष्टो महाघोरो मात्रा खल्वविनीतया। न ह्येतां सोऽव्ययो देवः शपत्नीं प्रत्यषेधयत्।।

तस्मात्संमन्त्रयामोऽद्य भुजङ्गानामनामयम्। यथा भवेद्धि सर्वेषां मा नः कालोऽत्यगादयम्।।

सर्व एव हि नस्तावद्बुद्धिमन्तो विचक्षणाः। अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे।।

adi-1-37-9__1719 यथा नष्टं पुरा देवा गूढमग्निं गुहागतम्। यथा स यज्ञो न भवेद्यथा वाऽपि पराभवः। जनमेजयस्य सर्पाणां विनाशकरणाय वै।। सौतिरुवाच।

तथेत्युक्त्वा ततः सर्वे काद्रवेयाः समागताः। समयं चकिरे तत्र मन्त्रबुद्धिविशारदाः।।

एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः। जनमेजयं तु भिक्षामो यज्ञस्ते न भवेदिति।।

अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः। मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः।।

स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम्। तत्र बुद्धिं प्रदास्यामो यथा यज्ञो निवर्त्स्यति।।

स नो बहुमतान्राजा बुद्ध्या बुद्धिमतां वरः। यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम्।।

दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान्। हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः।।

अथवा य उपाध्यायः क्रतोस्तस्य भविष्यति। सर्पसत्रविधानज्ञो राजकार्यहिते रतः।।

तं गत्वा दशतां कश्चिद्भुजङ्गः स मरिष्यति। तस्मिन्मृते यज्ञकारे क्रतुः स न भविष्यति।।

ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य चर्त्विजः। तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति।।

अपरे त्वब्रुवन्नागा धर्मात्मानो दयालवः। अबुद्धिरेषा भवतां ब्रह्महत्या न शोभनम्।।

सम्यक्सद्धर्ममूला वै व्यसने शान्तिरुत्तमा। अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत्।।

अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम्। वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः।।

स्रुग्भाण्डं निशि गत्वा च अपरे भुजगोत्तमाः। प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति।।

यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः। जनान्दशन्तु वै सर्वे नैवं त्रासो भविष्यति।।

अथवा संस्कृतं भोज्यं दूषयन्तु भुजङ्गमाः। स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना।।

अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे। यज्ञविघ्नं करिष्यामो दक्षिणा दीयतामिति।।

वश्यतां च गतोऽसौ नः करिष्यति यथेप्सितम्। अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम्।।

गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः। अपरे त्वब्रुवंस्तत्र नागाः पण्डितमानिनः।।

दशामस्तं प्रगृह्याशु कृतपेवं भविष्यति। छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति।।

एषा नो नैष्ठिकी बुद्धिः सर्वेषामीक्षणश्रवः। अथ यन्मन्यसे राजन्द्रुतं तत्संविधीयताम्।।

इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगोत्तमम्। वासुकिश्चापि संचिन्त्य तानुवाच भुजङ्गमान्।।

नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजङ्गमाः। सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते।।

किं तत्र संविधातव्यं भवतां स्याद्धितं तु यत्। श्रेयः प्रसादनं मन्ये कश्यपश्य महात्मनः।।

ज्ञातिवर्गस्य सौहार्दादात्मनश्च भुजङ्गमाः। न च जानाति मे बुद्धिः किंचित्कर्तुं वचो हिवः।।

मया हीदं विधातव्यं भवतां यद्धितं भवेत्। अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सप्तत्रिंशोऽध्यायः।। 37 ।।

1-37-5 सत्यस्य सत्यलोकाधिपतेर्ब्रह्मणः।। 1-37-10 मन्त्रबुद्धिविशारदाः नीतिनिश्चयनिपुणाः।। 1-37-13 निवर्त्स्यति निवृत्तो भविष्यति।। 1-37-18 कृतं प्रतिकृतम्।। 1-37-20 व्यसने आपदि शान्तिः आपन्नाशः। सद्धर्ममूला सतां धर्मो देवब्राह्मणप्रार्थना तन्मूला।। 1-37-29 नैष्ठिकी आत्यन्तिकी। ईक्षणमेव श्रवः श्रोत्रं यस्य स तथाभूत हे वासुके।। 1-37-31 ज्ञातिरक्षानाशनिमित्तौ गुणदोषौ मदाश्रयौ ज्येष्ठत्वान्ममेत्यर्थः।। सप्तत्रिंशोऽध्यायः।। 37 ।।

अध्यायः 038

एलापत्रभाषणम्।। 1 ।। देवब्रह्मसंवादमुखेनास्तीकोत्पत्तिकथनम्।। 2 ।।

adi-1-38-0__1745 सौतिरुवाच।

सर्पाणां तु वचः श्रुत्वा सर्वेषामिति चेति च। वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम्।।

`प्रागेव दर्शिता बुद्धिर्मयैषा भुजगोत्तमाः। हेयेति यदि वो बुद्धिस्तवापि च तथा प्रभो।।

adi-1-38-3__1748 अस्तु कामं मभाद्यापि बुद्धिः स्मरणमागता। तां शृणुध्वं प्रवक्ष्यामि याथातथ्येन पन्नगाः।।’

न स यज्ञो न भविता न स राजा तथाविधः। जनमेजयः पाण्डवेयो यतोऽस्माकं महद्भयम्।।

दैवेनोपहतो राजन्यो भवेदिह पूरुषः। स दैवमेवाश्रयेत नान्यत्तत्र परायणम्।।

तदिदं चैवमस्माकं भयं पन्नगसत्तमाः। दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम।।

adi-1-38-7__1752 अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा। मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः। देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्ण इति प्रभो।।

adi-1-38-8__1753 `शापदुःखाग्नितप्तानां पन्नगानामनामयम्। कृपया परयाऽऽविष्टाः प्रार्थयन्तो दिवौकसः।।’ adi-1-38-9x__177देवा ऊचुः।

का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह। ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः।।

तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह। इच्छाम एतद्विज्ञातुं कारणं यन्न वारिता।। ब्रह्मोवाच।

बहवः पन्नगास्तीक्ष्णा घोररूपा विषोल्बणाः। प्रजानां हितकामोऽहं न च वारितवांस्तदा।।

ये दन्दशूकाः क्षुद्राश्च पापाचारा विषोल्बणाः। तेषां विनाशो भविता न तु ये धर्मचारिणः।।

यन्निमित्तं च भविता मोक्षस्तेषां महाभयात्। पन्नगानां निबोधध्वं तस्मिन्काले समागते।।

यायावरकुले धीमान्भविष्यति महानृषिः। जरत्कारुरिति ख्यातस्तपस्वी नियतेन्द्रियः।।

adi-1-38-15__1760 तस्य पुत्रो जरत्कारोर्भविष्यति तपोधनः। आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा। तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः।। adi-1-38-16x__179देवा ऊचुः।

स मुनिप्रवरो ब्रह्मञ्जरत्कारुर्महातपाः। कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान्।। ब्रह्मोवाच।

`वासुकेर्भगिनी कन्या समुत्पन्ना सुशोभना। तस्मै दास्यति तां कन्यां वासुकिर्भुजगोत्तमः।।

adi-1-38-18__1763 तस्यां जनयिता पुत्रं वेदवेदाङ्गपारगम्।’ सनामायां सनामा स कन्यायां द्विजसत्तमः।। एलापत्र उवाच।

एवमस्त्विति तं देवाः पितामहमथाब्रुवन्। उत्क्वैवं वचनं देवान्विरिञ्चिस्त्रिदिवं ययौ।।

सोऽहमेवं प्रपश्यामि वासुके भगिनी तव। जरत्कारुरिति ख्याता तां तस्मै प्रतिपादय।।

भैक्षवद्भिक्षमाणाय नागानां भयशान्तये। ऋषये सुव्रतायैनामेष मोक्षः श्रुतो मया।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि अष्टत्रिंशोऽध्यायः।। 38 ।।

1-38-1 इतिचेतिचेति तत्तद्वचनाभिनयप्रदर्शनम्।। 1-38-4 न भवितेति न भवितैवेत्यर्थः। न तथाविधः यस्य राष्ट्रमृत्विजः स्वरूप वा द्रष्टुं शक्यं तादृशो न भवति मन्त्रवीर्यसंपन्नत्वात्।। 1-38-7 तीक्ष्णास्तीक्ष्णाः अत्यन्तं तीक्ष्णाः स्त्रिय इति शेषः।। 1-38-12 दन्दशूकाः दंशनशीलाः। क्षुद्राः अल्पेपि निमित्ते प्राणग्राहकाः।। अष्टत्रिंशोऽध्यायः।। 38 ।।

अध्यायः 039

एलापत्रोपदेशेन वासुकिभगिन्या जरत्कार्वा रक्षणम्।। 1 ।।

adi-1-39-0__1767 सौतिरुवाच।

एलापत्रवचः श्रुत्वा ते नागा द्विजसत्तम। सर्वे प्रहृष्टमनसः साधुसाध्वित्यपूजयन्।।

ततःप्रभृति तां कन्यां वासुकिः पर्यरक्षत। जरत्कारुं स्वसारं वै परं हर्षमवाप च।।

ततो नातिमहान्कालः समतीत इवाभवत्। अथ देवासुराः `सर्वे ममन्थुर्वरुणालयम्।।

तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः। समाप्यैव च तत्कर्म पितामहमुपागमन्।।

देवा वासुकिना सार्धं पितामहमथाव्रुवन्। भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम्।।

अस्यैतन्मानसं शल्यं समुद्धर्तुं त्वमर्हसि। जनन्याः शापजं देव ज्ञातीनां हितमिच्छतः।।

हितो ह्ययं सदास्मकं प्रियकारी च नागराट्। प्रसादं कुरु देवेश शमयास्य मनोज्वरम्।। ब्रह्मोवाच।

मयैव तद्वितीर्णं वै वचनं मनसाऽमराः। एलापत्रेण नागेन यदस्याभिहितं पुरा।।

तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचः स्वयम्। विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः।।

उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः। तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु।।

एलापत्रेण यत्प्रोक्तं वचनं भुजगेन ह। पन्नगानां हितं देवास्तत्तथा न तदन्यथा।। सौतिरुवाच।

एतच्छ्रुत्वा तु नागेन्द्रः पितामहवचस्तदा। संदिश्य पन्नगान्सर्वान्वासुकिः शापमोहितः।।

स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति। सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत्।।

जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः। शीघ्रमेत्य तदाऽऽख्येयं तन्नः श्रेयो भविष्यति।। ।।

इति श्रीमनमहाभारते आदिपर्वणि आस्तीकपर्वणि एकोनचत्वारिंशोऽध्यायः।। 39 ।।

1-39-4 नेत्रं रज्जुः।। 1-39-13 जरत्कारौ जरत्कारुऋषिनिमित्तं। तदन्वेषणायेत्यर्थः।। एकोनचत्वारिंशोऽध्यायः।। 39 ।।

अध्यायः 040

जरत्कारुनामव्युत्पत्तिकथनम्।। 1 ।। शौनकस्य सौतिं प्रति आस्तीकोत्पत्तिप्रश्नः।। 2 ।। प्रसङ्गेन परीक्षिन्मृगयाकथनम्।। 3 ।। परीक्षिता शमीकस्कन्धे मृतसर्पनिधानम्।। 4 ।।

adi-1-40-0__1782 शौनक उवाच।

जरत्कारुरिति ख्यातो यस्त्वया सूतनन्दन। इच्छामि तदहं श्रोतुं ऋषेस्तस्य महात्मनः।।

किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि। जरत्कारुनिरुक्तिं त्वं यथावद्वक्तुमर्हसि।। सौतिरुवाच।

जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम्। शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैःशनैः।।

क्षपयामास तीव्रेण तपसेत्यत उच्यते। जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा।।

एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा। उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन्।। शौनक उवाच।

adi-1-40-6__1788 उक्तं नाम यथा पूर्वं सर्वं तच्छ्रुतवानहम्। यथा तु जातो ह्यास्तीक एतदिच्छामि वेदितुम्। तच्छ्रुत्वा वचनं तस्य सौतिः प्रोवाच शास्त्रतः।। सौतिरुवाच।

संदिश्य पन्नगान्सर्वान्वासुकिः सुसमाहितः। स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति।।

अथ कालस्य महतः स मुनिः संशितव्रतः। तपस्यभिरतो धीमान्स दारान्नाभ्यकाङ्क्षत।।

adi-1-40-9__1791 स तूर्ध्वरेतास्तपसि प्रसक्तः स्वाध्यायवान्वीतभयः कृतात्मा। चचार सर्वां पृथिवीं महात्मा न चापि दारान्मनसाध्यकाङ्क्षत्।।

ततोऽपरस्मिन्संप्राप्ते काले कस्मिंश्चिदेव तु। परिक्षिन्नाम राजासीद्ब्रह्मन्कौरववंशजः।।

यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि। बभूव मृगयाशीलः पुरास्य प्रपितामहः।।

adi-1-40-12__1794 `तथा विख्यातवाँल्लोके परीक्षिदभिमन्युजः।’ मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा। अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः।।

स कदाचिन्मृगं विद्ध्वा बाणेनानतपर्वणा। पृष्ठतो धनुरादाय ससार गहने वने।।

यथैव भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि। अन्वगच्छद्धनुष्पाणिः पर्यन्वेष्टुमितस्ततः।।

न हि तेन मृगो विद्धो जीवन्गच्छति वै वने। पूर्वरूपं तु तत्तूर्णं तस्यासीत्स्वर्गतिं प्रति।।

परिक्षितो नरेन्द्रस्य विद्धो यन्नष्टवान्मृगः। दूरं चापहृतस्तेन मृगेण स महीपतिः।।

परिश्रान्तः पिपासार्त आससाद मुनिं वने। गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम्।।

भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः। तमभिद्रुत्य वेगेन स राजा संशितव्रतम्।।

अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः। भोभो ब्रह्मन्नहं राजा परीक्षिदभिमन्युजः।।

मया विद्धो मृगो नष्टः कच्चित्तं दृष्टवानसि। स मुनिस्तं तु नोवाच किंचिन्मौनव्रते स्थितः।।

तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत्। समुत्क्षिप्य धनुष्कोट्या स चैनं समुपैक्षत।।

adi-1-40-22__1804 न स किंचिदुवाचैनं शुभं वा यदि वाऽशुभम्। स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम्। दृष्ट्वा जगाम नगरमृषिस्त्वासीत्तथैव सः।।

न हि तं राजशार्दूलं क्षमाशीलो महामुनिः। स्वधर्मनिरतं भूपं समाक्षिप्तोऽप्यधर्षयत्।।

न हि तं राजशार्दूलस्तथा धर्मपरायणम्। जानाति भरतश्रेष्ठस्तत एनमधर्षयत्।।

तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः। शृङ्गी नाम महाक्रोधो दुष्पसादोमहाव्रतः।।

स देवं परमासीनं सर्वभूतहिते रतम्। ब्रह्माणमुपतस्थे वै काले काले सुंसयतः।।

सतेन समनुज्ञातो ब्रह्मणा गृहमेयिवान्। सख्योक्तः क्रीडमानेन स तत्र हसता किल।।

adi-1-40-28__1810 संरम्भात्कोपनोऽतीव विषकल्पो मुनेः सुतः। उद्दिश्य पितरं तस्य यच्छ्रुत्वा रोषमाहरत्। ऋषिपुत्रेण नर्मार्थे कृशेन द्विजसत्तम।। कृश उवाच।

तेजस्विनस्तव पिता तथैव च तपस्विनः। शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव।।

व्याहरत्स्वृषिपुत्रेषु मा स्म किंचिद्वचो वद। अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु।।

क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः। दर्पजाः पितरं द्रष्टा यस्त्वं शवधरं तथा।।

पित्रा च तव तत्कर्म नानुरूपमिवात्मनः। कृतं मुनिजनश्रेष्ठ येनाहं भृशदुःखितः।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चत्वारिंशोऽध्यायः।। 40 ।।

1-40-3 कारु कामाद्युपद्रवमूलत्वाद्दारुणं शरीरं जरयति क्षपयतीति जरत्कारुरिति निर्वचनम्।। 1-40-4 तथा तादृस्येव।। 1-40-5 प्राहसत् अतिजीर्णयोरपि ब्रह्मचर्यविनाशः प्रसक्त इत्याश्चर्यं मत्वेति भावः। आमन्त्र्य हेउग्रश्रव इति संबोध्य। उपपन्नं युक्तं यत्तुल्यवयोरूपयोर्विवाह इति भावः।। 1-40-15 तत् मृगस्यादर्शनं। पूर्वरूपं कारणम्।। 1-40-17 प्रचारेषु गोष्ठेषु।। 1-40-18 उपयुञ्जानं भक्षयन्तम्। पयः आपिबतां वत्सानामिति पूर्वेणान्वयः।। 1-40-21 समासजत् आरोपयामास।। चत्वारिंशोऽध्यायः।। 40 ।।

अध्यायः 041

मुनिपुत्राच्छृङ्गिणः परीक्षितः शापः।। 1 ।।

adi-1-41-0__1815 सौतिरुवाच।

एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः। मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना।।

स त कृशमक्षिप्रेक्ष्य सूनृतां वाचमुत्सृजन्। अपृच्छत्तं कथं तातः `सर्वभूतहिते रतः।।

adi-1-41-3__1818 अनन्यचेताः सततं विष्णुं दवेमतोषयत्। वन्यान्नभोजी सततं मुनिर्मौनव्रते स्थितः। एवंभूतः स तेजस्वी’ स मेऽद्य मृतधारकः।। कृश उवाच।

राज्ञा परिक्षिता तात मृगयां परिधावता। अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः।। शृङ्ग्युवाच।

किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः। ब्रूहि तत्कृश तत्त्वेन पश्य मे तपसो बलम्।। कृश उवाच।

स राजा मृगयां यातः परिक्षिदभिमन्युजः। ससार मृगमेकाकी विद्ध्वा बाणेन शीघ्रगम्।।

न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने। पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम्।।

तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः। पुनःपुनर्मृगं नष्टं प्रपच्छ पितरं तव।।

स च मौनव्रतोपेतो नैव तं प्रत्यभाषत। तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासजत्।।

शृङ्गिंस्तव पिता सोऽपि तथैवास्ते यतव्रतः। सोऽपि राजा स्वनगरं प्रस्थितो गजसाह्वयम्।। सौतिरुवाच।

श्रुत्वैवमृषिपुत्रस्तु शवं स्कन्धे प्रतिष्ठितम्। कोपसंरक्तनयनः प्रज्वलन्निव मन्युना।।

आविष्टः स हि कोपेन शशाप नृपतिं तदा। वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः।। शृङ्ग्युवाच।

योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य ह। स्कन्धे मृतं समास्राक्षीत्पन्नगं राजकिल्विषी।।

तं पापमतिसंक्रुद्धस्तक्षकः पन्नगेश्वरः। आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः।।

सप्तरात्रादितो नेता यमस्य सदनं प्रति। द्विजानामवमन्तारं कुरूणामयशस्करम्।। सौतिरुवाच।

इति शप्त्वातिसंक्रुद्धः शृङ्गी पितरमभ्यगात्। आसीनं ग्रोव्रजे तस्मिन्वहन्तं शवपन्नगम्।।

स तमलक्ष्य पितरं शृङ्गी स्कन्धगतेन वै। शवेन भुजगेनासीद्भूयः क्रोधसमाकुलः।।

दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत्। श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना।।

adi-1-41-19__1834 राज्ञा परिक्षिता कोपादशपं तमहं नृपम्। यथार्हति स एवोग्रं शापं कुरुकुलाधमः। सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः।।

adi-1-41-20__1835 वैवस्वतस्य सदनं नेता परमदारुणम्। सौतिरुवाच। तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम्।। शमीक उवाच।

न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम्। वयं तस्य नरेन्द्रस्य विषये निवसामहे।।

न्यायतो रक्षितास्तेन तस्य पापं न रोचये। सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा।।

क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः। यदि राजा न संरक्षेत्पीडा नः परमा भवेत्।।

न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम्। रक्षमाणा वयं तात राजभिर्धर्मदृष्टिभिः।।

चरामो विपुलं धर्मं तेषां भागोऽस्ति धर्मतः। सर्वथा वर्तमानस्य राज्ञः क्षन्तव्यमेव हि।।

परिक्षित्तु विशेषेण यथाऽस्य प्रपितामहः। रक्षत्यस्मांस्तथा राज्ञा रक्षितव्याः प्रजा विभो।।

अराजके जनपदे दोषा जायन्ति वै सदा। उद्वृत्तं सततं लोकं राजा दण्डेन शास्ति वै।।

दण्डात्प्रतिभयं भूयः शान्तिरुत्पद्यते तदा। नोद्विग्नश्चरते धर्मं नोद्विग्नश्चरते क्रियाम्।।

राज्ञा प्रतिष्ठितो धर्मो धर्मात्स्वर्गः प्रतिष्ठितः। राज्ञो यज्ञक्रियाः सर्वा यज्ञाद्देवाः प्रतिष्ठिताः।।

देवाद्वृष्टिः प्रवर्तेत वृष्टेरोषधयः स्मृताः। ओषधिभ्यो मनुष्याणां धारयन्सततं हितम्।।

मनुष्याणां च यो धाता राजा राज्यकरः पुनः। दशश्रोत्रियसमो राजा इत्येवं मनुरब्रवीत्।।

तेनेह क्षुधितेनैत्य श्रान्तेन मृगलिप्सुना। अजानता कृतं मन्ये व्रतमेतदिदं मम।।

कस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम्। न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकचत्वारिंशोऽध्यायः।। 41 ।।

1-41-10 गजसाह्वयं हस्तिनपुरम्।। 1-41-13 कृच्छ्रगतस्य मौनव्रतधरस्य। राजा चासौ किल्बिषी च राजकिल्बिषी।। 1-41-21 विषये देशे।। 1-41-22 पापं द्रोहम्।। 1-41-27 दोषाः दस्युपीडादयः।। 1-41-30 मनुष्याणां हितं धारयन् कुर्वन्।। 1-41-31 धाता पोषकः।। 1-41-32 व्रतमजानतेति संबन्धः।। एकचत्वारिंशोऽध्यायः।। 41 ।।

अध्यायः 042

शृङ्गिशमीकसवादः।। 1 ।। शमीकप्रेषितेन गौरमुखाख्यशिष्येण सह परिक्षित्संवादः।। 2 ।। मन्त्रिभिः सह राज्ञं विचारः।। 3 ।। तक्षककाश्यपसंवादः।। 4 ।।

adi-1-42-0__1849 शृङ्ग्युवाच।

यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम्। प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा भवेत्।।

नैवान्यथेदं भविता पितरेष ब्रवीमि ते। नाहं मृषा ब्रवीम्येवं स्वैरेष्वपि कुतः शपन्।। शमीक उवाच।

जानाम्युग्रप्रभावं त्वां तात सत्यगिरं तथा। नानृतं चोक्तपूर्वं ते नैतन्मिथ्या भविष्यति।।

पित्रा पुत्रो वयस्थोऽपि सततं वाच्य एव तु। यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः।।

किं पुनर्बाल एव त्वं तपसा भावितः सदा। वर्धते चेत्प्रभवतां कोपोऽतीव महात्मनाम्।।

adi-1-42-6__1855 `उत्सीदेयुरिमे लोकाः क्षणा चास्य प्रतिक्रिया।’ सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर। पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम्।।

स त्वं शमपरो भूत्वा वन्यमाहारमाचरन्। चर क्रोधमिमं हित्वा नैवं धर्मं प्रहास्यसि।।

क्रोधो हि धर्मं हरति यतीनां दुःखसंचितम्। ततो धर्मविहीनानां गतिरिष्टा न विद्यते।।

शम एव यतीनां हि क्षमिणां सिद्धिकारकः। क्षमावतामयं लोकः परश्चैव क्षमावताम्।।

तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः। क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान्।।

मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै। तत्करिष्याम्यहं तात प्रेपयिष्ये नृपाय वै।।

मम पुत्रेण शप्तोऽसि बालेनाकृतबुद्धिना। ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा।। सौतिरुवाच।

एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः। परिक्षिते नृपतये दयापन्नो महातपाः।।

संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च। शिष्यं गौरमुखं नाम शीलवन्तं समाहितम्।।

सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम्। विवेश भवनं राज्ञः पूर्वं द्वास्थैर्निवेदितः।।

पूजितस्तु नरेन्द्रेण द्विजो गौरमुखस्तदा। आचख्यौ च परिश्रान्तो राज्ञः सर्वमशेषतः।।

शमीकवचनं घोरं यथोक्तं मन्त्रिसन्निधौ। शमीको नाम राजेन्द्र वर्तते विषये तव।।

ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः। तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः।।

अवसक्तो धनुष्कोट्या स्कन्धे मौनान्वितस्य च। क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे।।

तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै। तक्षकः सप्तरात्रेण मृत्युस्तव भविष्यति।।

तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत्। तदन्यथा न शक्यं च कर्तुं केनचिदप्युत।।

न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम्। ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना।। सातिरुवाच।

इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः। पर्यतप्यत तत्पापं कृत्वा राजा महातपाः।।

तं च मौनव्रतं श्रुत्वा वने मुनिवरं तदा। भूय एवाभवद्राजा शोकसंतप्तमानसः।।

अनुक्रोशात्मतां तस्य शमीकस्यावधार्य च। पर्यतप्यत भूयोपि कृत्वा तत्किल्बिषं मुनेः।।

न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत। अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत्।।

ततस्तं प्रेषयामास राजा गौरमुखं तदा। भूयः प्रसादं भगवान्करोत्विह ममेति वै।।

adi-1-42-28__1877 `श्रुत्वा तु वचनं राज्ञो मुनिर्गौरमुखस्तदा। समनुज्ञाप्य वेगेन प्रजगामाश्रमं गुरोः।।’

तस्मिंश्च गतमात्रेऽथ राजा गौरमुखे तदा। मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः।।

संमन्त्र्य मन्त्रिभिश्चैव स तथा मन्त्रतत्त्ववित्। प्रासादं कारयामास एकस्तम्भं सुरक्षितम्।।

रक्षां च विदधे तत्र भिषजश्चौषधानि च। ब्राह्मणान्मन्त्रसिद्धांश्च सर्वतो वै न्ययोजयत्।।

राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः। मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः।।

न चैनं कश्चिदारूढं लभते राजसत्तमम्। वातोऽपि निश्चरंस्तत्र प्रवेशे विनिवार्यते।।

प्राप्ते च दिवसे तस्मिन्सप्तमे द्विजसत्तमः। काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम्।।

श्रुतं हि तेन तदभूद्यथा तं राजसत्तमम्। तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम्।।

तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम्। तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन्।।

तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि। गच्छन्तमेकमनसं द्विजो भूत्वा वयोऽतिगः।।

तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुंगवम्। क्व भवांस्त्वरितो याति किंच कार्यं चिकीर्षति।। काश्यप उवाच।

नृपं कुरुकुलोत्पन्नं परिक्षितमरिंदमम्। तक्षकः पन्नगश्रेष्ठस्तेजसाऽध्य प्रधक्ष्यति।।

adi-1-42-40__1889 तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसम्। पाण्डवानां कुलकरं राजानममितौजसम्। 1-42-4oc गच्छामित्वरितं सौम्य सद्यः कर्तुमपज्वरम्।।

adi-1-42-41__1890 `विज्ञातविषविद्योऽहं ब्राह्मणो लोकपूजितः। अस्मद्गुरुकटाक्षेण कल्योऽहं विषनाशने।।’ तक्षक उवाच।

अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम्। निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम्।। काश्यप उवाच।

अहं तं नृपतिं गत्वा त्वया दष्टमपज्वरम्। करिष्यामीति मे बुद्धिर्विद्याबलसमन्विता।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि द्विचत्वारिंशोऽध्यायः।। 42 ।।

1-42-2 स्वैरेष्वपि परिहासादिष्वपि।। 1-42-4 वयस्थोऽपि प्रौढोपि। वाच्यः शास्यः।। 1-42-5 प्रभवतां योगैश्वर्यवताम्।। 1-42-8 यतीनां आमुष्मिकहितार्थं यतमानानाम्।। 1-42-10 समनन्तरान् प्रत्यासन्नान्।। 1-42-11 संदेशहरमिति शेषः।। 1-42-19 न चक्षमे न क्षान्तवान्।। 1-42-23 पापं कृत्वैव पर्यतप्यत नतु मृत्युं श्रुत्वा।। 1-42-33 आरूढं प्रासादारूढम्।। 1-42-43 नृपतिं गत्वा नृपतिं नागेति पाठान्तरम्।। द्विचत्वारिंशोऽध्यायः।। 42 ।।

अध्यायः 043

स्वदष्टन्यग्रोधोज्जीवनेन परीक्षितस्य काश्यपस्य धनं दत्वा तक्षकेण कृतं परावर्तनं परीक्षिद्दंशश्च।। 1 ।।

adi-1-43-0__1893 तक्षक उवाच।

यदि दष्टं मयेह त्वं शक्तः किंचिच्चिकित्सितुम्। ततो वृक्षं मया दष्टमिमं जीवय काश्यप।।

परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च। न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम।। काश्यप उवाच।

adi-1-43-3__1896 दश नागेन्द्र वृक्षं त्वं यद्येतदभिमन्यसे। अहमेनं त्वया दष्टं जीवयिष्ये भुजंगम। `पश्य मन्त्रबलं मेऽद्य न्यग्रोधं दश पन्नग।।’ सौतिरुवाच।

एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना। अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः।।

स वृक्षस्तेन दष्टस्तु पन्नगेन महात्मना। आशीविषविषोपेतः प्रजज्वाल समन्ततः।।

तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत्। कुरु यत्नं द्विजश्रेष्ठ जीवयैव वनस्पतिम्।। सौतिरुवाच।

भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा। भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत्।।

विद्याबलं पन्नगेन्द्र पश्य मेऽद्य वनस्पतौ। अहं संजीवयाम्येनं पश्यतस्ते भुजंगम।।

ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः। भस्मराशीकृतं वृक्षं विद्यया समजीवयत्।।

अङ्कुरं कृतवांस्तत्र ततः पर्णद्वयान्वितम्। पलाशिनं शाखिनं च तथा विटपिनं पुनः।।

तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना। उवाच तक्षको ब्रह्मन्नैतदत्यद्भुतं त्वयि।।

द्विजेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा। कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन।।

यत्तेऽभिलषितं प्राप्तं फलं तस्मान्नृपोत्तमात्। अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम्।।

विप्रशापाभिभूते च क्षीणायुषि नराधिपे। घटमानस्य ते विप्र सिद्धिः संशयिता भवेत्।।

ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम्। निरंशुरिव घर्मांशुरन्तर्धानमितो व्रजेत्।। काश्यप उवाच।

धनार्थी याम्यहं तत्र तन्मे देहि भुजंगम। ततोऽहं विनिवर्तिष्ये स्वापतेयं प्रगृह्य वै।। तक्षक उवाच।

यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम्। अहमेव प्रदास्यामि निवर्तस्व द्विजोत्तम।। सौतिरुवाच।

तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः। प्रदध्यौ सुमहातेजाराजानं प्रति बुद्धिमान्।।

दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा। क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः।।

लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम्। निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि।।

जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम्। अथ शुश्राव गच्छन्स तक्षको जगतीपतिम्।।

adi-1-43-22__1915 मन्त्रैर्विषहरैर्दिव्यै रक्ष्यमाणं प्रयत्नतः। सौतिरुवाच। स चिन्तयामास तदा मायायोगेन पार्थिवः।।

मया वञ्चयितव्योऽसौ क उपायो भवेदिति। ततस्तापसरूपेण प्राहिणोत्स भुजंगमान्।।

adi-1-43-24__1917 फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः। तक्षक उवाच। गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया।।

adi-1-43-25__1918 फलपत्रोदकं नागाः प्रतिग्राहयितुं नृपम्। सौतिरुवाच। ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः।।

उपनिन्युस्तथा राज्ञे दर्भानम्भः फलानि च। तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान्।।

कृत्वा तेषां च कार्याणि गम्यतामित्युवाच तान्। गतेषु तेषु नागेषु तापसच्छद्मरूपिषु।।

अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः। भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः।।

तापसैरुपनीतानि फलानि सहिता मया। ततो राजा ससचिवः फलान्यादातुमैच्छत।।

विधिना संप्रयुक्तो वै ऋषिवाक्येन तेन तु। यस्मिन्नेव फले नागस्तमेवाभक्षयत्स्वयम्।।

ततो भक्षयतस्तस्य फलात्कृमिरभूदणुः। ह्रस्वकः कृष्णनयनस्ताम्रवर्णोऽथ शौनक।।

स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत्। अस्तमभ्येति सविता विषादद्य न मे भयम्।।

सत्यवागस्तु स मुनिः कृमिर्मां दशतामयम्। तक्षको नाम भूत्वा वै तथा परिहृतं भवेत्।।

ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः। एवमुक्त्वा स राजेन्द्रो ग्रीवायां सन्निवेश्यह।।

कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः। प्रहसन्नेव भोगेन तक्षकेणाभिवेष्टितः।।

adi-1-43-36__1929 तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम्। वेष्टयित्वा च भोगेन विनद्य च महास्वनम्। अदशत्पृथिवीपालं तक्षकः पन्नगेश्वरः।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रिचत्वारिंशोऽध्यायः।। 43 ।।

1-43-3 दश दंशं कुरु।। 1-43-6 नग वृक्षम्।। 1-43-13 यत् फलं प्राप्तुमभिलषितं तत् इत्यन्वयः।। 1-43-14 घटमानस्य सज्जमानस्य।। 1-43-16 स्वापतेयं धनम्।। 1-43-22 तत्रागतैर्विषहरैरिति पाठान्तरम्।। 1-43-31 यज्जग्राह फलं राजा तत्र क्रिमिरभूदणुः इति पाठान्तरम्।। 1-43-33 क्रिमिको मां दशत्वयं इति पाठान्तरम्।। त्रिचत्वारिशोऽध्यायः।। 43 ।।

अध्यायः 044

परीक्षिन्मरणोत्तरं तत्पुत्रस्य जनमेजयस्य राज्याभिषेकः।। 1 ।। वपुष्टमाविवाहः।। 2 ।।

adi-1-44-0__1930 सौतिरुवाच।

तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम्। विषण्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः।।

तं तु नागं ततो दृष्ट्वा मन्त्रिणस्ते प्रदुद्रुवुः। अपश्यन्त तथा यान्तमाकाशे नागमद्भुतम्।।

सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम्। तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः।।

adi-1-44-4__1934 ततस्तु ते तद्गृहमग्निना वृतं प्रदीप्यमानं विषजेन भोगिनः। भयात्परित्यज्य दिशः प्रपेदिरे पपात तच्चाशनिताडितं यथा।।

adi-1-44-5__1935 ततो नृपे तक्षकतेजसाहते प्रयुज्य सर्वाः परलोकसत्क्रियाः। शुचिर्दिजो राजपुरोहितस्तदा तथैव ते तस्य नृपस्य मन्त्रिणः।।

adi-1-44-6__1936 नृपं शिशुं तस्य सुतं प्रचक्रिरे समेत्य सर्वे पुरवासिनो जनाः। नृपं यमाहुस्तममित्रघातिनं कुरुप्रवीरं जनमेजयं जनाः।।

adi-1-44-7__1937 स बाल एवार्यमतिर्नृपोत्तमः सहैव तैर्मन्त्रिपुरोहितैस्तदा। शशास राज्यं कुरुपुंगवाग्रजो यथाऽस्य वीरः प्रपितामहस्तथा।।

adi-1-44-8__1938 ततस्तु राजानममित्रतापनं समीक्ष्य ते तस्य नृपस्य मन्त्रिणः। सुवर्णवर्माणमुपेत्य काशिप वपुष्टमार्थं वरयांप्रचक्रमुः।।

adi-1-44-9__1939 ततः स राजा प्रददौ वपुष्टमां कुरुप्रवीराय परीक्ष्य धर्मतः। स चापि तां प्राप्य मुदा युतोऽभव- न्न चान्यनारीषु मनो दधे क्वचित्।।

adi-1-44-10__1940 सरःसु फुल्लेषु वनेषु चैव प्रसन्नचेता विजहार वीर्यवान्। तथा स राजन्यवरो विजह्रिवान् यथोर्वशीं प्राप्य पुरा पुरूरवाः।।

adi-1-44-11__1941 वपुष्टमा चापि वरं पतिव्रता प्रतीतरूपा समवाप्य भूपतिम्। भावेन रामा रमयांबभूव तं विहारकालेष्ववरोधसुन्दरी।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुश्चत्वारिंशोऽध्यायः।। 44 ।।

1-44-2 दह्यमानं ततो दृष्ट्वा इति पाठान्तरम्।। 1-44-7 प्रपितामहो युधिष्ठिरः।। 1-44-8 वपुष्टमा काशिराजकन्या।। 1-44-11 वरं वरणीयम्। प्रतीतरूपा हृष्टरूपा।। चतुश्चत्वारिंशोऽध्यायः।। 44 ।।

अध्यायः 045

जरत्कारोः स्वपितॄणां दर्शनं तद्भाषणं च।। 1 ।।

adi-1-45-0__1942 सौतिरुवाच।

एतस्मिन्नेव काले तु जरत्कारुर्महातपाः। चचार पृथिवीं कृत्स्नां यत्रसायंगृहो मुनिः।।

चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः। तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह।।

वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः। सं ददर्श पितॄन्गर्ते लम्बमानानधोमुखान्।।

एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान्। तं तन्तुं च शनैराखुमाददानं बिलेशयम्।।

निराहारान्कृशान्दीनान्गर्ते स्वत्राणमिच्छतः। उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत।।

के भवन्तोऽवलम्बन्ते वीरमस्तम्बमाश्रिताः। दुर्बलं खादितैर्मूलैराखुना बिलवासिना।।

वीरणस्तम्बके मूलं यदप्येकमिह स्थितम्। तद्भप्ययं शनैराखुरादत्ते दशनैः शितैः।।

छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव। ततस्तु पतितारोऽत्र गर्ते व्यक्तमधोमुखाः।।

अत्र मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान्। कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः।।

तपसोऽस्य चतुर्थेन तृतीयेनाथ वा पुनः। अर्धेन वापि निस्तर्तुमापदं ब्रूत मा चिरम्।।

अथवापि समग्रेण तरन्तु तपसा मम। भवन्तः सर्व एवेह काममेवं विधीयताम्।। adi-1-45-12x__218पितर ऊचुः।

कुतो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छसि। न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम्।।

अस्ति नस्तात तपसः फलं प्रवदतां वर। संतानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ।।

सन्तानं हि परो धर्मं एवमाह पितामहः। लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै।।

येन त्वां नाभिजानीमो लोके विख्यातपौरुषम्। वृद्धो भवान्महाभागोयोनः शोच्यान्सुदुःखितान।।

शोचते चैव कारुण्याच्छृणु ये वै वयं द्विज। यायावरा नाम वयमृषयः संशितव्रताः।।

लोकात्पुम्यादिह भ्रष्टाः सन्तानप्रक्षयान्मुने। प्रणष्टं नस्तपस्तीव्रं न हि नस्तन्तुरस्ति वै।।

अस्तित्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा। मन्दभाग्योऽल्पभाग्यानां तप एकं समास्थितः।।

जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः। नियतात्मा महात्मा च सुव्रतः सुमहातपाः।।

तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम्। न तस्य भार्या पुत्रो वा बान्धवो वाऽस्ति कश्चन।।

तस्माल्लम्बामहे गर्ते नष्टसंज्ञा ह्यनाथवत्। स वक्तव्यस्त्वया दृष्टो ह्यस्माकं नाथवत्तया।।

पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः। साधु दारान्कुरुष्वेति प्रजायस्वेति चाभि भोः।।

कुलतन्तुर्हि नः शिष्टः स एकैकस्तपोधन। यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रयम्।।

एषोऽस्माकं कुलस्तम्ब आस्ते स्वकुलवर्धनः। यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः।।

एते नस्तन्तवस्तात कालेन परिभक्षिताः। यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम्।।

यत्र लम्बामहे गर्ते सोऽप्येकस्तप आस्थितः। यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः।।

स तं तपोरतं मन्दं शनैः क्षपयते तुदन्। जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम्।।

न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम। छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः।।

अधः प्रविष्टान्पश्यास्मान्यथा दुष्कृतिनस्तथा। अस्मासु पतितेष्वत्र सह सर्वैः सबान्धवैः।।

छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः। तपो वाऽप्यथ चा यज्ञो यच्चान्यत्पावनं महत्।।

तत्सर्वं न समं तात संतत्येति सतां मतम्। स तात दृष्ट्वा ब्रूयास्तं जरत्कारुं तपोधन।।

यथा दृष्टमिदं चात्र त्वयाऽऽख्येयमशेषतः। यथा दारान्प्रकुर्यात्स पुत्रानुत्पादयेद्यथा।।

वा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया। बान्धवानां हितस्येह यथा चात्मकुलं तथा।।

कस्त्वं बन्धुमिवास्माकमनुशोचसि सत्तम। श्रोतुमिच्छाम सर्वेषां को भवानिह तिष्ठति।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चचत्वारिंशोऽध्यायः।। 45 ।।

1-45-5 स्वत्राणं स्वरक्षाम्।। 1-45-8 पतितारः पतिष्यथा।। 1-45-12 एतत् अस्मदीयं कृच्छ्रं व्यपोहितुं अपनेतुम्।। पञ्चचत्वारिंशोऽध्यायः।। 45 ।।

अध्यायः 046

जरत्कारोः स्वपितृसंवादानन्तरं दारान्वेषणम्।। 1 ।।

adi-1-46-0__1977 सौतिरुवाच।

एतच्छ्रुत्वा जरत्कारुर्भृशं शोकपरायणः। उवाच तान्पितॄन्दुःखाद्बाष्पसंदिग्धया गिरा।। जरत्कारुरुवाच।

मम पूर्वे भवन्तो वै पितरः सपितामहाः। तद्ब्रूत यन्मया कार्यं भवतां प्रियकाम्यया।।

अहमेव जरत्कारुः किल्बिषी भवतां सुतः। ते दण्डं धारयत मे दुष्कृतेरकृतात्मनः।। adi-1-46-4x__221पितर ऊचुः।

पुत्र दिष्ट्याऽसि संप्राप्त इमं देशं यदृच्छया। किमर्थं च त्वया ब्रह्मन्न कृतो दारसङ्ग्रहः।। जरत्कारुरुवाच।

ममायं पितरो नित्यं हृद्यर्थः परिवर्तते। ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै।।

न दारान्वै करिष्येऽहमिति मे भावितं मनः। एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः।।

मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः। करिष्ये वः प्रियं कामं निवेक्ष्येऽहमसंशयम्।।

सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन। भविष्यति च या काचिद्भैक्ष्यवत्स्वयमुद्यता।।

adi-1-46-9__1986 प्रतिग्रहीता तामस्मि न भरेयं च यामहम्। एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि। अन्यथा न करिष्येऽहं सत्यमेतत्पितामहाः।।

तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै। शाश्वताश्चाव्ययाश्चैव तिष्ठन्तु पितरो मम।। सौतिरुवाच।

एवमुक्त्वा तु स पितॄंश्चचार पृथिवी मुनिः। न च स्म लभते भार्यां वृद्धोऽयमिति शानक।।

यदा निर्वेदमापन्नः पितृभिश्चोदिस्तथा। तदाऽरण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः।।

सत्वरण्यगतः प्राज्ञः पितॄणा हितकाम्यया। उवाच कन्यां याचामि तिस्रो वाचः शनैरिमाः।।

यानि भूतानि सन्तीह स्थावराणि चराणि च। अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः।।

उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम्। निविशस्वेति दुःखार्ताः सन्तानस्य चिकीर्षया।।

निवेशायाखिलां भूमिं कन्याभैक्ष्यं चरामि भोः। दरिद्रो दुःखशीलश्च पितृभिः सन्नियोजितः।।

यस्य कन्याऽस्ति भूतस्य ये मयेह प्रकीर्तिताः। ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम्।।

मम कन्या सनाम्नी या भैक्ष्यवच्चोदिता भवेत्। भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत।।

ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः। तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन्।।

तेषां श्रुत्वा स नागेन्द्रस्तां कन्यां समलङ्कृताम्। प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः।।

तत्र तां भैक्ष्यवत्कन्यां प्रादात्तस्मै महात्मने। नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत।।

असनामेति वै मत्वा भरणे चाविचारिते। मोक्षभावे स्थितश्चापि मन्दीभूतः परिग्रहे।।

ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन। वासुकिं भरणं चास्या न कुर्यामित्युवाच ह।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि षट्चत्वारिंशोऽध्यायः।। 46 ।।

1-46-7 निवेक्ष्ये निवेशं विवाहं करिष्ये।। 1-46-9 न भरेयं धारणपोषणे न कुर्याम्।। 1-46-19 जरत्कारौ जरत्कारोरन्वेषणे। समाहिताः यत्ताः।। षट्चत्वारिंशोऽध्यायः।। 46 ।।

अध्यायः 047

जरत्कारोरुद्वाहः।। 1 ।। तस्यां गर्भसंभवः।। 2 ।। समयोल्लङ्घनेन क्रुद्धस्य मुनेः तपोर्थं गमनम्।। 3 ।।

adi-1-47-0__2001 सौतिरुवाच।

वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा। सनाम्नी तव कन्येयं स्वसा मे तपसान्विता।।

adi-1-47-2__2003 भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम। रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन। त्वदर्थं रक्ष्यते चैषा मया मुनिवरोत्तम।। जरत्कारुरुवाच।

न भरिष्येऽहमेतां वै एष मे समयः कृतः। अप्रियं च न कर्तव्यं कृते चैनां त्यजाम्यहम्।। सौतिरुवाच।

प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति। जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह।।

तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः। जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम्।।

ततो वासगृहं रम्यं पन्नगेन्द्रस्य संमतम्। जगाम भार्याम दाय स्तूयमानो महर्षिभिः।।

शयनं तत्र संक्लृप्तं स्पर्ध्यास्तरणसंवृतम्। तत्र भार्यासहायो वै जरत्कारुरुवास ह।।

स तत्र समयं चक्रे भार्यया सह सत्तमः। विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन।।

त्यजेयं विप्रिये च त्वां कृते वासं च ते गृहे। एतद्गृहाण वचनं मया यत्समुदीरितम्।।

ततः परमसंविग्ना स्वसा नागपतेस्तदा। अतिदुःखान्विता वाक्यं तमुवाचैवमस्त्विति।।

तथैव सा च भर्तारं दुःखशीलमुपचारत्। उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी।।

ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा। भर्तारं वै यथान्यायमुपतस्थे महामुनिम्।।

तत्र तस्याः समभवद्गर्भो ज्वलनसन्निभः। अतीव तेजसा युक्तो वैश्वानरसमद्युतिः।।

शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः। ततः कतिपयाहस्तु जरत्कारुर्महायशाः।।

उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत्। तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम्।।

अह्नः परिक्षये ब्रह्मंस्ततः साऽचिन्तयत्तदा। वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी।।

किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा। दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम्।।

कोपो वा धर्मशीलस्य धर्मलोपोऽथवा पुनः। धर्मलोपो गरीयान्वै स्यादित्यत्राकरोन्मतिम्।।

उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति। धर्मलोपो भवेदस्य सन्ध्यातिक्रमणे ध्रुवम्।।

इति निश्चित्य मनसा जरत्कारुर्भुजंगमा। तमृषिं दीप्ततपसं शयानमनलोपमम्।।

उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी। उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति।।

सन्ध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः। प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः।।

सन्ध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो। एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः।।

भार्यां प्रस्फुरमाणौष्ठ इदं वचनमब्रवीत्। अवमानः प्रयुक्तोऽयं त्वया मम भुजंगमे।।

समीपे ते न वत्स्यामि गमिष्यामि यथागतम्। शक्तिरस्ति न वामोरु मयि सुप्ते विभावसोः।।

अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते। न चाप्यवमतस्येह वासो रोचेत कस्यचित्।।

किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा। एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम्।।

अब्रवीद्भगिनी तत्र वासुकेः सन्निवेशने। नावमानात्कृतवती तवाहं विप्रे बोधनम्।।

धर्मलोपो न ते विप्र स्यादित्येतन्मया कृतम्। उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः।।

ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजंगमाम्। न मे वागनृतं प्राह गमिष्येऽहं भुजंगमे।।

समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः। सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे।।

इतो मयि गते भीरु गतः स भगवानिति। त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि।।

इत्युक्ता साऽनवद्याङ्गी प्रत्युवाच मुनिं तदा। जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा।।

बाष्पगद्गदया वाचा मुखेन परिशुष्यता। कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः।।

धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता। न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम्।।

धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम्। प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम।।

तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः। मातृशापाभिभूतानां ज्ञातीनां मम सत्तम।।

अपत्यमीप्सितं त्वत्तस्तच्च तावन्न दृश्यते। त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत्।।

संप्रयोगो भवेन्नायां मम मोघस्त्वया द्विज। ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये।।

इममव्यक्तरूपं मे गर्भमाधाय सत्तम। कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम्।।

एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत्। यद्युक्तमनुरूपं च जरत्कारुं तपोधनः।।

अस्त्ययं सुभगे गर्भस्तव वैश्वानरोपमः। ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः।।

एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः। उग्राय तपसे भूयो जगाम कृतनिश्चयः।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सप्तचत्वारिंशोऽध्यायः।। 47 ।।

1-47-7 स्पर्ध्यं बहुमूल्यम्।। 1-47-9 विप्रिये कृते त्वां तव गृहे वासं च त्यजेयम्।। 1-47-11 श्वतकाकीयैः अनुकूलैः।। 1-47-15 उत्सङ्गे अङ्के।। 1-47-18 कोपो वा गरीयान्धर्मलोपो वा गरीयानिति कोदिद्वयमुपन्यस्य धर्मलोपमेव गुरुकरोति। कोपो वेति।। 1-47-22 प्रादुष्कृतः उद्धृतः अग्निहोत्रोऽग्निः यस्मिन्सः। धर्मसाधनत्वाद्रम्यः। भूतादिप्रचाराद्दारुणः।। 1-47-25 विभावसोः सूर्यस्य।। 1-47-39 संप्रयोगः संबन्ध। मोघो निष्फलः।। सप्तचत्वारिंशोऽध्यायः।। 47 ।।

अध्यायः 048

वासुकेः तद्भगिन्याश्च संवादः।। 1 ।। आस्तीकोत्पत्तिः।। 2 ।। तन्नामनिर्वचनम्।। 3 ।।

adi-1-48-0__2045 सौतिरुवाच।

गतमात्रं तु भर्तारं जरत्कारुरवेदयत्। भ्रातुः सकाशमागत्य यथातथ्यं तपोधन।।

ततः स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम्। उवाच भगिनीं दीनां तदा दीनतरः स्वयम्।। वासुकिरुवाच।

जानासि भद्रे यत्कार्यं प्रदाने कारणं च यत्। पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि।।

स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान्। एवं पितामहः पूर्वमुक्तवांस्तु सुरैः सह।।

अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात्। न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः।।

कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम्। किंतु कार्यगरीयस्त्वात्ततस्त्वाऽहमचूचुदम्।।

दुर्वार्यतां विदित्वा च भर्तुस्तेऽतितपस्विनः। नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम्।।

आचक्ष्व भद्रे भर्तुः स्वं सर्वमेव विचेष्टितम्। उद्धरस्व च शल्यं मे घोरं हृदि चिरस्थितम्।।

जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत। आश्वासयन्ती सन्तप्तं वासुकिं पन्नगेश्वरम्।। जरत्कारुरुवाच।

पृष्टो मयाऽपत्यहेतोः स महात्मा महातपाः। अस्तीत्युत्तरमुद्दिश्य ममेदं गतवांश्च सः।।

स्वैरेष्वपि न तेनाहं स्मरामि वितथं वचः। उक्तपूर्वं कुतो राजन्सांपराये स वक्ष्यति।।

न संतापस्त्वया कार्यः कार्यं प्रति भुजंगमे। उत्पत्स्यति च ते पुत्रो ज्वलनार्कसमप्रभः।।

इत्युक्त्वा स हि मां भ्रातर्गतो भर्ता तपोधनः। तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम्।। सौतिरुवाच।

एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा। एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत।।

सान्त्वमानार्थदानैश्च पूजया चारुरूपया। सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः।।

ततः प्रववृधे गर्भो महातेजा महाप्रभः। यथा मोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि।।

अथ काले तु सा ब्रह्मन्प्रजज्ञे भुजगस्वसा। कुमारं देवगर्भाभं पितृमातृभयापहम्।।

ववृधे स तु तत्रैव नागराजनिवेशने। वेदांश्चाधिजगे साङ्गान्भार्गवच्यवनात्मजात्।।

चीर्णव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः। नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत।।

अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम्। वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम्।।

स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान्। गृहे पन्नगराजस्य प्रयत्नात्परिरक्षितः।।

भगवानिव देवेशः शूलपाणिर्हिरण्मयः। विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत्।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि अष्टचत्वारिंशोऽध्यायः।। 48 ।।

1-48-6 अचूचुदं कार्यसिद्धिं वक्तुं प्रेरितवान्।। 1-48-10 ममेदं कार्यमुद्दिश्य अस्तीत्युत्तरं दत्तवानिति शेषः।। 1-48-11 वितथं अनृतं तेन उक्तपूर्वं न स्मरामि। सांपराये संकटे।। 1-48-17 प्रजज्ञे जनयामास।। 1-48-22 हिरण्मयः दीप्तिमान्।। अष्टचत्वारिंशोऽध्यायः।। 48 ।।

अध्यायः 049

जनमेजयमन्त्रिसंवादमुखेन पुनः परीक्षिच्चरितकथनम्।। 1 ।।

adi-1-49-0__2068 शौनक उवाच।

यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः। पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद।। सौतिरुवाच।

शृणु ब्रह्मन्यथाऽपृच्छन्मन्त्रिणो नृपतिस्तदा। यथा चाख्यातवन्तस्ते निधनं तत्परिक्षितः।। जनमेजय उवाच।

जानन्ति स्म भवन्तस्तद्यथावृत्तं पितुर्मम। आसीद्यथा स निधनं गतः काले महायशाः।।

श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः। कल्याणं प्रतिपत्स्यामि विपरीतं न जातुचित्।। सौतिरुवाच।

मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना। सर्वे धर्मविदः प्राज्ञा राजानं जनमेजयम्।। adi-1-49-6x__235मन्त्रिण ऊचुः।

शृणु पार्थिव यद्ब्रूषे पितुस्तव महात्मनः। चरितं पार्थिवेन्द्रस्य यथा निष्ठां गतश्च सः।।

धर्मात्मा च महात्मा च प्रजापालः पिता तव। आसीदिहायथा वृत्तः स महात्मा शृणुष्व तत्।।

चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत। धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव।।

ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः। द्वेष्टारस्तस्य नैवासन्स च द्वेष्टि न कंचन।।

समः सर्वेषु भूतेषु प्रजापतिरिवाभवत्। ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु।।

स्थितः सुमनसो राजंस्तेन राज्ञा स्वधिष्ठिताः। विधवानाथविकलान्कृपणांश्च बभार सः।।

सुदर्शः सर्वभूतानामासीत्सोम इवापरः। तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः।।

धनुर्वेदे तु शिष्योऽभून्नृपः शारद्वतस्य सः। गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय।।

लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः। परिक्षीणेषु कुरुषु सोत्तरायामजीजनत्।।

परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली। राजधर्मार्थकुशलो युक्तः सर्वगुणैर्वृतः।।

जितेन्द्रियश्चात्मवांश्च मेधावी धर्मसेविता। षड्वर्गजिन्महाबुद्धिर्नीतिशास्त्रविदुत्तमः।।

प्रजा इमास्तव पिता षष्टिवर्षाण्यपालयत्। ततो दिष्टान्तमापन्नः सर्वेषां दुःखमावहन्।।

adi-1-49-18__2086 ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान्। इदं वर्षसहस्राणि राज्यं कुरुकुलागतम्। बाल एवाभिषिक्तस्त्वं सर्वभूतानुपालकः।। जनमेजय उवाच।

adi-1-49-19__2087 नास्मिन्कुले जातु बभूव राजा यो न प्रजानां प्रियकृत्प्रियश्च। विशेषतः प्रेक्ष्य पितामहानां वृत्तं महद्वृत्तपरायणानाम्।।

कथं निधनमापन्नः पिता मम तथाविधः। आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः।। सौतिरुवाच।

एवं संचोदिता राज्ञा मन्त्रिणस्ते नराधिपम्। ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहितैषिणः।। adi-1-49-22x__238मन्त्रिण ऊचुः।

स राजा पृथिवीपालः सर्वशस्त्रभृतां वरः। बभूव मृगयाशीलस्तव राजन्पिता सदा।।

यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि। अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः।।

स कदाचिद्वनगतो मृगं विव्याध पत्रिणा। विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने।।

पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान्। न चाससाद गहने मृगं नष्टं पिता तव।।

परिश्रान्तो वयस्थश्च षष्टिवर्षो जरान्वितः। क्षुधितः स महारण्ये ददर्श मुनिसत्तमम्।।

स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रते स्थितम्। न च किंचिदुवाचेदं पृष्टोऽपि समुनिस्तदा।।

ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम्। मौनव्रतधरं शान्तं सद्यो मन्युवशं गतः।।

न बुबोध च तं राजा मौनव्रतधरं मुनिम्। स तं क्रोधसमाविष्टो धर्षयामास ते पिता।।

मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात्। तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम।।

न चोवाच स मेधावी तमथो साध्वसाधु वा। तस्थौ तथैव चाक्रुद्धः सर्पं स्कन्धेन धारयन्।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकोनपञ्चाशत्तमोऽध्यायः।। 49 ।।

1-49-4 कल्याणं सर्वलोकहितं चेत्प्रतिपत्स्यामि प्रतीकारं करिष्यामि।। 1-49-6 ब्रूषे पृच्छसि। निष्ठां समाप्तिम्।। 1-49-11 स्वधिष्ठिताः सुष्ठुपालिताः।। 1-49-13 शारद्वतस्य कृपाचार्यस्य।। 1-49-14 सोत्तरायमिति पादपूरणार्थः सन्धिः। अजीजनज्जातः।। 1-49-17 षष्टिवषाणि जन्मतः षष्टिपर्वपर्यन्तं न तु राज्यलाभात्।। 1-49-18 वर्षसहस्राणि चिरकालमित्यर्थः। पालयितुमिति शेषः।। 1-49-20 आचक्षध्वं भ्वादेराकृतिगणत्वाच्छपो न लुक्।। 1-49-26 वयस्थो वृद्धः।। एकोनपञ्चाशत्तमोऽध्यायः।। 49 ।।

अध्यायः 050

शून्यारण्ये वृत्तस्य काश्यपतक्षकवृत्तान्तस्योपलब्धिप्रकारकथनम्।। 1 ।।

adi-1-50-0__2100 adi-1-50-0x__239मन्त्रिण ऊचुः।

ततः स राजा राजेन्द्र स्कन्धे तस्य भुजंगमम्। मुनेः क्षुत्क्षाम आसज्य स्वपुरं प्रययौ पुनः।।

ऋषेस्तस्य तु पुत्रोऽभूद्गति जातो महायशाः। शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः।।

ब्रह्माणं समुपागम्य मुनिः पूजां चकार ह। सोऽनुज्ञातस्ततस्तत्र शृङ्गी शुश्राव तं तदा।।

सख्युः सकाशात्पितरं पित्रा ते धर्षितं पुरा। मृतं सर्पं समासक्तं स्थाणुभूतस्य तस्य तम्।।

वहन्तं राजशार्दूल स्कन्धेनानपकारिणम्। तपस्विनमतीवाथ तं मुनिप्रवरं नृप।।

जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुतम्। तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तदा।।

adi-1-50-7__2107 शुभाचारं शुभकथं सुस्थितं तमलोलुपम्। अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम्। शरण्यं सर्वभूतानां पित्रा विनिकृतं तव।।

शशापाथ महातेजाः पितरं ते रुषान्वितः। ऋषेः पुत्रो महातेजा बालोऽपि स्थविरद्युतिः।।

स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह। पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव।।

अनागसि गुरौ यो मे मृतं सर्पवासृजत्। तं नागस्तक्षकः क्रुद्धस्तेजसा प्रदहिष्यति।।

आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः। सप्तरात्रादितः पापं पश्य मे तपसो बलम्।।

इत्युक्त्वा प्रययौ तत्र पिता यत्राऽस्य सोऽभवत्। दृष्ट्वा च पितरं तस्मै तं शापं प्रत्यवेदयत्।।

स चापि मुनिशार्दूलः प्रेरयामास ते पितुः। शिष्यं गौरमुखं नाम शीलवन्तं गुणान्वितम्।।

आचख्यौं सत्त्व विश्रान्तो राज्ञः सर्वमशेषतः। शप्तोऽसि मम पुत्रेण यत्तो भव महीपते।।

तक्षकस्त्वां महाराज तेजसाऽसौ दहिष्यति। श्रुत्वा च तद्वचो घोरं पिता ते जनमेजय।।

यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात्। ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते।।

राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत। तं ददर्शाथ नागेन्द्रस्तक्षकः काश्यपं तदा।।

तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं द्विजम्। क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति।। काश्यप उवाच।

यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज। तक्षकेण भुजंगेन धक्ष्यते किल सोऽद्य वै।।

गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम्। मयाऽभिपन्नं तं चापि न सर्पो धर्षयिष्यति।। तक्षक उवाच।

किमर्थं तं मया दष्टं संजीवयितुमिच्छसि। अहं त तक्षको ब्रह्मन्पश्य मे वीर्यमद्भुतम्।।

adi-1-50-22__2122 न शक्तस्त्वं मया दष्टं तं संजीवयितुं नृपम्। मन्त्रिण ऊचुः। इत्युक्त्वा तक्षकस्तत्र सोऽदशद्वै वनस्पतिम्।।

स दष्टमात्रो नागेन भस्मीभूतोऽभवन्नगः। काश्यपश्च ततो राजन्नजीवयत तं नगम्।।

ततस्तं लोभयामास कामं ब्रूहीति तक्षकः। स एवमुक्तस्तं प्राह काश्यपस्तक्षकं पुनः।।

धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः। तमुवाच महात्मानं तक्षकः श्लक्ष्णया गिरा।।

यावद्धनं प्रार्थयसे राज्ञस्तस्मात्ततोऽधिकम्। गृहाण मत्त एव त्वं सन्निवर्तस्व चानघ।।

स एवमुक्तो नागेन काश्यपो द्विपदां वरः। लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम्।।

तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः। तं नृपं नृपतिश्रेष्ठं पितरं धार्मिकं तव।।

प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना। ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः।।

एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम। अस्माभिर्निखिलं सर्वं कथितं तेऽतिदारुणम्।।

श्रुत्वा चैतं नरश्रेष्ठ पार्थिवस्य पराभवम्। अस्य चर्षेरुदङ्कस्य विधत्स्व यदनन्तरम्।। सौतिरुवाच।

एतस्मिन्नेव काले तु स राजा जनमेजयः। उवाच मन्त्रिणः सर्वानिदं वाक्यमरिदमः।। जनमेजय उवाच।

अथ तत्कथितं केन यद्वृत्तं तद्वनस्पतौ। आश्चर्यभूतं लोकस्य भस्मराशीकृतं तदा।।

यद्वृक्षं जीवयामास काश्यपस्तक्षकेण वै। नूनं मन्त्रैर्हतविषो न प्रणश्येत काश्यपात्।।

चिन्तयामास पापात्मा मनसा पन्नगाधमः। दष्टं यदि मया विप्रः पार्थिवं जीवयिष्यति।।

तक्षकः संहतविषो लोके यास्यति हास्यताम्। विचिन्त्यैवं कृता तेन ध्रुवं तुष्टिर्द्विजस्य वै।।

भविष्यति ह्युपायेन यस्य दास्यामि यातनाम्। एकं तु श्रोतुमिच्छामि तद्वृत्तं निर्जने वने।।

adi-1-50-38__2138 संवादं पन्नगेन्द्रस्य काश्यपस्य च कस्तदा। श्रुतवान्दृष्टवांश्चापि भवत्सु कथमागतम्। श्रुत्वा तस्य विधास्येऽहं पन्नगान्तकरीं मतिम्।। adi-1-50-39x__245मन्त्रिण ऊचुः।

शृणु राजन्यथास्माकं येन तत्कथितं पुरा। समागतं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि।।

तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव। विचिन्वन्पूर्वमारूढः शुष्कशाखावनस्पतौ।।

न बुध्येतामुभौ तौ च नगस्थं पन्नगद्विजौ। सह तेनैव वृक्षेण भस्मीभूतोऽभवन्नृप।।

द्विजप्रभावाद्राजेन्द्र व्यजीवत्स वनस्पतिः। तेनागम्य द्विजश्रेष्ठ पुंसाऽस्मासु निवेदितम्।।

adi-1-50-43__2143 यथा वृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च। एतत्ते कथितं राजन्यथादृष्टं श्रुतं च यत्। श्रुत्वा च नृपशार्दूल विधत्स्व यदनन्तरम्।। सौतिरुवाच।

मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः। पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करं करे।।

निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः। मुमोचाश्रूणि च तदा नेत्राभ्यां प्ररुदन्नृपः।।

उवाच च महीपालो दुःखशोकसमन्वितः। दुर्धरं बाष्पमुत्सृज्य स्पृष्ट्वा चापो यथाविधि।।

मुहूर्तमिव च ध्यात्वा निश्चित्य मनसा नृपः। अमर्षी मन्त्रिणः सर्वानिदं वचनमब्रवीत्।। जनमेजय उवाच।

adi-1-50-48__2148 श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति। निश्चितेयं मम मतिर्या च तां मे निबोधत। अनन्तरं च मन्येऽहं तक्षकाय दुरात्मने।।

प्रतिकर्तव्यमित्येवं येन मे हिंसितः पिता। शृङ्गिणं हेतुमात्रं यः कृत्वा दग्ध्वा च पार्थिवम्।।

इयं दुरात्मता तस्य काश्यपं यो न्यवर्तयत्। यद्यागच्छेत्स वै विप्रो ननु जीवेत्पिता मम।।

परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः। काश्यपस्य प्रसादेन मन्त्रिणां विनयेन च।।

स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम्। संजिजीवयिषुं प्राप्तं राजानमपराजितम्।।

महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः। द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति।।

उत्तङ्कस्य प्रियं कर्तुमात्मनश्च महत्प्रियम्। भवतां चैव सर्वेषां गच्छाम्यपचितिं पितुः।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चाशत्तमोऽध्यायः।। 50 ।।

1-50-6 अङ्गेषु बागादिषु यतं नियतं शमदमवन्तमित्यर्थः।। 1-50-7 अक्षुद्रं गम्भीरं। तव पित्रा विनिकृतमपकृतम्।। 1-50-20 अभिपन्नं त्रातं धऱ्षयिष्यत्यमिभविष्यति।। 1-50-24 कामं काम्यमानमर्थम्।। 1-50-27 द्विपदा पुस्त्राणाम्।। 1-50-36 संहतविषः सम्या हतं नष्टं विषं यस्य स तथा संहृतविष इति पाठे स्पष्टोथः।। 1-50-39 समागणं समागमं भावे निष्ठा।। 1-50-44 करं कर निधाय प्रत्यपिंषत्।। 1-50-52 मोहान्मदीयसमर्थ्याज्ञानात्।। 1-50-54 अपचितिं वैरनिर्यातनम्।। पञ्चाशत्तमोऽध्यायः।। 50 ।।

अध्यायः 051

जनमेजयस्य सर्पसत्रप्रतिज्ञा।। 1 ।। यज्ञसामग्रीसंपादनम्।। 2 ।। दीक्षाग्रहणम्।। 3 ।।

adi-1-51-0__2155 सौतिरुवाच।

एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमीदितः। आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः।।

ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा। पुरोहितमथाहूय ऋत्विजो वसुधाधिपः।।

अब्रवीद्वाक्यसंपन्नः कार्यसंपत्करं वचः। यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान्।।

प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे। अपि तत्कर्म विदितं भवतां येन पन्नगम्।।

तक्षकं संप्रदीप्तेऽग्नौ प्रक्षिपेयं सबान्धवम्। यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना।। तथाऽहमपि तं पापं दग्धुमिच्छामि पन्नगम्।। adi-1-51-6x__249ऋत्विज ऊचुः।

अस्ति राजन्महात्सत्रं त्वदर्थं देवनिर्मितम्। सर्वसत्रमिति ख्यातं पुराणे परिपठ्यते।।

आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप। इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः।।

एवमुक्तः स राजर्षिर्मेने दग्धं हि तक्षकम्। हुताशनमुखे दीप्ते प्रविष्टमिति सत्तम।।

ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा। आहरिष्यामि तत्सत्रं संभाराः संभ्रियन्तु मे।। सौतिरुवाच।

ततस्त ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम। तं देशं मापयामासुर्यज्ञायतनकारणात्।।

यथावद्वेदविद्वांसः सर्वे बुद्धेः परंगताः। ऋद्ध्या परमया युक्तमिष्टं द्विजगणैर्युतम्।।

प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिषेवितम्। निर्माय चापि विधिवद्यज्ञायतनमीप्सितम्।।

राजानं दीक्षयामासुः सर्पसत्राप्तये तदा। इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति।।

निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा। यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत्।।

स्थपतिर्बुद्धिसंपन्नो वास्तुविद्याविशारदः। इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा।।

यस्मिन्देशे च काले च मापनेयं प्रवर्तिता। ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः।।

एतच्छ्रुत्वा तु राजासौ प्राग्दीक्षाकालमब्रवीत्। क्षत्तारं न हि मे कश्चिदज्ञातः प्रविशेदिति।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकपञ्चाशत्तमोऽध्यायः।। 51 ।।

1-51-5 मह्यं मम।। 1-51-7 त्वत् त्वत्तो नान्योस्ति।। 1-51-9 आहरिष्यामि करिष्यामि। संभ्रियन्तु संभ्रियन्ताम्।। 1-51-13 भविष्यति भाविनि।। 1-51-15 सूतो जात्या पौराणिकः शिल्पागमवेत्ता।। 1-51-16 नायं संस्थास्यते न समाप्स्यते।। 1-51-17 दीक्षाकालस्य प्रागिति प्राग्दी क्षाकालं क्षत्तारं द्वास्थम्।। एकपञ्चाशत्तमोऽध्यायः।। 51 ।।

अध्यायः 052

अग्नौ सर्पपतनम्।। 1 ।।

adi-1-52-0__2173 सौतिरुवाच।

ततः कर्म प्रववृते सर्पसत्रविधानतः। पर्यक्रामंश्च विदिवत्स्वे स्वे कर्मणि याजकाः।।

प्रावृत्य कृष्णवासांसि धूम्रसंरक्तलोचनाः। जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम्।।

कम्पयन्तश्च सर्वेषामुरगाणां मनांसि च। सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा।।

ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने। विचेष्टमानाः कृपणमाह्वयन्तः परस्परम्।।

विस्फुरन्तः श्वसन्तश्च वेष्टयन्तः परस्परम्। पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे।।

श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा। नदन्तो विविधान्नादान्पेतुर्दीप्ते विभावसौ।।

क्रोशयोजनमात्रा हि गोकर्णस्य प्रमाणतः। पतन्त्यजस्रं वेगेन वह्नावग्निमतां वर।।

एवं शतसहस्राणि प्रयुतान्यर्बुदानि च। अवशानि विनष्टानि पन्नगानां तु तत्र वै।।

तुरगा इव तत्रान्ये हस्तिहस्ता इवापरे। मत्ता इव च मातङ्गा महाकाया महाबलाः।।

adi-1-52-10__2183 उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः। घोराश्च परिघप्रख्या दन्दशूका महाबलाः। प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः।। ।।

इति श्रीमन्माहाभारते आदिपर्वणि आस्तीकपर्वणि द्विपञ्चाशत्तमोऽध्यायः।। 52 ।।

1-52-1 पर्यक्रामन् पराक्रान्तवन्तः।। 1-52-2 मन्त्रवन्मन्त्रयुक्तं यथा स्यात्तथा।। 1-52-3 आजुहुवुः आहूतवन्तः।। 1-52-5 चित्रभानुमग्निम्।। 1-52-7 प्रमाणतः प्रमाणं प्राप्य।। द्विपञ्चाशत्तमोऽध्यायः।। 52 ।।

अध्यायः 053

ऋत्विगादिनामकथनम्।। 1 ।। इन्द्रकृतं तक्षकाश्वासनम्।। 2 ।। वासुकेः स्वभगिन्या संवादः।। 3 ।।

adi-1-53-0__2184 शौनक उवाच।

सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः। जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः।।

के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे। विषादजननेऽत्यर्थं पन्नगानां महाभय।।

सर्वं विस्तरशस्तात भवाञ्छंसितुमर्हति। सर्पसत्रविधानज्ञविज्ञेयाः के च सूतज।। सौतिरुवाच।

हन्त ते कथयिष्यामि नामानीह मनीषिणाम्। ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा।।

तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः। च्यवनस्यान्वये ख्यातो जातो वेदविदां वरः।।

उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सौऽथ जैमिनिः। ब्र्हमाऽभवच्छार्ङ्गरवोऽथाध्वर्युश्चापि पिङ्गलः।।

सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान्। उद्दालकः प्रमतकः श्वेतकेतुश्च पिङ्गलः।।

असितो देवलश्चैव नारदः पर्वतस्तथा। आत्रेयः कुम्डजठरौ द्विजः कालघटस्तथा।।

वात्स्यः श्रुतश्रवा वृद्धो जपस्वाध्यायशीलवान्। कोहलो देवशर्मा च मौद्गल्यः समसौरभः।।

एते चान्ये च बहवो ब्राह्मणा वेदपारगाः। सदस्याश्चाभवंस्तत्र सत्रे पारिक्षितस्य ह।।

जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ। अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः।।

वसामेदोवहाः कुल्या नागानां संप्रवर्तिताः। ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा।।

पततां चैव नागानां धिष्ठितानां तथाम्बरे। अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम्।।

तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम्। गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम्।।

ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः। अगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम्।।

तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक। भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कदाचन।।

प्रसादितो मया पूर्वं तवार्थाय पितामहः। तस्मात्तव भयं नास्ति व्येतु तेनसो ज्वरः।। सौतिरुवाच।

एवमाश्वासितस्तेन ततः स भुजगोत्तमः। उवास भवने तस्मिञ्शक्रस्य मुदितः सुखी।।

अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः। अल्पशेषपरीवारो वासुकिः पर्यतप्यत।।

कश्मलं चाविशद्धोरं वासुकिं पन्नगोत्तमम्। स घूर्णमानहृदयो भगिनीमिदमब्रवीत्।।

दह्यन्तेऽङ्गानि मे भद्रे न दिशः प्रतिभान्ति माम्। सीदामीव च संमोहाद्धूर्णतीव च मे मनः।।

दृष्टिर्भ्राम्यति मेऽतीव हृदयं दीर्यतीव च। पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ।।

पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया। व्यक्तं मयाऽभिगन्तव्यं प्रेतराजनिवेशनम्।।

अयं स कालः संप्राप्तो यदर्थमसि मे स्वसः। जरत्करौ(पुरा)मयादत्तात्रायस्वास्मान्सबान्धवान्।।

आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे। प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः।।

तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम्। ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम्।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रिपञ्चाशत्तमोऽध्यायः।। 53 ।।

1-53-2 सदस्या उपद्रष्टारः।। 1-53-3 विधानज्ञेषु विज्ञेयाः श्रेष्ठाः।। 1-53-13 पच्यतां पच्यमानानाम्।। 1-53-15 आगः अपरांध कृत्वा।। त्रिपञ्चाशत्तमोऽध्यायः।। 53 ।।

अध्यायः 054

आस्तीकस्य स्वमात्रा सवादः। वासुकेराश्वासनं च।। 1 ।। आस्तीकस्य सर्पसत्रं प्रति गमनम्।। 2 ।।

adi-1-54-0__2211 सौतिरुवाच।

तत आहूय पुत्रं स्वं जरत्कारुर्भुजंगमा। वासुकेर्नागराजस्य वचनादिदमब्रवीत्।।

अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः। कालः स चायं संप्राप्तस्तत्कुरुष्व यथातथम्।। आस्तीक उवाच।

किंनिमित्तं मम पितुर्दत्ता त्वं मातुलेन मे। तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्ताऽस्मि तत्तथा।। सौतिरुवाच।

तत आचष्ट सा तस्मै बान्धवानां हितैषिणी। भगिनी नागराजस्य जरत्कारुरविक्लबा।। जरत्कारुरुवाच।

पन्नगानामशेषाणां माता कद्रूरिति श्रुता। तया शप्ता रुषितया सुता यस्मान्निबोध तत्।।

उच्चैः श्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम। विनतार्थाय पणिते दासभावाय पुत्रकाः।।

जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः। तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ।।

तां च शप्तवतीं देवः साक्षाल्लोकपितामहः। एवमस्त्विति तद्वाक्यं प्रोवाचानु मुमोद च।।

वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा। अमृते मथिते तात देवाञ्छरणमीयिवान्।।

सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम्। भ्रातरं मे पुरस्कृत्य पितामहमुपागमन्।।

ते तं प्रसादयामासुः सुराः सर्वेऽब्जसंभवम्। राज्ञा वासुकिना सार्धं शापोऽसौन भवेदिति।। adi-1-54-12x__259देवा ऊचुः।

वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात्। अभिशापः स मातुस्तु भगवन्न भवेत्कथम्।। ब्रह्मोवाच।

जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति। तत्र जातो द्विजः शापान्मोक्षयिष्यति पन्नगान्।।

एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगोत्तमः। प्रादान्माममरप्रख्य तव पित्रे महात्मने।।

प्रागेवानागते काले तस्मात्त्व मय्यजायथाः। अयं स कालः संप्राप्तो भयान्नस्त्रातुमर्हसि।।

adi-1-54-16__2227 भ्रातरं चापि मे तस्मात्त्रातुमर्हसि पावकात्। न मोघं तु कृतं तत्स्याद्यदहं तव धीमते। पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे।। सौतिरुवाच।

एवमुक्तस्तथेत्युक्त्वा सास्तीको मातरं तदा। अब्रवीद्दुःखसंतप्तं वासुकिं जीवयन्निव।।

अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम। तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते।।

भव स्वस्थमना नाग न हि ते विद्यते भयम्। प्रयतिष्ये तथा राजन्यथा श्रेयो भविष्यति।।

न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा। तं वै नृपवरं गत्वा दीक्षितं जनमेजयम्।।

वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल। यथा स यज्ञो नृपतेर्निवत्रिष्यति सत्तम।।

स संभावय नागेन्द्र मयि सर्वं महामते। न ते मयि मनो जातु मिथ्या भवितुमर्हति।। वासुकिरुवाच।

आस्तीक परिघूर्णामि हृदयं मे विदीर्यते। दिशो न प्रतिजानामि ब्रह्मदण्डनिपीडितः।। आस्तीक उवाच।

न सन्तापस्त्वया कार्यः कथंचित्पन्नगोत्तम। प्रदीप्ताग्नेः समुत्पन्नं नाशयिष्यामि ते भयम्।।

ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम्। नाशयिष्यामि माऽत्र त्वं भयंकार्षीः कथंचन।। सौतिरुवाच।

ततः स वासुकेर्घोरमपनीय मनोज्वरम्। आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम्।।

जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः। मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः।।

स गत्वाऽपश्यदास्तीको यज्ञायतनमुत्तमम्। वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः।।

स तत्र वारितो द्वास्थैः प्रविशन्द्विजसत्तमः। अभितुष्टाव तं यज्ञं प्रवेशार्थी परंतपः।।

adi-1-54-30__2241 स प्राप्य यज्ञायतनं वरिष्ठं द्विजोत्तमः पुण्यकृतां वरिष्ठः। तुष्टाव राजानमनन्तकीर्ति- मृत्विक्सदस्यांश्च तथैव चाग्निम्।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुःपञ्चाशत्तमोऽध्यायः।। 54 ।।

1-54-4 आचष्ट व्यक्तं कथितवती। अविक्लबा अनाकुला।। 1-54-12 अभिशापः शापः।। 1-54-17 आस्तीक इति पादपूरणार्थः सुलोपः।। 1-54-22 मयि अयमस्मान्मोचयिष्यत्येवरूपो मनःसंकल्पो जातु कदापि मिथ्याऽन्यथा न।। 1-54-23 ब्रह्म वेदः मातृदेवो भवेति मातुराज्ञकरत्वविधानपरस्तदन्यथाकरणप्रयुक्तो दण्डो मातृशापरूपो ब्रह्मदण्डः।। 1-54-26 वासुकेश्चिन्ताज्वरं स्वयं गृहीत्वेत्यर्थः।। चतुःपञ्चाशत्तमोऽध्यायः।। 54 ।।

अध्यायः 055

आस्तीककृता जनमेजययज्ञप्रशंसा।। 1 ।।

adi-1-55-0__2242 आस्तीक उवाच।

adi-1-55-1__2243 सोमस्य यज्ञो वरुणस्य यज्ञः प्रजापतेर्यज्ञ आसीत्प्रयागे। तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः।।

adi-1-55-2__2244 शक्रस्य यज्ञः शतसङ्ख्य उक्त- स्तथापरं तुल्यसङ्ख्यं शतं वै। तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः।।

adi-1-55-3__2245 यमस्य यज्ञो हरिमेधसश्च यथा यज्ञो रन्तिदेवस्य राज्ञः। तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः।।

adi-1-55-4__2246 गयस्य यज्ञः शशबिन्दोश्च राज्ञो यज्ञसल्तथा वैश्रवणस्य राज्ञः। तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः।।

adi-1-55-5__2247 नृगस्य यज्ञस्त्वजमीढस्य चासी- द्यथा यज्ञो दाशरथेश्च राज्ञः। तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः।।

adi-1-55-6__2248 यज्ञः श्रुतो दिवि देवस्य सूनो- र्युधिष्ठिरस्याजमीढस्य राज्ञः। तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः।।

adi-1-55-7__2249 कृष्णस्य यज्ञः सत्यवत्याः सुतस्य स्वयं च कर्म प्रचकार यत्र। तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः।।

adi-1-55-8__2250 इमे च ते सूर्यसमानवर्चसः समासते वृत्रहणः क्रतुं यथा। नैषां ज्ञातुं विद्यते ज्ञानमद्य दत्तं येभ्यो न प्रणश्येत्कदाचित्।।

adi-1-55-9__2251 ऋत्विक्समो नास्ति लोकेषु चैव द्वैपायनेनेति विनिश्चितं मे। एतस्य शिष्या हि क्षितिं संचरन्ति सर्वर्त्विजः कर्मसु स्वेषु दक्षाः।।

adi-1-55-10__2252 विभावसुश्चित्रभानुर्महात्मा हिरण्यरेता हुतभुक्कृष्णवर्त्मा। प्रदक्षिमावर्तशिखः प्रदीप्तो हव्यं तवेदं हुतभुग्वष्टि देवः।।

adi-1-55-11__2253 नैह त्वदन्यो विद्यते जीवलोके समो नृपः पालयिता प्रजानाम्। धृत्या च ते प्रतीमनाः सदाहं त्वं वा वरुणो धर्मराजो यमो वा।।

adi-1-55-12__2254 शक्रः साक्षाद्वज्रपाणिर्यथेह त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम्। मतस्त्वं नः पुरुषेन्द्रेह लोके न च त्वदन्यो भूपतिरस्ति जज्ञे।।

adi-1-55-13__2255 खट्वाङ्गनाभगदिलीपकल्प ययातिमान्धातृसमप्रभाव। आदित्यतेजःप्रतिमानतेजा भीष्मो यथा राजसि सुव्रतस्त्वम्।।

adi-1-55-14__2256 वाल्मीकिवत्ते निभृतं स्ववीर्यं वसिष्ठवत्ते नियतश्च कोपः। प्रभुत्वमिन्द्रत्वसमं मतं मे द्युतिश्च नारायणवद्विभाति।।

adi-1-55-15__2257 यमो यथा धर्मविनिश्चयज्ञः कृष्णो यथा सर्वगुणोपपन्नः। श्रियां निवासोऽसि यथा वसूनां निधानभूतोऽसि तथा क्रतूनाम्।।

adi-1-55-16__2258 दम्भोद्भवेनासि समो बलेन रामो यथा शस्त्रविदस्त्रविच्च। और्वत्रिताभ्यामसि तुल्यतेजा दुष्प्रेक्षणीयोऽसि भगीरथेन।। सौतिरुवाच।

adi-1-55-17__2259 एवं स्तुताः सर्व एव प्रसन्ना राजा सदस्या ऋत्विजो हव्यवाहः। तेषां दृष्ट्वा भावितानीङ्गितानि प्रोवाच राजा जनमेजयोऽथ।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चपञ्चाशत्तमोऽध्यायः।। 55 ।।

1-55-6 देवस्य धर्मराजस्य।। 1-55-8 ज्ञानशब्दः कर्मव्युत्पन्नो ज्ञेयवचनः अद्य संप्रति ज्ञातुं ज्ञेयं न विद्यते सर्वस्य ज्ञातत्वादित्यर्थः।। 1-55-10 अग्निं स्तौति विभावसुरिति। वष्टि कामयते।। 1-55-12 न च त्वदन्यस्त्राता भूपतिरस्ति इदानीं न च जज्ञे प्रागपि।। 1-55-14 निभृतं गुप्तं। नियतो निगृहीतः।। 1-55-15 वसवोऽष्टौ तत्संबन्धिनीनां श्रियाम्।। 1-55-16 रामो भार्गवः और्वत्रितावृषी।। 1-55-17 भावितानि मनसि संकल्पितानि। भारतस्त्विङ्गितानीति पाठे भारतो राजा भरतवंशजत्वात्।। पञ्चपञ्चाशत्तमोऽध्यायः।। 55 ।।

अध्यायः 056

प्रशंसया तुष्टस्य जनमेजयस्य ऋत्विग्भिः संवादः।। 1 ।। ऋत्विगाह्वानेन सतक्षकस्येन्द्रस्यागमनम्।। 2 ।। भयेनेन्द्रे पलायितेऽग्निसमीपे तक्षकागमनम्।। 3 ।। आस्तीकस्य यज्ञसमाप्तिवरयाचनम्।। 4 ।।

adi-1-56-0__2260 जनमेजय उवाच।

adi-1-56-1__2261 बालोऽप्ययं स्थविर इवावभाषते नायं बालः स्थविरोऽयं मतो मे। इच्छाम्यहं वरमस्मै प्रदातुं तन्मे विप्राः संविदध्वं यथावत्।। adi-1-56-2x__268सदस्या ऊचुः।

adi-1-56-2__2262 बालोऽपि विप्रो मान्य एवेह राज्ञा `यश्चाविद्वान्यश्च विद्वान्यथावत्। प्रसादयैनं त्वरितो नरेन्द्र द्विजातिवर्यं सकलार्थसिद्धये।’ सर्वान्कामांस्त्वत्त एवार्हतेऽद्य यथा च नस्तक्षक एति शीघ्रम्।। सौतिरुवाच।

adi-1-56-3__2263 व्याहर्तुकामे वरदे नृपे द्विजं वरं वृणीष्वेति ततोऽब्युवाच। होता वाक्यं नातिहृष्टान्तरात्मा कर्मण्यस्मिंस्तक्षको नैति तावत्।। जनमेजय उवाच।

adi-1-56-4__2264 यथा चेदं कर्म समाप्यते मे यथा च वै तक्षक एति शीघ्रम्। तथा भवन्तः प्रयतन्तु सर्वे परं शक्त्या स हि मे विद्विषाणः।। adi-1-56-5x__271ऋत्विज ऊचुः।

यथा शस्त्राणि नः प्राहुर्यथा शंसति पावकः। इन्द्रस्य भवने राजंस्तक्षको भयपीडितः।।

adi-1-56-6__2266 यथा सूतो लोहिताक्षो महात्मा पौराणिको वेदितवान्पुरस्तात्। स राजानं प्राह पृष्टस्तदानीं यथाहुर्विप्रास्तद्वदेतन्नृदेव।।

adi-1-56-7__2267 पुराणमागम्य ततो ब्रवीम्यहं दत्तं तस्मै वरमिन्द्रेण राजन्। वसेह त्वं मत्सकाशे सुगुप्तो न पावकस्त्वां प्रदहिष्यतीति।।

adi-1-56-8__2268 एतच्छ्रुत्वा दीक्षितस्तप्यमान आस्ते होतारं चोदयन्कर्म काले। `इन्द्रेण सार्धं तक्षकं पातयध्वं विभावसौ न विमुच्येत नागः।’ होता च यत्तोऽस्याजुहावाथ मन्त्रै- रथो महेन्द्रः स्वयमाजगाम।।

adi-1-56-9__2269 `आयातु चेन्द्रोऽपि सतक्षकः पते- द्विभावसौ नागराजेन तूर्णम्। जम्भस्य हन्तेति जुहाव होता तदा जगामाहिदत्ताभयः प्रभुः।।’

adi-1-56-10__2270 विमानमारुह्य महानुभावः सर्वैर्देवैः परिसंस्तूयमानः। बलाहकैश्चाप्यनुगम्यमानो विद्याधरैरप्सरसां गणैश्च `नागस्य नाशो मम चैव नाशो भविष्यतीत्येव विचिन्तयानः।।’

adi-1-56-11__2271 तस्योत्तरीये निहितः स नागो भयोद्विग्नः शर्म नैवाभ्यगच्छत्। ततो राजा मन्त्रविदोऽब्रवीत्पुनः क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन्।। जनमेजय उवाच।

इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः। तमिन्द्रेणैव सहितं पातयध्यं विभावसौ।। सौतिरुवाच।

जनमेजयेन राज्ञा तु नोदितस्तक्षकं प्रति। होता जुहाव तत्रस्थं तक्षकं पन्नगं तथा।।

हूयमाने तथा चैव तक्षकः सपुरन्दरः। आकाशे ददृशे तत्र क्षणेन व्यथितस्तदा।।

पुरन्दरस्तु तं यज्ञं दृष्ट्वोरुभयमाविशत्। हित्वा तु तक्षकं त्रस्तः स्वमेव भवनं ययौ।।

adi-1-56-16__2276 इन्द्रे गते तु राजेन्द्र तक्षको भयमोहितः। मन्त्रशक्त्या पावकार्चिस्समीपमवशो गतः। `तं दृष्ट्वा ऋत्विजस्तत्र वचनं चेदमब्रुवन्’।। adi-1-56-17x__274ऋत्विज ऊचुः।

अयमायाति तूर्णं स तक्षकस्ते वशं नृप। श्रूयतेऽस्य महान्नादो नदतो भैरवं रवम्।।

adi-1-56-18__2278 नूनं मुक्तो वज्रभृता स नागो भ्रष्टो नाकान्मन्त्रवित्रस्तकायः। घूर्णन्नाकाशे नष्टसंज्ञोऽभ्युपैति तीव्रान्निश्वासान्निश्वसन्पन्नगेन्द्रः।।

वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो। अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि।। जनमेजय उवाच।

adi-1-56-20__2280 बालाभिरूपस्य तवाप्रमेय वरं प्रयच्छामि यथानुरूपम्। वृणीष्व यत्तेऽभिमतं हृदि स्थितं तत्ते प्रदास्याम्यपि चेददेयम्।। सौतिरुवाच।

पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि। इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत्।। आस्तीक उवाच।

वरं ददासि चेन्मह्यं वृणोमि जनमेजय। सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः।।

एवमुक्तस्तदा तेन ब्रह्मन्पारिक्षितस्तु सः। नातिहृष्टमनाश्चेदमास्तीकं वाक्यमब्रवीत्।।

सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो। तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम।। आस्तीक उवाच।

सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम्। सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः।। सौतिरुवाच।

आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा। पुनःपुनरुवाचेदमास्तीकं वदतां वरः।।

अन्यं वरय भद्रं ते वरं द्विज्वरोत्तम। अयाचत न चाप्यन्यं वरं स भृगुनन्दन।।

ततो वेदविदस्तात सदस्याः सर्व एव तम्। राजानमूचुः सहिता लभतां ब्राह्मणो वरम्।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि षट्पञ्चाशत्तमोऽध्यायः।। 56 ।।

1-56-1 संविदध्वमैकमत्यं कुरुध्वम्। संवदध्वमित्यपि पाठः।। 1-56-4 विद्विषाणः विद्वेषं कृतवान्। लिटः कान्च। अभ्यासलोप आर्षः।। 1-56-5 शस्त्राणि शंसनमन्त्रदेवताः।। 1-56-7 पुराणं पूर्वकल्पीयवृत्तान्तम्। आगम्य ज्ञात्वा।। 1-56-15 भयं आविशत् प्राप्तवान्।। 1-56-20 हे बाल।। षट्पञ्चाशत्तमोऽध्यायः।। 56 ।।

अध्यायः 057

सर्पसत्रे हतानां नागानां नामकथनम्।। 1 ।

adi-1-57-0__2289 शौनक उवाच।

ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने। तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज।। सौतिरुवाच।

सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च। न शक्यं परिसंख्यातुं बहुत्वाद्द्विजसत्तम।।

यथास्मृति तु नामानि पन्नगानां निबोध मे। उच्यमानानि मुख्यानां हुतानां जातवेदसि।।

वासुकेः कुलजातांस्तु प्राधान्येन निबोध मे। नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान्।।

अवशान्मातृवाग्दण्डपीडितान्कृपणान्हूतान्। कोटिशो मानसः पूर्णः शलः पालो हलीमकः।।

पिच्छलः कौणपश्चक्रः कालवेगः प्रकालनः। हिरण्यबाहुः शरणः कक्षकः कालदन्तकः।।

adi-1-57-7__2296 एते वासुकिजा नागाः प्रविष्टा हव्यवाहने। अन्ये च बहवो विप्र तथा वै कुलसंभवाः। प्रदीप्ताग्नौ हुताःसर्वे घोररूपा महाबलाः।।

तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान्। पुच्छाण्डको मण्डलकः पिण्डसेक्ता रभेणकः।।

उच्छिखः शरभो भङ्गो बिल्वतेजा विरोहणः। शिली शलकरो मूकः सुकुमारः प्रवेपनः।।

मुद्गरः शिशुरोमा च सुरोमा च महाहनुः। एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम्।।

पारावतः पारियात्रः पाण्डरो हरिणः कृशः। विहङ्गः शरभो मोदः प्रमोदः संहतापनः।।

ऐरावतकुलादेते प्रविष्टा हव्यवाहनम्। कौरव्यकुलजान्नागाञ्शृणु मे त्वं द्विजोत्तम।।

एरकः कुण्डलो वेणी वेणीस्कन्धः कुमारकः। बाहुकः शृङ्गबेरश्च धूर्तकः प्रातरातकौ।।

कौरव्यकुलजास्त्वेते प्रविष्टा हव्यवाहनम्। धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम्।।

कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान्। शङ्कुकर्णः पिठरकः कुठारमुखसेचकौ।।

पूर्णाङ्गदः पूर्णमुखः प्रहासः शकुनिर्दरिः। अमाहठः कामठकः सुषेणो मानसोऽव्ययः।।

adi-1-57-17__2306 `अष्टावक्रः कोमलकः श्वसनो मौनवेपगः।’ भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोदपारकः। ऋषभो वेगवान्नागः पिण्डारकमहाहनू।।

रक्ताङ्गः सर्वसारङ्गः समृद्धपटवासकौ। वराहको वीरणकः सुचित्रश्चित्रवेगिकः।।

पराशरस्तरुणको मणिः स्कन्धस्तथाऽऽरुणिः। इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः।।

प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः। एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः।।

adi-1-57-21__2310 न शक्यं परिसंख्यातुं ये दीप्तं पावकं गताः। `द्विशीर्षाः पञ्चशीर्षाश्च सप्तशीर्षास्तथाऽपरे। दशशीर्षाः शतशीर्षास्तथान्ये बहुशीर्षकाः’।।

कालानलविषा घोरा हुताः शतसहस्रशः। महाकाया महावेगाः शैलशृङ्गसमुच्छ्रयाः।।

योजनायामविस्तारा द्वियोजनसमायताः। कामरूपाः कामबला दीप्तानलविषोल्बणाः।।

adi-1-57-24__2313 दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपाडिताः।। ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सप्तपञ्चाशत्तमोऽध्यायः।। 57 ।।

1-57-23 योजनायमविस्तारा अपि मन्त्रसामर्थ्यात्स्वल्पप्रमाणाः अगस्त्यकरगतसमुद्रवद्वह्नौ प्रवेशयोग्या भवन्ति।। सप्तपञ्चाशत्तमोऽध्यायः।। 57 ।।

अध्यायः 058

आस्तीकवरप्रदानेन यज्ञसमाप्तिः।। 1 ।। प्रत्यागतस्यास्तीकस्य सर्पेभ्यो वरलाभः।। 2 ।।

adi-1-58-0__2314 सौतिरुवाच।

इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुम। तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन हि।।

इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत। ततश्चिन्तापरो राजा बभूव जनमेजयः।।

हूयमाने भृशं दीप्ते विधिवद्वसुरेतसि। न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः।। शौनक उवाच।

किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम्। न प्रत्यभात्तदाऽग्नौ यत्स पपात न तक्षकः।। सौतिरुवाच।

तमिन्द्रहस्ताद्वित्रस्तं विसंज्ञं पन्नगोत्तमम्। आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत्।।

वितस्थे सोऽन्तरिक्षे च हृदयेन विदूयता। यथा तिष्ठति वै कश्चित्खं च गां चान्तरा नरः।।

ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम्। काममेतद्भवत्वेवं यथास्तीकस्य भाषितम्।।

समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः। प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत्।।

ततो हलहलाशब्दः प्रीतिजः समजायत। आस्तीकस्य वरे दत्ते तथैवोपरराम च।।

स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह। प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः।।

ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः। तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः।।

लोहिताक्षाय सूताय तथा स्थपतये विभुः। येनोक्तं तस्य तत्राग्रे सर्पसत्रनिवर्तने।।

निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु। दत्त्वा द्रव्यं यथान्यायं भोजनाच्छादनान्वितम्।।

प्रीतस्तस्मै नरपतिरप्रमेयपराक्रमः। ततश्चकारावभृथं विधिदृष्टेन कर्मणा।।

आस्तीकं प्रेषयामास गृहानेव सुसंस्कृतम्। राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम्।।

पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत्। भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ।।

तथेत्युक्त्वा प्रदुद्राव तदास्तीको मुदा युतः। कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम्।।

स गत्वा परमप्रीतो मातुलं मातरं च ताम्। अभिगम्योपसंगृह्य तथा वृत्तं न्यवेदयत्।। सौतिरुवाच।

adi-1-58-19__2333 एतच्छ्रुत्वा प्रीयमाणाः समेता ये तत्रासन्पन्नगा वीतमोहाः। आस्तीके वै प्रीतिमन्तो बभूवु- रूचुश्चैनं वरमिष्टं वृमीष्व।।

adi-1-58-20__2334 भूयोभूयः सर्वशस्तेऽब्रुवंस्तं किं ते प्रियं करवामाद्य विद्वन्। प्रीता वयं मोक्षिताश्चैव सर्वे कामं किं ते करवामाद्य वत्स।। आस्तीक उवाच।

adi-1-58-21__2335 सायं प्रातर्ये प्रसन्नात्मरूपा लोके विप्रा मानवा ये परेऽपि। धर्माख्यानं ये पठेयुर्ममेदं तेषां युष्मन्नैव किंचिद्भयं स्यात्।।

adi-1-58-22__2336 तैश्चाप्युक्तो भागिनेयः प्रसन्नै- रेतत्सत्यं काममेवं वरं ते। प्रीत्या युक्ताः कामितं सर्वशस्ते कर्तारः स्म प्रवणा भागिनेय।।

असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत्। दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत्।।

adi-1-58-24__2338 यो जरत्कारुणा जातो जरत्कारौ महावशाः। आस्तीकः सर्पसत्रे वः पन्नगान्योऽभ्यरक्षत। तं स्मरन्तं महाभागा न मां हिंसितुमर्हथ।।

सर्पापसर्प भद्रं ते गच्छ सर्प महाविष। जनेमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर।।

आस्तीकस्य वचः श्रुत्वा यः सर्पो न निवर्तते। शतधा भिद्यते मूर्धा शिंशवृक्षफलं यथा।। सौतिरुवाच।

adi-1-58-27__2341 स एवमुक्तस्तु तदा द्विजेन्द्रः समागतैस्तैर्भुजगेन्द्रमुख्यैः। संप्राप्य प्रीतिं विपुलां महात्मा ततो मनो गमनायाथ दध्रे।।

adi-1-58-28__2342 `इत्येवं नागराजोऽथ नागानां मध्यगस्तदा। उक्त्वा सहैव तैः सर्पैः स्वमेव भवनं ययौ।।’

मोक्षयित्वा तु भुजगान्सर्पसत्राद्द्विजोत्तमः। जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान्।।

इत्याख्यानं मयास्तीकं यथावत्तव कीर्तितम्। यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित्।। सौतिरुवाच।

यथा कथितवान्ब्रह्मन्प्रमतिः पूर्वजस्तव। पुत्राय रुरवे प्रीतः पृच्छते भार्गवोत्तम।।

यद्वाक्यं श्रुतवांश्चाहं तथा च कथितं मया। आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः।।

यन्मां त्वं पृष्टवान्ब्रह्मञ्श्रुत्वा डुण्डुभभाषितम्। व्येतु ते सुमहद्ब्रह्मन्कौतूहलमरिन्दम।।

adi-1-58-34__2348 श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम्। `सर्वपापविनिर्मुक्तो दीर्घमायुरवाप्नुयात्।।’ ।।

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि अष्टपञ्चाशत्तमोऽध्यायः।। 58 ।। ।। समाप्तं चास्तीकपर्व ।।

1-58-6 स्वं च गांचान्तराद्यावापृथिव्योर्मध्ये अन्तरिक्ष इत्यर्थः।। 1-58-12 स यज्ञ उपररामेति पूर्वेणान्वयः।। 1-58-14 अवभृथं यज्ञसमाप्तिं।। 1-58-15 सुसंस्कृतं वस्त्रालङ्करणादिभिः शोभितम्।। 1-58-22 प्रवणा नम्राः।। 1-58-29 दिष्टान्तं मरणम्।। अष्टपञ्चाशत्तमोऽध्यायः।। 58 ।।

अध्यायः 059

(अथांशावतरणपर्व।। 6 ।।)

सौतेर्भारतकथनप्रतिज्ञा।। 1 ।।

adi-1-59-0__2349 शौनक उवाच।

भृगुवंशात्प्रभृत्येव त्वया मे कीर्तितं महत्। आख्यानमखिलं तात सौते प्रीतोऽस्मितेन ते।।

प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन। याः कथा व्याससंपन्नास्ताश्च भूयो विचक्ष्व मे।।

तस्मिन्परमदुष्पारे सर्पसत्रे महात्मनाम्। कर्मान्तरेषु यज्ञस्य सदस्यानां तथाऽध्वरे।।

या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम्। त्वत्त इच्छामहे श्रोतुं सौते त्वं वै प्रचक्ष्व नः।। सौतिरुवाच।

कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः। व्यासस्त्वकथयच्चित्रमाख्यानं भारतं महत्।। शौनक उवाच।

महाभारतमाख्यानं पाण्डवानां यशस्करम्। जनमेजयेन पृष्टः सन्कृष्णद्वैपायनस्तदा।।

श्रावयामास विधिवत्तदा कर्मान्तरे तु सः। तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम्।।

मनःसागरसंभूतां महर्षेर्भावितात्मनः। कथयस्व सतां श्रेष्ठ सर्वरत्नमयीमिमाम्।। सौतिरुवाच।

हन्त ते कथयिष्यामि महदाख्यानमुत्तमम्। कृष्णद्वैपायनमतं महाभारतमादितः।।

शृणु सर्वमशेषेण कथ्यमानं मया द्विज। शंसितुं तन्महान्हर्षो ममापीह प्रवर्तते।। ।।

इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि एकोनषष्टितमोऽध्यायः।। 59 ।।

अध्यायः 060

भारतकथानुबन्धः।। 1 ।।

adi-1-60-0__2360 सौतिरुवाच।

श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम्। अभ्यगच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा।।

जनयामास यं काली शक्तेः पुत्रात्पराशरात्। कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम्।।

जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत्। वेदांश्चाधिजगे साङ्गन्सेतिहासान्महायशाः।।

यं नाति तपसा कश्चिन्न वेदाध्ययनेन च। न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना।।

विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः। परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः।।

यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत्। शन्तनोः संततिं तन्वन्पुण्यकीर्तिर्महायशाः।।

जनमेजयस्य राजर्षेः स महात्मा सदस्तथा। विवेश सहितः शिष्यैर्वेदवेदाङ्गपारगैः।।

तत्र राजानमासीनं ददर्श जनमेजयम्। वृतं सदस्यैर्बहुभिर्देवैरिव पुरन्दरम्।।

तथा मूर्धाभिषिक्तैश्च नानाजनपदेश्वरैः। ऋत्विग्भिर्ब्रह्मकल्पैश्च कुशलैर्यज्ञसंस्तरे।।

जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम्। सगणोऽभ्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः।।

काञ्चनं विष्टरं तस्मै सदस्यानुमतः प्रभुः। आसनं कल्पयामास यथा शक्रो बृहस्पतेः।।

तत्रोपविष्टं वरदं देवर्षिगणपूजितम्। पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा।।

पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः। पितामहाय कृष्णाय तदर्हाय न्यवेदयत्।।

प्रतिगृह्य तु तां पूजां पाम्डवाज्जनमेजयात्। गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा।।

तथा च पूजयित्वा तं प्रणयात्प्रतितामहम्। उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम्।।

भगवानापि तं दृष्ट्वा कुशलं प्रतिवेद्य च। सदस्यैः पूजितः सर्वैः सदस्यान्प्रत्यपूजयत्।।

ततस्तु सहितः सर्वैः सदस्यैर्जनमेजयः। इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः।। जनमेजय उवाच।

कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान्। तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज।।

कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम्। तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत्।।

adi-1-60-20__2380 पितामहानां सर्वेषां दैवेनाविष्टचेतसाम्। कार्त्स्न्येनैतन्ममाचक्ष्व यथा वृत्तं द्विजोत्तम। `इच्छामि तत्त्वतः श्रोतुं भगवन्कुशलो ह्यसि’।। सौतिरुवाच।

तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा। शशास शिष्यमासीनं वैशंपायनमन्तिके।। व्यास उवाच।

कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा। तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि।।

गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा। आचचक्षे ततः सर्वमितिहासं पुरातनम्।।

राज्ञे तस्मै सदस्येभ्यः पार्थिवेभ्यश्च सर्वशः। भेदं सर्वविनाशं च कुरुपाण्डवयोस्तदा।। ।।

इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि षष्टितमोऽध्यायः।। 60 ।।

1-60-2 काली सत्यवती।। 1-60-3 इष्ट्या इच्छया देहं सद्योऽवीवृधत् वर्धितवान्।। 1-60-4 यं व्यासम्। तपआदिना कश्चिन्नाति नात्येति नातिशेते।। 1-60-15 उपोपविश्य समीपे उपविश्य।। 1-60-16 प्रतिवेद्य प्रतिख्याप्य। अत्र पूजा स्तुतिरेव।। 1-60-17 इदं वक्ष्यमाणम्।। 1-60-18 प्रत्यक्षदर्शिवान् प्रत्यक्षदर्शी।। 1-60-19 भेदो वैरम्।। 1-60-20 पितामहानां प्रपितामहानाम्।। षष्टितमोऽध्यायः।। 60 ।।

अध्यायः 061

वैशंपायनेन जनमेजयाय संक्षिप्य भारतकथाकथनम्।। 1 ।।

adi-1-61-0__2385 वैशंपायन उवाच।

adi-1-61-1__2386 `शृणु राजन्यथा वीरा भ्रातरः पञ्च पाण्डवाः। विरोधमन्वगच्छन्त धार्तराष्ट्रैर्दुरात्मभिः।।’

गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः। संपूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान्।।

महर्षेर्विश्रुतस्येह सर्वलोकेषु धीमतः। प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः।।

श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम्। गुरोर्वक्त्रपरिस्पन्दो मनः प्रोत्साहतीव मे।।

शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत्। राज्यार्थे द्यूतसंभूतो वनवासस्तथैव च।।

यथा च युद्धमभवत्पृथिवीक्षयकारकम्। तत्तेऽहं कथयिष्यामि पृच्छते भरतर्षभ।।

मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम्। नचिरादेव विद्वांसो वेदे धनुषि चाभवन्।।

तांस्तथा सत्ववीर्यौजःसंपन्नान्पौरसंमतान्। नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः।।

ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः। तेषां निग्रहनिर्वासान्विविधांस्ते समारभन्।।

ततो दुर्योधनः क्रूरः कुलिङ्गस्य मते स्थितः। पाम्डवान्विविधोपायै राज्यहेतोरपीडयत्।।

ददावथ विषं पापो भीमाय धृतराष्ट्रजः। जरयामास तद्वीरः सहान्नेन वृकोदरः।।

प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम्। तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत्।।

यदा विबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम्। उदतिष्ठन्महाबाहुर्भीमसेनो गतव्यथः।।

आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत्। सर्वेष्वेवाङ्गदेशेषु न ममार स शत्रुहा।।

तेषां तु विप्रकारेषु तेषु तेषु महामतिः। मोक्षणे प्रतिकारे च विदुरोऽवहितोऽभवत्।।

स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः। पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः।।

यदा तु विविधोपायैः संवृतैर्विवृतैरपि। नाशकद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान्।।

ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः। धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत्।।

adi-1-61-19__2404 `तत्र तान्वासयामास पाण्डवानमितौजसः।’ सुतप्रियैषी तान्राजा पाण्डवानम्बिकासुतः। ततो विवासयामास राज्यभोगबुभुक्षया।।

ते प्रातिष्ठन्त सहिता नगरान्नागसाह्वयात्। प्रस्थाने चाभवन्मन्त्री क्षत्ता तेषां महात्मनाम्।।

तेन मुक्ता जतुगृहान्निशीथे प्राद्रवन्वनम्। ततः संप्राप्य कौन्तेया नगरं वारणावतम्।।

न्यवसन्त महात्मानो मात्रा सह परन्तपाः। धृतराष्ट्रेण चाज्ञप्ता उषिता जातुषे गृहे।।

पुरोचनाद्रक्षमाणाः संवत्सरमतन्द्रिताः। सुरुङ्गां कारयित्वा तु विदुरेण प्रचोदिताः।।

आदीप्य जातुषं वेश्म दग्ध्वा चैव पुरोचनम्। प्राद्रवन्भयसंविग्ना मात्रा सह पन्तपाः।।

ददृशुर्दारुमं रक्षो हिडिम्बं वननिर्झरे। हत्वा च तं राक्षसेन्द्रं भीताः समवबोधनात्।।

निशि संप्राद्रवन्पार्था धार्तराष्ट्रभयार्दिताः। प्राप्ता हिडिम्बा भीमेन यत्र जातो घटोत्कचः।।

एकचक्रां ततो हत्वा पाण्डवाः संशितव्रताः। वेदाध्ययनसंपन्नास्तेऽभवन्ब्रह्मचारिणः।।

ते तत्र नियताः कालं कंचिदूषुर्नरर्षभाः। मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने।।

तत्राससाद क्षुधितं पुरुषादं वृकोदरः। भीमसेनो महाबाहुर्बकं नाम महाबलम्।।

तं चापि पुरुषव्याघ्रो बाहुवीर्येण पाण्डवः। निहत्य तरसा वीरो नागरान्पर्यसान्त्वयत्।।

ततस्ते शुश्रुवुः कृष्णां पञ्चालेषु स्वयंवराम्। श्रुत्वा चैवाभ्यगच्छ्त गत्वा चैवालभन्त ताम्।।

ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः। विदिता हास्तिनपुरं प्रत्याजग्मुररिन्दमाः।।

ते उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च। भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति।।

अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः। तस्माज्जनपदोपेतं सुविभक्तमहापथम्।।

वासाय स्वाण्डवप्रस्थं व्रजध्वं गतमत्सराः। तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः।।

नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः। तत्र ते न्यवसन्पार्थाः संवत्सरगणांन्बहून्।।

वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीभृतः। एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः।।

अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितान्बहून्। अजयद्भीमसेनस्तु दिशं प्राचीं महायशाः।।

उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा। दक्षिणां सहदेवस्तु विजिग्ये परवीरहा।।

एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम्। पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता।।

षट्सूर्येवाभवत्पृथ्वी पाण्डवैः सत्यविक्रमैः। ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः।।

वनं प्रस्थापयामास तेजस्वी सत्यविक्रमः। प्राणेभ्योऽपि प्रियतरं भ्रातरं सव्यसाचिनम्।।

अर्जुनं पुरुषव्याघ्रं स्थिरात्मानं गुणैर्युतम्। स वै संवत्सरं पूर्णं मासं चैकं वने वसन्।।

`तीर्थयात्रां च कृतवान्नागकन्यामवाप च। पाण्ड्यस्य तनयां लब्ध्वा तत्र ताभ्यांसहोषितः’।।

ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन। लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम्।।

अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम्। सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता।।

सुभद्रा युयुजे प्रीत्या पाण्डवेनार्जुनेन ह। अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम्।।

बीभत्सुर्वासुदेवेन सहितो नृपस्तम। नातिभारो हि पार्थस्य केशवेन सहाभवत्।।

व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव। पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम्।।

इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम्। मोक्षयामास बीभत्सुर्मयं यत्र महासुरम्।।

स चकार सभां दिव्यां सर्वरत्नसमाचिताम्। तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः।।

ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम्। वनं प्रस्थापयामास सप्तवर्षाणि पञ्च च।।

अज्ञातमेकं राष्ट्रे च ततो वर्षं त्रयोदशम्। ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु।।

नालभन्त महाराज ततो युद्धमवर्तत। ततस्ते क्षत्रमुत्साद्य हत्वा दुर्योधनं नृपम्।।

राज्यं विहतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः। `इष्ट्वा क्रतूंश्च विविधानश्वमेधादिकान्बहून्।।

धृतराष्ट्रे गते स्वर्गं विदुरे पञ्चतां गते। गमयित्वा क्रियां स्वर्ग्यां राज्ञाममिततेजसाम्।।

स्वं धाम याते वार्ष्णेये कृष्णदारान्प्ररक्ष्य च। महाप्रस्थानिकं कृत्वा गताः स्वर्गमनुत्तमम्’।।

एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम्। भेदो राज्यविनाशश्च जयश्च जयतांवर।। ।।

इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि एकषष्टितमोऽध्यायः।। 61 ।।

1-61-4 प्रोत्साहतीव प्रोत्साहयतीव। परिस्पन्दमुदुत्साहयतीव मे इति पाठेगुरोर्वक्त्रपरिस्पन्दस्त्वं कथां कथयेत्याज्ञावचनं तज्जन्या मुत्प्रीतिः सा प्रोत्साहयती।। 4 ।। 1-61-7 नचिरात् शीघ्र। विद्वांसोऽमवन्।। 1-61-12 प्रमाणकोट्यां गङ्गायास्तीर्थविशेषे। वृकनामा बहुभ क्षोऽग्निरुदरे यस्य स वृकोदरः।। 1-61-17 संवृतैर्गुप्तैः। विवृतै प्रकाशैः। दैवभाव्यर्थरक्षितान् दैवेनादृष्टेन भावी कुरुक्षयपाण्ड वराज्यलाभादिरर्थस्तस्मै रक्षितान्।। 1-61-18 वृषः कर्णः जातुषं लाक्षामयम्।। 1-61-20 अभवन्मित्रमित्यपि पाठः। क्षत्ता विदुरः।। 1-61-21 तेन क्षत्तुर्मन्त्रणेन।। 1-61-31 स्वयं वृणुते इति स्वयंवरा ताम्।। 1-61-33 शान्तनवेन भीष्मेण।। 1-61-36 आदाय भागश इत्यपि पाठः।। 1-61-48 नातीति खाण्डवदाह इति शेषः।। 1-61-49 व्यवसायो बुद्धिः।। 1-61-50 बाणैर्युक्ताविति शेषः। कपिलक्षणं वानरध्वजं। यत्र खाण्डवदाहे।। एकषष्टितमोऽध्यायः।। 61 ।।

अध्यायः 062

भारतप्रशंसा।। 1 ।। तच्छ्रवणादिफलकथनम्।। 2 ।।

adi-1-62-0__2444 जनमेजय उवाच।

कथितं वै समासेन त्वया सर्वं द्विजोत्तम। महाभारतमाख्यानं कुरूणां चरितं महत्।।

कथां त्वनघ चित्रार्थां कथयस्व तपोधन। विस्तरश्रवणे जातं कौतूहलमतीव मे।।

स भवान्विस्तरेणेमां पुनराख्यातुमर्हति। न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्।।

न तत्कारणमल्पं वै धर्मज्ञा यत्र पाण्डवाः। अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः।।

किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः। प्रयुज्यमानान्संक्लेशान्क्षान्तवन्तो दुरात्मनाम्।।

कथं नागायुतप्राणो बाहुशाली वृकोदरः। परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम।।

कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः। शक्ता सती धार्तराष्ट्रान्नादहत्क्रोधचक्षुषा।।

कथं व्यसनिनं द्यूते पार्थौ माद्रीसुतौ तदा। अन्वयुस्ते नरव्याघ्रा बाध्यमाना दुरात्मभिः।।

कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित्। अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः।।

कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः। अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनंजयः।।

एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन। यद्यच्च कृतवन्तस्ते तत्रतत्र महारथाः।। वैशंपायन उवाच।

क्षणं कुरु महाराज विपुलोऽयमनुक्रमः। पुण्याख्यानस्य वक्तव्यः कृष्णद्वैपायनेरितः।।

महर्षेः सर्वलोकेषु पूजितस्य महात्मनः। प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः।।

इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम्। सत्यवत्यात्मजेनेह व्याख्यातममितौजसा।।

`उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम्। संक्षेपेण तु वक्ष्यामि सर्वमेतन्नराधिप।।

adi-1-62-16__2460 अध्यायानां सहस्रे द्वे पर्वणां शतमेव च। श्लोकानां तु सहस्राणि नवतिश्च दशैव च। ततोऽष्टादशभिः पर्वैः संगृहीतं महर्षिणा’।।

य इदं श्रावयेद्विद्वान्ये चेदं शृणुयुर्नराः। ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम्।।

इदं हि वेदैः समितं पवित्रमपि चोत्तमम्। श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम्।।

अस्मिन्नर्थश्च कामश्च निखिलेनोपदेक्ष्यते। इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी।।

अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान्। कार्ष्णं वेदमिमं विद्वाञ्छ्रावयित्वाऽर्थमश्नुते।।

भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम्। इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः।।

मुच्यते सर्वपापेभ्यो राहुणा चन्द्रमा यथा। जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा।।

महीं विजयते राजा शत्रूंश्चापि पराजयेत्। इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत्।।

महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा। वीरं जनयते पुत्रं कन्यां वा राज्यभागिनीम्।।

धर्मशास्त्रमिदं पुण्यमर्थशास्त्रमिदं परम्। मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना।।

adi-1-62-26__2470 `धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ। यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचित्। इदं हि ब्राह्मणैर्लोके आख्यातं ब्राह्मणेष्विह’।।

संप्रत्याचक्षते चेदं तथा श्रोष्यन्ति चापरे। पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः।।

भरतानां महज्जन्म शृण्वतामनसूयताम्। नास्ति व्याधिभयं तेषां परलोकभयं कुतः।।

शरीरेण कृतं पापं वाचा च मनसैव च। सर्वं संत्यजति क्षिप्रं य इदं शृणुयान्नरः।।

धन्यं यशस्यमायुष्यं पुण्यं स्वर्ग्यं तथैव च। कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा।।

कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम्। अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम्।।

सर्वविद्यावदातानां लोके प्रथितकर्मणाम्। य इदं मानवो लोके पुण्यार्थे ब्राह्मणाञ्छुचीन्।।

श्रावयेत महापुण्यं तस्य धर्मः सनातनः। कुरूणां प्रथितं वंशं कीर्तयन्सततं शुचिः।।

वंशमाप्नोति विपुलं लोके पूज्यतमो भवेत्। योऽधीते भारतं पुम्यं ब्राह्मणो नियतव्रतः।।

चतुरो वार्षिकान्मासान्सर्वपापैः प्रमुच्यते। विज्ञेयः स च वेदानां पारगो भारतं पठन्।।

देवा राजर्षयो ह्यत्र पुण्या ब्रह्मर्षयस्तथा। कीर्त्यन्ते धूतपाप्मानः कीर्त्यते केशवस्तथा।।

भगवांश्चापि देवेशो यत्र देवी च कीर्त्यते। अनेकजननो यत्र कार्तिकेयस्य संभवः।।

ब्राह्मणानां गवां चैव माहात्म्यं यत्र कीर्त्यते। सर्वश्रुतिसमूहोऽयं श्रोतव्यो धर्मबुद्धिभिः।।

य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु। धूतपाप्मा जितस्वर्गो ब्रह्म गच्छति शाश्वतम्।।

श्रावयेद्ब्राह्मणाञ्श्राद्धे यश्चेमं पादमन्ततः। अक्षय्यं तस्य तच्छ्राद्धमुपावर्तेत्पितॄनिह।।

अह्ना यदेनः क्रियते इन्द्रियैर्मनसाऽपि वा। ज्ञानादज्ञानतो वापि प्रकरोति नरश्च यत्।।

तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते। भरतानां महज्जन्म महाभारतमुच्यते।।

निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते। भरतानां महज्जन्म महाभारतमुच्यते।।

महतो ह्येनसो मर्त्यान्मोचयेदनुकीर्तितः। त्रिभिर्वर्षैर्महाभागः कृष्णद्वैपायनोऽब्रवीत्।।

नित्योत्थितः शुचिः शक्तो महाभारतमादितः। तपोनियममास्थाय कृतमेतन्महर्षिणा।।

तस्मान्नियमसंयुक्तैः श्रोतव्यं ब्राह्मणैरिदम्। कृष्णप्रोक्तामिमां पुण्यां भारतीमुत्तमां कथाम्।।

श्रावयिष्यन्ति ये विप्रा ये च श्रोष्यन्ति मानवाः। सर्वथा वर्तमाना वै न ते शोच्याः कृताकृतैः।।

नरेण धर्मकामेन सर्वः श्रोतव्य इत्यपि। निखिलेनेतिहासोऽयं ततः सिद्धिमवाप्नुयात्।।

न तां स्वर्गगतिं प्राप्य तुष्टिं प्राप्नोति मानवः। यां श्रुत्वैवं महापुण्यमितिहासमुपाश्नुते।।

शृण्वञ्श्राद्धः पुण्यशीलः श्रावयंश्चेदमद्भुतम्। नरः फलमवाप्नोति राजसूयाश्वमेधयोः।।

यथा समुद्रो भगवान्यथा मेरुर्महागिरिः। उभौ ख्यातौ रत्ननिधी तथा भारतमुच्यते।।

इदं हि वेदैः समितं पवित्रमषि चोत्तमम्। श्राव्यं श्रुतिसुखं चैव पावनं शीलवर्धनम्।।

य इदं भारतं राजन्वाचकाय प्रयच्छति। तेन सर्वा मही दत्ता भवेत्सागरमेखला।।

पारिक्षित कथां दिव्यां पुण्याय विजयाय च। कथ्यमानां मया कृत्स्नां शृणु हर्षकरीमिमाम्।।

त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः। महाभारतमाख्यानं कृतवानिदमद्भुतम्।।

adi-1-62-56__2500 शृणु कीर्तयतस्तन्म इतिहासं पुरातनम्।। ।।

इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि द्विषष्टितमोऽध्यायः।। 62 ।।

1-62-4 अवध्यान् भीष्मद्रोणादीन्।। 1-62-6 क्रोधं धृतवान् निरुद्धवान्।। 1-62-10 अस्यन् शरान् क्षिपन् स कथं क्लेशं सोढवानित्यनुषज्ज्यते।। 1-62-18 ऋषिभिर्मन्त्रैस्तद्द्रष्टृभिर्वा संस्तुतं समं स्तुतं वा।। 1-62-19 परिनैष्ठिकी परिनिष्ठा मोक्षस्तदुचिता।। 1-62-20 अनास्तिकान् नास्तिका न भवन्तीत्यनास्तिकास्तान्।। 1-62-23 पुंसवनं पुमांसः सूयन्तेऽस्मिन् श्रुते।। 1-62-24 महिषी पट्टराज्ञी।। 1-62-47 सर्वथा साधुनाऽसाधुना वा वर्त्मना वर्तमाना अपि कृताकृतैः क्रमेण पापपुण्यैस्ते न शोच्याः। एतच्छ्रवणादेव सर्वप्रत्यवायपरिहारो भवतीति भावः।। 1-62-49 स्वर्गादप्येतच्छ्रवणं सुखकरं मुक्तिहेतुत्वादिति भावः।। 1-62-50 श्राद्धः श्रद्धावान्।। 1-62-52 श्राव्यमर्थतो रम्यम्।। 1-62-55 सदोत्थायी सदोद्युक्तः।। द्विषष्टितमोऽध्यायः।। 62 ।।

अध्यायः 063

पूरुवंशकथनम्।। 1 ।।

adi-1-63-0__2501 वैशंपायन उवाच।

पूरोर्वंशमहं धन्यं राज्ञाममिततेजसाम्। प्रवक्ष्यामि पितॄणां ते तेषां नामानि मे शृमु।।

अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः। तस्मान्मरीचिः संजज्ञे दक्षश्चैव प्रजापतिः।।

अङ्गुष्ठाद्दक्षमसृजच्चक्षुर्भ्यां च मरीचिनम्। मरीचेः कश्यपः पुत्रो दक्षस्य दुहिताऽऽदितिः।।

अदित्यां कश्यपाद्विवस्थान्। विवस्वतो मनुर्मनोरिला।।

adi-1-63-5__2506 इलायाः पुरूरवाः। पुरूरवस आयुः। आयुषो नहुषः। नहुषस्य ययातिः।।

ययातेर्द्वे भार्ये बभूवतुः। उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम।।

adi-1-63-7__2508 तत्रानुवंशो भवति। यदुं च तुर्वसुं चैव देवयानी व्यजायत। द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी।।

adi-1-63-8__2509 तत्र यदोर्यादवाः। पूरोः पौरवाः। पूरोर्भार्या कौसल्या बभूव। तस्यामस्य जज्ञे जनमेजयः।।

स त्रीन्हयमेधानाजहार। विश्वजिता चेष्ट्वा वनं प्रविवेश।।

जनमेजयस्तु सुनन्दां नामोपयेमे मागधीं। तस्यामस्य जज्ञे प्राचीन्वान्।।

यः प्राचीं दिशं जिगाय। यावत्सूर्यादयात् तत्तस्य प्राचीनत्वम्।।

प्राचीन्वांस्तु खल्वाश्मकीमुपयेमे यादवीम्। तस्यामस्य जज्ञे शस्यातिः।।

adi-1-63-13__2514 शय्यातिस्तु त्रिशङ्कोर्दुहितरं वराङ्गीं नामोपयेमे तस्यामस्य जज्ञेऽहंयातिः।।

अहंयातिस्तु खलु कृतवीर्यदुहितरं भानुमतीं नामोपयेमे। तस्यामस्य जज्ञे सार्वभौमः।।

सार्वभौमस्तु खलु जित्वाऽऽजहार कैकयीं सुन्दरां नाम तामुपयेमे। तस्यामस्य जज्ञे जयत्सेनः।।

जयत्सेनस्तु खलु वैदर्भीमुपयेमे सुश्रवां नाम। तस्यामस्य जज्ञेऽपराचीनः।।

अपराचीनस्तु खलु वैदर्भीमपरामुपयेमे मर्यादां नाम। तस्यामस्य जज्ञेऽरिहः।।

अरिहः खल्वाङ्गीमुपेयेमे। तस्यामस्य जज्ञे महाभौमः।।

महाभौमस्तु खलु प्रसेनजिद्दुहितरमुपयेमे सुयज्ञां नाम। तस्यामस्य जज्ञे अयुतानायी।।

adi-1-63-20__2521 यः पुरुषमेधे पुरुषाणामयुतमानयत्तत्तस्यायुतानायित्वम्।।

अयुतानायी तु खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम। तस्यामस्य जज्ञेऽक्रोधनः।।

अक्रोधनस्तु खलु कालिङ्गीं कण्डूं नामोपयेमे। तस्यामस्य जज्ञे देवातिथिः।।

adi-1-63-23__2524 देवातिथिस्तु खलु वैदर्भीमुपयेमे मर्यादां नाम तस्यामस्य जज्ञे ऋचः।।

adi-1-63-24__2525 ऋचस्तु खलु वामदेव्यामङ्गराजकन्यायामृक्षं पुत्रमजीजनत्।।

ऋक्षस्तु खलु तक्षकदुहितरं ज्वलन्तीं नामोपयेमे। तस्यामन्त्यनारमुत्पादयामास।।

अन्त्यनारस्तु खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार। तमुदवसाने सरस्वत्यभिगम्य भर्तारं वरयामास।।

तस्यां पुत्रं जनयामास त्रस्नुं नाम। अत्रानुवंशो भवति।।

त्रस्नुं सरस्वती पुत्रमन्त्यनारादजीजनत्। इलिलं जनयामास कालिन्द्यांत्रस्नुरात्मजम्।।

adi-1-63-29__2530 इलिलस्तु रथन्तर्यां दुष्यन्तादीन्पञ्च पुत्रानजीजनत्।।

adi-1-63-30__2531 दुष्यन्तस्तु लाक्षीं नाम भागीरथीमुपयेमे तस्यामस्य जज्ञे जनमेजयः।।

सएव दुष्यन्तो विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे। तस्यामस्य जज्ञे भरतः।।

adi-1-63-32__2533 तत्रेमौ श्लोकौ भवतः। माता भस्त्रा पितुः पुत्रो यस्माज्जातः स एव सः। भरस्व पुत्रं दौष्यन्तिं सत्यमाह शकुन्तला।।

रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्। त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला।।

adi-1-63-34__2535 ततोऽस्य भरतत्वम्। भरतस्तु खलु काशेयीं सार्वसेनीमुपयेमे सुनन्दां नाम। तस्यामस्य जज्ञे भुमन्युः।।

भुमन्युस्तु खलु दाशार्हीमुपयेमे सुवर्णां नाम। तस्यामस्य जज्ञे सुहोत्रः।।

adi-1-63-36__2537 सुहोत्रस्तु खल्वैक्ष्वाकीमुपयेमे जयन्तीं नाम। तस्यामस्य जज्ञे हस्ती। य इदं पुरं निर्मापयामास।।

तस्माद्धास्तिनपुरत्वम्। हस्ती खलु त्रैगर्तीमुपयेमे यशोदां नाम तस्यामस्य जज्ञे विकुञ्जतः।।

विकुञ्जनस्तु खलु दाशार्हीमुपयेमे सुन्दरां नाम। तस्यामस्य जज्ञेऽजमीढः।।

अजमीढस्य तु चतुर्विंशतिपुत्रशतं बभूव। कैकय्यां नागायां गान्धार्यां विमलायामृक्षायामिति।।

पृथग्वंशकर्तारो नृपतयः। तत्र अजमीढादृक्षायां संवरणो जज्ञे स वंशकरः।।

सवरणस्तु वैवस्वतीं तपतीं नामोपयेमे। तस्यामस्य जज्ञे कुरुः।।

कुरुस्तु खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम। तस्यामस्य जज्ञे विदूरथः।।

विदूरथस्तु खलु मागधीमुपयेमे संप्रियां नाम। तस्यामस्य जज्ञेऽनश्वान्।।

अनश्वांस्तु खलु मागधीमुपयेमेऽमृतां नाम। तस्यामस्य जज्ञे परिक्षित्।।

परिक्षित्खलु बाहुकामुपयेमे सुवेषां नाम। तस्यामस्य जज्ञे भीमसेनः।।

भीमसेनस्तु खलु कैकयीमुपयेमे सुकुमारीं नाम। तस्यामस्य जज्ञे परिश्रवाः।।

adi-1-63-47__2548 यमाहुः प्रतीप इति। प्रतीपस्तु खलु शैब्यामुपयेमे सुनन्दीं नाम। तस्यां त्रीन्पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति।।

देवापिस्तु खलु बाल एवारण्यं प्रविवेश। शन्तनुस्तु महीपालोऽभवत्।।

adi-1-63-49__2550 तत्र श्लोको भवति। यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते। पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः।।

adi-1-63-50__2551 तदस्य शन्तनुत्वं। शन्तनुस्तु खलु गङ्गां भागीरथीमुपयेमे तस्यामस्य जज्ञे देवव्रतः। यमाहुर्भीष्म इति।।

भीष्मस्तु खलु पितुः प्रियचिकीर्षया सत्यवतीमानयामास मातरं। यामाहुः कालीति।।

तस्यां पूर्वं पुराशरात्कन्यागर्भो द्वैपायनः। तस्यामेव शन्तनोर्द्वौ पुत्रौ बभूवतुः चित्राङ्गदो विचित्रवीर्यश्च।।

चित्राङ्गदस्तु प्राप्तराज्य एव गन्धर्वेण निहृतः। ततो विचित्रवीर्यो राजा बभूव।।

विचित्रवीर्यस्तु खलुकाशिराजस्य सुते अम्बिकाम्बालिके उदवहत्। विचित्रवीर्योऽनुत्पन्नापत्य एव विदेहत्वं प्राप्तः।।

adi-1-63-55__2556 ततः सत्यवती चिन्तयामास कथं नु खलु शन्तनोः पिण्डविच्छेदो न स्यादिति।।

साथ द्वैपायनं चिन्तयामास सोऽग्रतः स्थितः किं करवाणीति। तं सत्यवत्युवाच भ्राता तेऽनपत्य एव स्वर्गतः तस्यार्थेऽपत्यमुत्पादयेति।।

adi-1-63-57__2558 स परमित्युवाच स तत्र त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति।।

adi-1-63-58__2559 धृतराष्ट्रात्पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य तेषां च धार्तराष्ट्राणां चत्वारः प्रधानाः दुर्योधनो दुश्शासनो विकर्णश्चित्रसेनश्चेति।।

पाण्डोस्तु कुन्ती माद्रीति स्त्रीरत्ने बभूवतुः। स मृगयां चरन्मैथुनगतमृषिं मृगचारिणं बाणेन जघान।।

स बाणविद्ध उवाच पाण्डुम्। अत्र श्लोको भवति।।

योऽकृतार्थं हि मां ग्रूर बाणेनाघ्ना मृगव्रतम्। त्वामप्येतादृशो भावः क्षिप्रमेवागमिष्यति।।

इति मृगव्रतचारिणा ऋषिणा शप्तः। स विषण्णरूपः पाण्डुस्तं शापं परिहरन्नोपसर्पति भार्ये।।

adi-1-63-63__2564 कदाचित्स आह। स्वचापल्यादिदं प्राप्तवानहम्। पुराणेषु पठ्यमानं शृणोमि नानपत्यस्य लोकाः सन्तीति।।

adi-1-63-64__2565 सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच।।

adi-1-63-65__2566 सा कुन्ती पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनमिन्द्रादर्जुनमिति। स हृष्टरूपः पाण्डुरुवाच। इयं ते सपत्नी भवति माद्र्यनपत्या व्रीडिता साध्वी अस्यामपत्यमुत्पाद्यतामिति।।

सा कुन्ती तस्यै माद्र्यै तथेति व्रतमादिदेश। ततस्तस्यां नकुलसहदेवौ यमावश्विभ्यां जज्ञाते।।

माद्रीं तु खलु स्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे। स तां प्राप्यैव विदेहत्वं प्राप्तः।।

ततस्तेन सह चितामन्वारुरोह माद्री। कुन्तीं चोवाच यमयोरार्ययाऽप्रमत्तया भवितव्यमिति।।

adi-1-63-69__2570 ततः पञ्चपाण्डवान्सह कुन्त्या हास्तिनपुरं नयन्ति स्म तपस्विनः।।

adi-1-63-70__2571 तत्र भीष्माय धृतराष्ट्रविदुरयोः पाण्डोः स्वर्गगमनं याथातथ्यं निवेदयन्तिस्म तपस्विनः।।

adi-1-63-71__2572 पाण्डवान्सह कुन्त्या जतुगृहे दाहयितुकामो धृतराष्ट्रात्मजोऽभूत्।।

तांश्च विदुरो मोक्षयामास। ततो भीमो हिडिम्बं हत्वा पुत्रमुत्पादयामास हिडिम्बायां घटोत्कचं नाम।।

ततश्चैकचक्रां जग्मुः कुशलिनः। ततः पाञ्चालविषयं गत्वा स्वयंवरे द्रौपदीं लब्ध्वाऽर्धराज्यं प्राप्येन्द्रप्रस्थनिवासिनस्तस्यां पुत्रानुत्पादयामासुर्द्रौपद्याम्।।

प्रतिविन्ध्यां युधिष्ठिरः। सुतसोमं वृकोदरः। श्रुतकीर्तिमर्जुनः। शतानीकं नकुलः। श्रुतसेनं सहदेव इति।।

शैव्यस्य कन्यां देवकीं नामोपयेमे युधिष्ठिरः। तस्यां पुत्रं जनयामास यौधेयं नाम।।

भीमसेनस्तु वाराणस्यां काशिराजकन्यां जलन्धरां नामोपयेमे स्वयंवरस्थां। तस्यामस्य जज्ञे शर्वत्रातः।।

अर्जुनस्तु खलु द्वारवतीं गत्वा भगवतो वासुदेवस्य भगिनीं सुभद्रां नामोदवहद्भार्यां। तस्यामभिमन्युं नाम पुत्रं जनयामास।।

नकुलस्तु खलु चैद्यां रेणुमतीं नामोदवहत्। तस्यां पुत्रं जनयामास निरमित्रं नाम।।

सहदेवस्तु खलु माद्रीमेव स्वयंवरे विजयां नामोदवहद्भार्याम्। तस्यां पुत्रं जनयामास सुहोत्रं नाम।।

भीमसेनश्च पूर्वमेव हिडिम्बायां राक्षस्यां पुत्रमुत्पादयामास घटोत्कचं नाम। अर्जुनस्तु नागकन्यायामुलूप्यामिरावन्तं नाम पुत्रं जनयामास।।

ततो मणलूरुपतिकन्यायां चित्राङ्गदायामर्जुनः पुत्रमुत्पादयामास बभ्रुवाहनं नाम। एते त्रयोदश पुत्राः पाण्डवानाम्।।

विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपेयेमे। तस्यामस्य परासुर्गर्भोऽजायत।।

तमुत्सङ्गे प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य। षाण्मासिकं गर्भमहं जीवयामि पादस्पर्शादिति वासुदेव उवाच।।

adi-1-63-84__2585 अहं जीवयामि कुमारमनन्तवीर्यं जात एवायमजायत। अभिमन्योः सत्येन चेयं पृथिवी धारयत्विति वासुदेवस्य पादस्पर्शात्सजीवोऽजायत। नाम तस्याकरोत्सुभद्रा।।

परिक्षीणे कुले जात उत्तरायां परंतपः। परिक्षिदभवत्तस्मात्सौभद्रात्तु यशस्विनः।।

परीक्षित्तु खलु भद्रवतीं नामोपयेमे। तस्यां तत्र भवाञ्जनमेजयः।।

adi-1-63-87__2588 जनमेजयात्तु भवतः खलु वपुष्टमायां पुत्रौ द्वौ शतानीकः शङ्कुकर्णश्च।।

शतानीकस्तु खलु वैदेहीमुपयेमे। तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः।।

इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः। पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते।। ।।

इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि त्रिषष्टितमोऽध्यायः।। 63 ।।

1-63-32 भस्त्रा चर्मकोशः तत्र निहितं बीजं यथा तदीयं न भवति एवं मातापि भस्त्रेव। येन हेतुना यो जातः स एव सः। कार्यस्य कारणानन्यत्वात्।। 1-63-33 पुत्रः रेतोधाः रेतोधातारं पितरं उन्नयति ऊर्ध्वं नयति। यमक्षयात् नरकात्।।

अध्यायः 064

उपरिचरराजोपाख्यानम्।। 1 ।। इन्द्रध्वजोत्सववृत्तान्तः।। 2 ।। गिरिकाया उत्पत्तिः। उपरिचरस्य तया विवाहश्च।। 3 ।। मृगयार्थं गतेनोपरिचरेण स्वपत्नीस्मरणात्स्कन्नस्य श्येनद्वरा प्रेषितस्य रेतसो यमुनाजले पतनम्।। 4 ।। ब्रह्मशापान्मत्स्यभावं प्राप्तयाऽद्रिकया तद्रेतःपानम्।। 5 ।। तदुदरे मिथुनोत्पत्तिः।। 6 ।। तत्र पुत्रस्य उपरिचरवसुना ग्रहणम्। कन्याया दाशगृहे स्थितिः।। 7 ।। नावं वाहयमानायां सत्यवतीनाम्न्यां दाशकन्यायां पराशराद्द्वैपायनस्योत्पत्तिः। तस्य व्यासनामप्राप्तिश्च।। 8 ।। पाठान्तरे पराशरसत्यवतीविवाहादि।। 9 ।। भीष्मादीनां संक्षेपतो जन्मवृत्तान्तकथनम्।। 10 ।।

adi-1-64-0__2591 वैशंपायन उवाच।

राजोपरिचरो नाम धर्मनित्यो महीपतिः। बभूव मृगयाशीलः शश्वत्स्वाध्यायवाञ्छुचिः।।

स चेदिविषयं रम्यं वसुः पौरवनन्दनः। इन्द्रोपदेशाज्जग्राह रमणीयं महीपतिः।।

तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोनिधिम्। देवाः शक्रपुरोगा वै राजानमुपतस्थिरे।।

इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै। तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयन्।। adi-1-64-5x__302देवा ऊचुः।

न संकीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते। त्वया हि धर्मो विधृतः कृत्स्नं धारयते जगत्।। इन्द्र उवाच।

adi-1-64-6__2597 `देवानहं पालयिता पालय त्वं हि मानुषान्।’ लोके धर्मं पालय त्वं नित्ययुक्तः समाहितः। धर्मयुक्तस्ततो लोकान्पुण्यान्प्राप्स्यसि शाश्वतान्।।

दिविष्ठस्य भुविष्ठस्त्वं सखाभूतो मम प्रियः। ऊधः पृथिव्या यो देशस्तमावस नराधिप।।

पशव्यश्चैव पुण्यश्च प्रभूतधनधान्यवान्। स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः।।

अर्थवानेष देशो हि धनरत्नादिभिर्युतः। वसुपूर्णा च वसुधा वस चेदिषु चेदिप।।

धर्मशीला जनपदाः सुसंतोषाश्च साधवः। न च मिथ्या प्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा।।

न च पित्रा विभज्यन्ते पुत्रा गुरुहिते रताः। युञ्जते धुरि नो गाश्च कृशान्संधुक्षयन्ति च।।

सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद। न तेऽस्त्यविदितं किंचित्त्रिषु लोकेषु यद्भवेत्।।

दैवोपभोग्यं दिव्यं त्वामाकाशे स्फाटिकं महत्। आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते।।

त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः। चरिष्यस्युपरिस्थो हि देवो विग्रहवानिव।।

ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम्। धारयिष्यति सङ्ग्रामे या त्वां शस्त्रैरविक्षतम्।।

लक्षणं चैतदेवेह भविता ते नराधिप। इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत्।।

यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः। इष्टप्रदानमुद्दिश्य शिष्टानां प्रतिपालिनीम्।।

`एवं संसान्त्व्य नृपतिं तपसः संन्यवर्तयत्। प्रययौ दैवतैः सार्धं कृत्वा कार्यं दिवौकसाम्।।

adi-1-64-19__2610 ततस्तु राजा चेदीनामिन्द्राभरणभूषितः। इन्द्रदत्तं विमानं तदास्थाय प्रययौ पुरीम्।।’

तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा। प्रवेशं कारयामास सर्वोत्सववरं तदा।।

adi-1-64-21__2612 `मार्गशीर्षे महाराज पूर्वपक्षे महामखम्। ततःप्रभृति चाद्यापि यष्टेः क्षितिपसत्तमैः।।’

प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः। अपरेद्युस्ततस्तस्याः क्रियतेऽत्युच्छ्रयो नृपैः।।

अलङ्कृताया पिटकैर्गन्धमाल्यैश्च भूषणैः। `माल्यदामपरिक्षिप्तां द्वात्रिंशत्किष्कुसंमिताम्।।

उद्धृत्य पिटके चापि द्वादशारत्निकोच्छ्रये। महारजनवासांसि परिक्षिप्य ध्वजोत्तमम्।।

वासोभिरन्नपानैश्च पूजितैर्ब्राह्मणर्षभैः। पुण्याहं वाचयित्वाथ ध्वज उच्छ्रियते तदा।।

शङ्खभेरीमृदङ्गैश्च संनादः क्रियते तदा’। भगवान्पूज्यते चात्र यष्टिरूपेण वासवः।।

स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः। `माणिभद्रादयो यक्षाः पूज्यन्ते दैवतैः सह।।

नानाविधानि दानानि दत्त्वार्थिभ्यः सुहृज्जनैः। अलङ्कृत्वा माल्यदामैर्वस्त्रैर्नानाविधैस्तथा।।

दृतिभिः सजलैः सर्वैः क्रीडित्वा नृपशासनात्। सभाजयित्वा राजानं कृत्वा नर्माश्रयाः कथाः।।

रमन्ते नागराः सर्वे तथा जानपदैः सह। सूताश्च मागधाश्चैव रमन्ते नटनर्तकाः।।

प्रीत्या तु नृपशार्दूल सर्वे चक्रुर्महोत्सवम्। सान्तःपुरः सहामात्यः सर्वाभरणभूषितः।।

महारजनवासांसि वसित्वा चेदिराट् तदा। जातिहिङ्गुलकेनाक्तः सदारो मुमुदे तदा।।

adi-1-64-33__2624 एवं जानपदाः सर्वे चक्रुरिन्द्रमहं वसुः।।’ यथा चेदिपतिः प्रीतश्चकारेन्द्रमहं वसुः।।’

एतां पूजां महेन्द्रस्तु दृष्ट्वा वसुकृतां शुभाम्। `हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम्।।

adi-1-64-35__2626 आस्थाय सह शच्या च वृतो ह्यप्सरसां गणैः।’ वसुना राजमुख्येन समागम्याब्रवीद्वचः।।

ये पूजयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः। कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः।।

तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति। तथा स्फीतो जनपदो मुदितश्च भविष्यति।।

`निरीतिकानि सस्यानि भवन्ति बहुधा नृप। राक्षसाश्च पिशाचाश्च न लुम्पन्ते कथंचन।। वैशंपायन उवाच।’

adi-1-64-39__2630 एवं महात्मना तेन महेन्द्रेण नराधिप। वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः। एवं कृत्वा महेन्द्रस्तु जगाम स्वं निवेशनम्।।

adi-1-64-40__2631 उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः। भूमिरत्नादिभिर्दानैस्तथा पूज्या भवन्ति ते। वरदानमहायज्ञैस्तथा शक्रोत्सवेन च।।

संपूजितो मघवता वसुश्चेदीश्वरो नृपः। पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम्।।

इन्द्रपीत्या चेदिपतिश्चकारेन्द्रमहं वसुः। पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः।।

नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत्। महारथो मागधानां विश्रुतो यो बृहद्रथः।।

प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम्। मत्सिल्लश्च यदुश्चैव राजन्यश्चापराजितः।।

एते तस्य सुता राजन्राजर्षेर्भूरितेजसः। न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च।।

वासवाः पञ्च राजानः पृथग्वंशाश्च शास्वताः। वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम्।।

उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम्। राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम्।।

पुरोपवाहिनीं तस्य नदीं शुक्तमतीं गिरिः। अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल।।

गिरिं कोलाहलं तं तु पदा वसुरताडयत्। निश्चक्राम ततस्तेन प्रहारविवरेण सा।।

तस्यां नद्यां स जनयन्मिथुनं पर्वतः स्वयम्। तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत्।।

`महिषी भविता कन्या पुमान्सेनापतिर्भवेत्। शुक्तिमत्या वचःश्रुत्वा दृष्ट्वा तौ राजसत्तमः’।।

यः पुमानभवत्तत्र तं स राजर्षिसत्तमः। वसुर्वसुप्रदश्चक्रे सेनापतिमरिन्दमः।।

चकार पत्नीं कन्यां तु तथा तां गिरिकां नृपः। वसोः पत्नी तु गिरिका कामकालं न्यवेदयत्।।

ऋतुकालमनुप्राप्ता स्नाता पुंसवने शुचिः। तदहः पितरश्चैनपूचुर्जहि मृगानिति।।

तं राजसत्तमं प्रीतास्तदा मतिमतां वरः। स पितॄणां नियोगेन तामतिक्रम्य पार्थिवः।।

चकार मृगयां कामी गिरिकामेव संस्मरन्। अतीव रूपसंपन्नां साक्षाच्छ्रियमिवापराम्।।

अशोकैश्चम्पकैश्चूतैरनेकैरतिमुक्तकैः। पुन्नागैः कर्णिकारैश्च बकुलैर्दिव्यपाटलैः।।

पनसैर्नारिकेलैश्च चन्दनैश्चार्जुनैस्तथा। एतै रम्यैर्महावृक्षैः पुण्यैः स्वादुफलैर्युतम्।।

कोकिलाकुलसन्नादं मत्तभ्रमरनादितम्। वसन्तकाले तत्पश्यन्वनं चैत्ररथोपमम्।।

मन्मथाभिपरीतात्मा नापश्यद्गिरिकां तदा। अपश्यन्कामसंतप्तश्चरमाणो यदृच्छया।।

पुष्पसंछन्नशाखाग्रं पल्लवैरुपशोभितम्। अशोकस्तबकैश्छन्नं रमणीयमपश्यत।।

अधस्यात्तस्य छायायां सुखासीनो नराधिपः। मधुगन्धैश्च संयुक्तं पुष्पगन्धमनोहरम्।।

adi-1-64-63__2654 वायुना प्रेर्यमाणस्तु धूम्राय मुदमन्वगात्। `भार्यां चिन्तयमानस्य मन्मथाग्निरवर्धत।’ तस्य रेतः प्रचस्कन्द चरतो गहने वने।।

स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः। प्रतिजग्राह मिथ्या मे न पतेद्रेत इत्युत।।

adi-1-64-65__2656 `अङ्गुलीयेन शुक्लस्य रक्षां च विदधे नृपः। अशोकस्तबकै रक्तैः पल्लवैश्चाप्यबन्धयत्।।’

इदं मिथ्या परिस्कन्नं रेतो मे न भवेदिति। ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः।।

संचिन्त्यैवं तदा राजा विचार्य च पुनःपुनः। अमोघत्वं च विज्ञाय रेतसो राजसत्तमः।।

शुक्रप्रस्थापने कालं महिष्या प्रसमीक्ष्य वै। अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम्।।

सूक्ष्मधर्मार्थतत्त्वज्ञो गत्वा श्येनं ततोऽब्रवीत्। मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय।।

adi-1-64-70__2661 गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै। वैशंपायन उवाच। गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान्।।

जवं परममास्थाय प्रदुद्राव विहंगमः। तमपश्यदथायान्तं श्येनं श्येनस्तथाऽपरः।।

अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया। तुण्डयुद्धमथाकाशे तावुभौ संप्रचक्रतुः।।

युद्ध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि। तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सरा।।

मीनभावमनुप्राप्ता बभूव यमुनाचरी। श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम्।।

जग्राह तरसोपेत्य साऽद्रिका मत्स्यरूपिणी। कदाचिदपि मत्सीं तां बबन्धुर्मत्स्यजीविनः।।

मासे च दशमे प्राप्ते तदा भरतसत्तम।। उज्जह्रुरुदरात्तस्याः स्त्रीं पुमांसं च मानुषौ।।

आश्चर्यभूतं तद्गत्वा राज्ञेऽथ प्रत्यवेदयन्। काये मत्स्या इमौ राजन्संभूतौ मानुषाविति।।

तयोः पुमांसं जग्राह राजोपरिचरस्तदा। स मत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः।।

साऽप्सरा मुक्तशापा च क्षणेन समपद्यत। या पुरोक्ता भगवता तिर्यग्योनिगता शुभा।।

मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि। ततः साजनयित्वा तौ विशस्ता मत्स्यघातिभिः।।

संत्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च। सिद्धर्षिचारणपथं जगामाथ वराप्सराः।।

सा कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी। राज्ञा दत्ता च दाशाय कन्येयं ते भवत्विति।।

रूपसत्वसमायुक्ता सर्वैः समुदिता गुणैः। सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात्।।

आसीत्सा मत्स्यगन्धैव कंचित्कालं शुचिस्मिता। शुश्रूषार्थं पितुर्नावं वाहयन्तीं जले च ताम्।।

तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः। अतीव रूपसंपन्नां सिद्धानामपि काङ्क्षिताम्।।

दृष्ट्वैव स च तां धीमांश्चकमे चारुहासिनीम्। दिव्यां तां वासवीं कन्यां रम्भोरूं मुनिपुङ्गवः।।

संभवं चिन्तयित्वा तां ज्ञात्वा प्रोवाच शक्तिजः। क्व कर्णधारो नौर्येन नीयते ब्रूहि भामिनि।। मत्स्यगन्धोवाच।

अनपत्यस्य दाशस्य सुता तत्प्रियकाम्यया। सहस्रजनसंपन्ना नौर्मया वाह्यते द्विज।। पराशर उवाच।

शोभनं वासवि शुभे किं चिरायसि वाह्यताम्। कलशं भविता भद्रे सहस्रार्धेन संमितम्।।

adi-1-64-90__2681 अहं शेषो भिविष्यामि नीयतामचिरेण वै। वैशंपायन उवाच। मत्स्यगन्धा तथेत्युक्त्वा नावं वाहयतां जले।।

वीक्षमाणं मुनिं दृष्ट्वा प्रोवाचेदं वचस्तदा। मत्स्यगन्धेति मामाहुर्दाशराजसुतां जनाः।।

adi-1-64-92__2683 जन्म शोकाभितप्तायाः कथं ज्ञास्यसि कथ्यताम्। पराशर उवाच। दिव्यज्ञानेन दृष्टं हि दृष्टमात्रेण ते वपुः।।

प्रणयग्रहणार्थाय वक्ष्येव वासवि तच्छृणु। बर्हिषद इति ख्याताः पितरः सोमपास्तुते।।

तेषां त्वं मानसी कन्या अच्छोदा नाम विश्रुता। अच्छोदं नाम तद्दिव्यं सरो यस्मात्समुत्थितम्।।

त्वया न दृष्टपूर्वास्तु पितरस्ते कदाचन। संभूता मनसा तेषां पितॄन्स्वान्नाभिजानती।।

सा त्वन्यं पितरं वव्रे स्वानतिक्रम्य तान्पितॄन्। नाम्ना वसुरिति ख्यातं मनुपुत्रं दिवि स्थितम्।।

अद्रिकाऽप्सरसा युक्तं विमाने दिवि विष्ठितम्। सा तेन व्यभिचारेण मनसा कामचारिणी।।

पितरं प्रार्थयित्वाऽन्यं योगाद्भष्टा पपात सा। अपश्यत्पतमाना सा विमानत्रयमन्तिकात्।।

त्रसरेणुप्रमाणांस्तांस्तत्रापश्यत्स्वकान्पितॄन्। सुसूक्ष्मानपरिव्यक्तानङ्गैरङ्गेष्विवाहितान्।।

तातेति तानुवाचार्ता पतन्ती सा ह्यधोमुखी। तैरुक्ता सा तु माभैषीस्तेन सा संस्थिता दिवि।।

ततः प्रसादयामास स्वान्पितॄन्दीनया गिरा। तामूचुः पितरः कन्यां भ्रैष्टश्वर्यां व्यतिक्रमात्।।

भ्रष्टैश्वर्या स्वदोषेण पतसि त्वं शुचिस्मिते। यैरारभन्ते कर्माणि शरीरैरिह देवताः।।

तैरेव तत्कर्मफलं प्राप्नुवन्ति स्म देवताः। मनुष्यास्त्वन्यदेहेन शुभाशुभमिति स्थितिः।।

सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे। तस्मात्त्वं पतसे पुत्रि प्रेत्यत्वं प्राप्स्यसे फलम्।।

पितृहीना तु कन्या त्वं वसोर्हि त्वं सुता मता। मत्स्ययोनौ समुत्पन्ना सुताराज्ञो भविष्यसि।।

अद्रिका मत्स्यरूपाऽभूद्गङ्गायमनुसङ्गमे। पराशरस्य दायादं त्वं पुत्रं जनयिष्यसि।।

यो वेदमेकं ब्रह्मर्षिश्चतुर्धा विबजिष्यति। महाभिषक्सुतस्यैव शन्तनोः कीर्तिवर्धनम्।।

ज्येष्ठं चित्राङ्गदं वीरं चित्रवीरं च विश्रुतम्। एतान्सूत्वा सुपुत्रांस्त्वं पुनरेव गमिष्यसि।।

व्यतिक्रमात्पितॄणां च प्राप्स्यसे जन्म कुत्सितम्। अस्यैव राज्ञस्त्वं कन्या ह्यद्रिकायां भविष्यसि।।

अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा। एवमुक्ता पुरा तैस्त्वं जाता सत्यवती शुभा।।

अद्रिकेत्यभिविख्याता ब्रह्मशापाद्वराप्सरा। मीनभावमनुप्राप्ता त्वं जनित्वा गता दिवम्।।

तस्यां जातासि सा कन्या राज्ञो वीर्येण चैवहि। तस्माद्वासवि भद्रं ते याचे वंशकरं सुतम्।।

adi-1-64-113__2704 संगमं मम कल्याणि कुरुष्वेत्यभ्यभाषत।। वैशंपायन उवाच।

विस्मयाविष्टसर्वाङ्गी जातिस्मरणतां गता। साब्रवीत्पश्य भगवन्परपारे स्थितानृषीन्।।

आवयोर्दृष्टयोरेभिः कथं नु स्यात्समागमः। एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः।।

येन देशः स सर्वस्तु तमोभूत इवाभवत्। दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा।।

adi-1-64-117__2708 विस्मिता साभवत्कन्या व्रीडिता च तपस्विनी। सत्यवत्युवाच। विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम्।।

त्वत्संयोगाच्च दुष्येत कन्याभावो ममाऽनघ। कन्यात्वे दूषिते वापि कथं शक्ष्ये द्विजोत्तम।।

गृह गन्तुमुषे चाहं धीमन्न स्थातुमुत्सहे। एतत्संचिन्त्य भगवन्विधत्स्व यदनन्तरम्।। वैशंपायन उवाच।

एवमुक्तवतीं तीं तु प्रीतिमानुषिसत्तमः। उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यति।।

वृणीष्व च वरं भीरुं यं त्वमिच्छसि भामिनि। वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते।।

एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम्। सचास्यै भगवान्प्रादान्मनः काङ्क्षितं प्रभुः।।

ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता। जगाम सह संसर्गमृषिणाऽद्भुतकर्मणा।।

तेन गन्धवतीत्येवं नामास्याः प्रथितं भुवि। तस्यास्तु योजनाद्गन्धमाजिघ्रन्त नरा भुवि।।

तस्या योजनगन्धेति ततो नामापरं स्मृतम्। इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम्।।

पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा। जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान्।।

स मातरमनुज्ञाप्य तपस्येव मनो दधे। स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत्।।

एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात्। न्यस्तोद्वीपे यद्बालस्तस्माद्द्वैपायनःस्मृतः।।

पादापसारिणं धर्मं स तु विद्वान्युगे युगे। आयुः शक्तिं च मर्त्यानां युगावस्थामवेक्ष्यच।।

ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाङ्क्षया। विव्यास वेदान्यस्मत्स तस्माद्व्यास इति स्मृतः।।

वेदानध्यापयामास महाभारतपञ्चमान्। सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम्।।

adi-1-64-132__2723 प्रभुर्वरिष्ठो वरदो वैशंपायनमेव च। संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः।। 1-64a-1a [ततो रम्ये वनोद्देशे दिव्यास्तरणसंयुते। 1-64a-1b वीरासनमुपास्थाय योगी ध्यानपरोऽभवत्।। 1-64a-2a श्वेतपट्टगृहे रम्ये पर्यङ्के सोत्तरच्छदे। 1-64a-2b तूष्णींभूतां तदा कन्यां ज्वलन्तीं योगतेजसा।। 1-64a-3a दृष्ट्वा तां तु समाधाय विचार्य च पुनः पुनः। 1-64a-3b स चिन्तयामास मुनिः किं कृतं सुकृतं भवेत्।। 1-64a-4a शिष्टानां तु समाचारः शिष्टाचार इति स्मृतः। 1-64a-4b श्रुतिस्मृतिविदो विप्रा धर्मज्ञा ज्ञानिनः स्मृताः।। 1-64a-5a धर्मज्ञैर्विहितो धर्मः श्रौतः स्मार्तो द्विधा द्विजैः। 1-64a-5b दानाग्निहोत्रमिज्या च श्रौतस्यैतद्धि लक्षणम्।। 1-64a-6a स्मार्तो वर्णाश्रमाचारो यमैश्च नियमैर्युतः। 1-64a-6b धर्मे तु धारणे धातुः सहत्वे चापि पठ्यते।। 1-64a-7a तत्रेष्टफलभाग्धर्म आचार्यैरुपदिश्यते। 1-64a-7b अनिष्टफलभाक्रेति तैरधर्मोऽपि भाष्यते।। 1-64a-8a तस्मादिष्टफलार्थाय धर्ममेव समाश्रयेत्। 1-64a-8b ब्राह्मो दैवस्तथैवार्षः प्राजापत्यश्च धार्मिकः।। 1-64a-9a विवाहा ब्राह्मणानां तु गान्धर्वो नैव धार्मिकः। 1-64a-9b त्रिवर्णेतरजातीनां गान्धर्वासुरराक्षसाः।। 1-64a-10a पैशाचो नैव कर्तव्यः पैशाचश्चाष्टमोऽधमः। 1-64a-10b सामर्षां व्यङ्गिकां कन्यां मातुश्च कुलजां तथा।। 1-64a-11a वृद्धां प्रव्राजितां वन्ध्यां पतितां च रजस्वलाम्। 1-64a-11b अपस्मारकुले जातां पिङ्गलांकुष्ठिनीं व्रणीम्।। 1-64a-12a न चास्नातां स्त्रियं गच्छेदिति धर्मानुशासनम्। 1-64a-12b पिता पितामहो भ्राता माता मातुल एव च।। 1-64a-13a उपाध्यायर्त्विजश्चैव कन्यादाने प्रभूत्तमाः। 1-64a-13b एतैर्दत्तां निषेवेत नादत्तामाददीत च।। 1-64a-14a इत्येव ऋषयः प्राहुर्विवाहे धर्मवित्तमाः। 1-64a-14b अस्या नास्ति पिता भ्राता माता मातुल एव च।। 1-64a-15a गान्धर्वेण विवाहेन न स्पृशामि यदृच्छया। 1-64a-15b क्रियाहीनं तु गान्धर्वं न कर्तव्यमनापदि।। 1-64a-16a यदस्यां जायते पुत्रो वेदव्यासो भवेदृषिः। 1-64a-16b क्रियाहीनः कथं विप्रो भवेदृषिरुदारधीः।। 1-64a-17x वैशंपायन उवाच। 1-64a-17a एवं चिन्तयतो भावं महर्षेर्भावितात्मनः। 1-64a-17b ज्ञात्वा चैवाभ्यवर्तन्त पितरो बर्हिषस्तदा।। 1-64a-18a तस्मिन्क्षणे ब्रह्मपुत्रो वसिष्ठोऽपि समेयिवान्। 1-64a-18b पूर्वं स्वागतमित्युक्त्वा वसिष्ठः प्रत्यभाषत।। 1-64a-19x पितृगणा ऊचुः। 1-64a-19a अस्माकं मानसीं कन्यामस्मच्छापेन वासवीम्। 1-64a-19b यदिचच्छशि पुत्रार्थं कन्यां गृह्मीष्वमा चिरम्।। 1-64a-20a पितॄणां वचनं श्रुत्वा वसिष्ठः प्रत्यभाषत। 1-64a-20b महर्षीणां वचः सत्यं पुराणेपि मया श्रुतम्।। 1-64a-21a पराशरो ब्रह्मचारी प्रजार्थी मम वंशधृत्। 1-64a-21b एवं संभाषमाणे तु वसिष्ठे पितृभिः सह।। 1-64a-22a ऋषयोऽभ्यागमंस्तत्र नैमिशारण्यवासिनः। 1-64a-22b विवाहं द्रष्टुमिच्छन्तः शक्तिपुत्रस्य धीमतः।। 1-64a-23a अरुन्धती महाभागा अदृश्यन्त्या सहैव सा। 1-64a-23b विश्वकर्मकृतां दिव्यां पर्णशालां प्रविश्य सा।। 1-64a-24a वैवाहिकांस्तु संभारान्संकल्प्य च यथाक्रमम्। 1-64a-24b अरुन्धती सत्यवतीं वधूं संगृह्य पाणिना।। 1-64a-25a भद्रासने प्रतिष्ठाप्य इन्द्राणीं समकल्पयत्। 1-64a-25b आपूर्यमाणपक्षे तु वैशाखे सोमदैवते।। 1-64a-26a शुभग्रहे त्रयोदश्यां मुहूर्ते मैत्र आगते। 1-64a-26b विवाहकाल इत्युक्त्वा वसिष्ठो मुनिभिः सह।। 1-64a-27a यमुनाद्वीपमासाद्य शिष्यैश्च मुनिपङ्क्तिभिः। 1-64a-27b स्थण्डिलं चतुरश्रं च गोमयेनोपलिप्य च।। 1-64a-28a अक्षतैः फलपुष्पैश्च स्वस्तिकैराम्रपल्लवैः। 1-64a-28b जलपूर्णघटैश्चैव सर्वतः परिशोभितम्।। 1-64a-29a तस्य मध्ये प्रतिष्ठाप्य बृस्यां मुनिवरं तदा। 1-64a-29b सिद्धार्थयवकल्कैश्च स्नातं सर्वौषधैरपि।। 1-64a-30a कृत्वार्जुनानि वस्त्राणि परिधाप्य महामुनिम्। 1-64a-30b वाचयित्वा तु पुण्याहमक्षतैस्तु समर्चितः।। 1-64a-31a गन्धानुलिप्तः स्रग्वी च सप्रतोदो वधूगृहे। 1-64a-31b अपदातिस्ततो गत्वा वधूज्ञातिभिरर्चितः।। 1-64a-32a स्नातामहतसंवीतां गन्धलिप्तां स्रगुज्ज्वलाम्। 1-64a-32b वधूं मङ्गलसंयुक्तामिषुहस्तां समीक्ष्य च।। 1-64a-33a उवाच वचनं काले कालज्ञः सर्वधर्मवित्। 1-64a-33b प्रतिग्रहो दातृवशः श्रुतमेवं मया पुरा।। 1-64a-34a यथा वक्ष्यन्ति पितरस्तत्करिष्यामहे वयम्। 1-64a-34x वैशंपायन उवाच। 1-64a-34b तद्धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः।। 1-64a-35a श्रुत्वा तु पितरः सर्वे निःसङ्गा निष्परिग्रहाः। 1-64a-35b वसुं परमधर्मिष्ठमानीयेदं वचोऽब्रुवन्।। 1-64a-36a मत्स्ययोनौ समुत्पन्ना तव पुत्री विशेषतः। 1-64a-36b पराशराय मुनये दातुमर्हसि धर्मतः।। 1-64a-37x वसुरुवाच। 1-64a-37a सत्यं मम सुता सा हि दाशराजेन वर्धिता। 1-64a-37b अहं प्रभुः प्रदाने तु प्रजापालः प्रजार्थिनाम्।। 1-64a-38x पितर ऊचुः। 1-64a-38a निराशिषो वयं सर्वे निःसङ्गा निष्परिग्रहाः। 1-64a-38b कन्यादानेन संबन्धो दक्षिणाबन्ध उच्यते।। 1-64a-39a कर्मभूमिस्तु मानुष्यं भोगभूमिस्त्रिविष्टपम्। 1-64a-39b इह पुण्यकृतो यान्ति स्वर्गलोकं न संशयः।। 1-64a-40a इह लोके दुष्कृतिनो नरकं यान्ति निर्घृणाः। 1-64a-40b दक्षिणाबन्ध इत्युक्ते उभे सुकृतदुष्कृते।। 1-64a-41a दक्षिणाबन्धसंयुक्ता योगिनः प्रपतन्ति ते। 1-64a-41b तस्मान्नो मानसीं कन्यां योगाद्भ्रष्टां विशापते।। 1-64a-42a सुतात्वं तव संप्राप्तां सतीं भिक्षां ददस्व वै। 1-64a-42b इत्युक्त्वा पितरः सर्वे क्षणादन्तर्हितास्तदा।। 1-64a-43x वैशंपायन उवाच। 1-64a-43a याज्ञवल्क्यं समाहूय विवाहाचार्यमित्युत। 1-64a-43b वसुं चापि समाहूय वसिष्ठो मुनिभिः सह।। 1-64a-44a विवाहं कारयामास विधिदृष्टेन कर्मणा। 1-64a-44x वसुरुवाच। 1-64a-44b पराशर महाप्राज्ञ तव दास्याम्यहं सुताम्।। 1-64a-45a प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना। 1-64a-45x वैशंपायन उवाच। 1-64a-45b वसोस्तु वचनं श्रुत्वा याज्ञवल्क्यमते स्थितः।। 1-64a-46a कृतकौतुकमङ्गल्यः पाणिना पाणिमस्पृशत्। 1-64a-46b प्रभूताज्येन हविषा हुत्वा मन्त्रैर्हुताशनम्।। 1-64a-47a त्रिरग्निं तु परिक्रम्य समभ्यर्च्य हुताशनम्। 1-64a-47b महर्षीन्याज्ञवल्क्यादीन्दक्षिणाभिः प्रतर्प्यच।। 1-64a-48a लब्धानुज्ञोऽभिवाद्याशु प्रदक्षिणमथाकरोत्। 1-64a-48b पराशरे कृतोद्वाहे देवाः सर्पिगणास्तदा।। 1-64a-49a हृष्टा जग्मुः क्षणादेव वेदव्यासो भवत्विति। 1-64a-49b एवं सत्यवती हृष्टा पूजां लब्ध्वा यथेष्टतः।। 1-64a-50a पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा। 1-64a-50b जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान्।। 1-64a-51a जातमात्रः स ववृधे सप्तवर्षोऽभवत्तदा। 1-64a-51b स्नात्वाभिवाद्य पितरं तस्थौ व्यासः समाहितः।। 1-64a-52a स्वस्तीति वचनं चोक्त्वा ददौ कलशमुत्तमम्। 1-64a-52b गृहीत्वा कलशं प्राप्ते तस्थौ व्यासः समाहितः।। 1-64a-53a ततो दाशभयात्पत्नी स्नात्वा कन्या बभूव सा। 1-64a-53b अभिवाद्य मुनेः पादौ पुत्रं जग्राह पाणिना।। 1-64a-54a स्पृष्टमात्रे तु निर्भर्त्स्य मातरं वाक्यमब्रवीत्। 1-64a-54b मम पित्रा तु संस्पर्शान्मातस्त्वमभवः शुचिः।। 1-64a-55a अद्य दाशसुता कन्या न स्पृशेर्मामनिन्दिते। 1-64a-55x वैशंपायन उवाच। 1-64a-55b व्यासस्य वचनं श्रुत्वा बाष्पपूर्णमुखी तदा।। 1-64a-56a मनुष्यभावात्सा योषित्पपात मुनिपादयोः। 1-64a-56b महाप्रसादो भगवान्पुत्रं प्रोवाच धर्मवित्।। 1-64a-57a मा त्वमेवंविधं कार्षीर्नैतद्धर्म्यं मतं हि नः। 1-64a-57b दूष्यौ न मातापितरौ तथा पूर्वोपकारिणौ।। 1-64a-58a धारणाद्दुःखसहनात्तयोर्माता गरीयसी। 1-64a-58b बीजक्षेत्रसमायोगे सस्यं जायेत लौकिकम्।। 1-64a-59a जायते च सुतस्तद्वत्पुरुषस्त्रीसमागमे। 1-64a-59b मृगीणां पक्षिणां चैव अप्सराणां तथैव च।। 1-64a-60a शूद्रयोन्यां च जायन्ते मुनयो वेदपारगाः। 1-64a-60b ऋष्यशृङ्गो मृगीपुत्रः कण्वो बर्हिसुतस्तथा।। 1-64a-61a अगस्त्यश्च वसिष्ठश्च उर्वश्यां जनितावुभौ। 1-64a-61b सोमश्रवास्तु सर्प्यां तु अश्विनावश्विसंभवौ।। 1-64a-62a स्कन्दः स्कन्नेन शुक्लेन जातः शरवणे पुरा। 1-64a-62b एवमेव च देवानामृषीमां चैव संभवः।। 1-64a-63a लोकवेदप्रवृत्तिर्हि न मीमांस्या बुधैः सदा। 1-64a-63b वेदव्यास इति प्रोक्तः पुराणे च स्वयंभुवा।। 1-64a-64a धर्मनेता महर्षीणां मनुष्याणां त्वमेव च। 1-64a-64b तस्मात्पुत्र न दूष्येत वासवी योगचारिणी।। 1-64a-65a मत्प्रीत्यर्थं महाप्राज्ञ सस्नेहं वक्तुमर्हसि। 1-64a-65b प्रजाहितार्थं संभूतो विष्णोर्भागो महानृषिः।। 1-64a-66a तस्मात्स्वमातरं स्नेहात्प्रबवीहि तपोधन। 1-64a-66x वैशंपायन उवाच। 1-64a-66b गुरोर्वचनमाज्ञाय व्यासः प्रीतोऽभवत्तदा।। 1-64a-67a चिन्तयित्वा लोकवृत्तं मातुरङ्कमथाविशत्। 1-64a-67b पुत्रस्पर्शात्तु लोकेषु नान्यत्सुखमतीव हि।। 1-64a-68a व्यासं कमलपत्राक्षं परिष्वज्याश्र्ववर्तयत्। 1-64a-68b स्तन्यासारैः क्लिद्यमाना पुत्रमाघ्राय मूर्धनि।। 1-64a-69x वासव्युवाच। 1-64a-69a पुत्रलाभात्परं लोके नास्तीह प्रसवार्थिनाम्। 1-64a-69b दुर्लभं चेति मन्येऽहं मया प्राप्तं महत्तपः।। 1-64a-70a महता तपसा तात महायोगबलेन च। 1-64a-70b मया त्वं हि महाप्राज्ञ लब्धोऽमृतमिवामरैः।। 1-64a-71a तस्मात्त्वं मामृषेः पुत्र त्यक्तुं नार्हसि सांप्रतम्। 1-64a-71x वैशंपायन उवाच। 1-64a-71b एवमुक्तस्ततः स्नेहाद्व्यासो मातरमब्रवीत्।। 1-64a-72a त्वया स्पृष्टः परिष्वक्तो मूर्ध्नि चाघ्रायितो मुहुः। 1-64a-72b एतावन्मात्रया प्रीतो भविष्येषु नृपात्मजे।। 1-64a-73a स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत्। 1-64a-73b स मातरमनुज्ञाप्य तपस्येव मनो दधे।। 1-64a-74a ततः कन्यामनुज्ञाय पुनः कन्या भवत्विति। 1-64a-74b पराशरोऽपि भगवान्पुत्रेण सहितो ययौ।। 1-64a-75a गत्वाश्रमपदं पुम्यमदृश्यन्त्या पराशरः। 1-64a-75b जातकर्मादिसंस्कारं कारयामास धर्मतः।। 1-64a-76a कृतोपनयनो व्यासो याज्ञवल्क्येन भारत। 1-64a-76b वेदानधिजगौ साङ्गानोङ्कारेण त्रिमात्रया।। 1-64a-77a गुरवे दक्षिणां दत्त्वा तपः कर्तुं प्रचक्रमे। 1-64a-77b एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात्।। 1-64a-78a द्वीप न्यस्तः स यद्वालस्तस्माद्द्वैपायनोऽभवत्। 1-64a-78b पादापसारिणं धर्मं विद्वान्स तु युगे युगे।। 1-64a-79a आयुः शक्तिं च मर्त्यानां युगाद्युगमवेक्ष्य च। 1-64a-79b ब्रह्मर्षिर्ब्राह्मणानां च तथाऽनुग्रहकाङ्क्षया।। 1-64a-80a विव्यास वेदान्यस्माच्च वेदव्यास इति स्मृतः। 1-64a-80b ततः स महर्षिर्विद्वाञ्शिष्यानाहूय धर्मतः।। 1-64a-81a सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम्। 1-64a-81b प्रभुर्वरिष्ठो वरदो वैशंपायनमेव च।। 1-64a-82a वेदानध्यापयामास महाभारतपञ्चमान्। 1-64a-82b संहितास्तैः पृथक्त्वेन भारतस्य प्रकीर्तिता।। 1-64a-83a ततः सत्यवती हृष्टा जगाम स्वं निवेशनम्। 1-64a-83b तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि।। 1-64a-84a दाशराजस्तु तद्गन्धमाजिघ्रन्पीतिमावहत्। 1-64a-84x दाशराज उवाच। 1-64a-84b त्वामाहुर्मत्स्यगन्धेति कथं बाले सुगन्धता।। 1-64a-85a अपास्य मत्स्यगन्धत्वं केन दत्ता सुगन्धता 1-64a-85x सत्यवत्युवाच। 1-64a-85b शक्ते- पुत्रो महाप्राज्ञः पराशर इति श्रुतः।। 1-64a-86a नावं वाहयमानाया मम दृष्ट्वां सुशिक्षितम्। 1-64a-86b उपास्य मत्स्यगन्धत्वं योजनाद्गन्धतां ददौ।। 1-64a-87a ऋषेः प्रसादं दृष्ट्वा तु जनाः प्रीतिमुपागमन्। 1-64a-87b एवं लब्धो मया गन्धो न रोषं कर्तुमर्हसि।। 1-64a-88a दाशराजस्तु तद्वाक्यं प्रशशंस ननन्द च। 1-64a-88b एतत्पवित्रं पुण्यं च व्याससमवमुत्तमम्। 1-64a-88c इतिहासमिमं श्रुत्वा प्रजावन्तो भवन्ति च।।

तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः। वसुवीर्यात्समभवन्महावीर्यो महायशाः।।

वैदार्थविच्च भगवानृषिर्विप्रो महायशाः। शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया।।

अणीमाण्डव्य इत्येवं विख्यातः स महायशाः। स धर्ममाहूय पुरा महर्षिरिदमुक्तवान्।।

इषीकया मया बाल्याद्विद्धा ह्येका शकुन्तिका। तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे।।

तन्मे सहस्रममितं कस्मान्नेहाजयत्तपः। गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः।।

adi-1-64-138__2729 तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि। वैशंपायन उवाच। तेन शापेन धर्मोऽपि शूद्रयोनावजायत।।

विद्वान्विदुररूपेण धार्मिकः किल्बिषात्ततः। संजयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात्।।

सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महाबलः। सहजं कवचं बिभ्रत्कुण्डलोद्योतिताननः।।

अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः। वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः।।

अनादिनिधनो देवः स कर्ता जगतः प्रभुः। अव्यक्तमक्षरं ब्रह्म प्रधानं त्रिगुणात्मकम्।।

आत्मानमव्ययं चैव प्रकृतिं प्रभवं प्रभुम्। पुरुषं विश्वकर्माणं सत्वयोगं ध्रुवाक्षरम्।।

अनन्तमचलं देवं हंसं नारायणं प्रभुम्। धातारमजमव्यक्तं यमाहुः परमव्ययम्।।

कैवल्यं निर्गुणं विश्वमनादिमजमव्ययम्। पुरुषः स विभुः कर्ता सर्वभूतपितामहः।।

धर्मसंस्थापनार्थाय प्रजज्ञेऽन्धकवृष्णिषु। अस्त्रज्ञौ तु महावीर्यौ सर्वशास्त्रविशारदौ।।

सात्यकिः कृतवर्मा च नारायणमनुव्रतौ। सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ।।

भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत। सहर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत।।

गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः। अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः।।

अश्वत्थामा ततो जज्ञे द्रोणादेव महाबलः। तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः।।

वैताने कर्मणि तते पावकात्समजायत। वीरो द्रोणविनाशाय धनुरादाय वीर्यवान्।।

तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा। विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम्।।

प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः। तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात्।।

गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा। दुर्योधनस्य जननी जज्ञातेऽर्थविशारदौ।।

कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः। क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः।।

धर्मार्थकुशलो धीमान्मेधावी धूतकल्मषः। विदुरः शूद्रयोनौ तु जज्ञे द्वैपायनादपि।।

पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक्। द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः।।

धर्माद्युधिष्ठिरो जज्ञे मारुताच्च वृकोदरः। इन्द्राद्धनंजयः श्रीमान्सर्वशस्त्रभृतां वरः।।

जज्ञाते रूपसंपन्नावश्विभ्यां च यमावपि। नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ।।

तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः। दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा।।

ततो दुःशासनश्चैव दुःसहश्चापि भारत। दुर्मर्षणो विकर्णश्च चित्रसेनो विविंशतिः।।

जयः सत्यव्रतश्चैव पुरुमित्रश्च भारत। वैश्यापुत्रो युयुत्सुश्च एकादश महारथाः।।

अभिमन्युः सुभद्रायामर्जुनादभ्यजायत। स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः।।

पाण्डवेभ्यो हि पाञ्चाल्यां द्रौपद्यां पञ्च जज्ञिरे। कुमारा रूपसंपन्नाः सर्वशास्त्रविशारदाः।।

प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात्। अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः।।

तथैव सहदेवाच्च श्रुतसेनः प्रतापवान्। हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः।।

शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वभागता। यां यक्षः पुरुषं चक्रे स्थूमः प्रियचिकीर्षया।।

कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ। राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे।।

adi-1-64-169__2760 तेषामपरिमेयानां नामधेयानि सर्वशः। न शक्यानि समाख्यातुं वर्षाणामयुतैरपि। एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम्।। ।।

इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि चतुःषष्टितमोऽध्यायः।। 64 ।।

1-64-1 रञ्जकत्वाद्राजा। महीपतिः पृथ्वीपालकः।। 1-64-2 वसुः उपरिचरः।। 1-64-4 साक्षात्प्रत्यक्षभूय।। 1-64-5 न संकीर्येत निर्नायकत्वात्।। 1-64-8 पशव्यः पशुभ्यो हितः।। 1-64-11 गाः बलीवर्दान्। वृषभान्कृशान्न धुरि युञ्जते प्रत्युत संधुक्षयन्ति पुष्टान्कुर्वन्ति। अन्ये तु गाः स्त्रीगवीः तासामप्यान्ध्रादिदुर्देशेषु धुरि योजनं दृष्टं तदिह नास्तीत्याहुः।। 1-64-12 न त इति। आत्मज्ञानात्सर्वज्ञो भविष्यसीत्यर्थः।। 1-64-13 उपपत्स्यते उपस्थास्यते।। 1-64-15 वैजयन्तीं विजयहेतुं। अविक्षतमेव धारयिष्यति पालयिष्यति नतु विक्षतम्।। 1-64-16 लक्षणं चिह्नम्।। 1-64-17 इष्टप्रदानं प्रीतिदायमुद्दिश्य यष्टिं ददौ।। 1-64-20 शक्रस्य पूजार्थं तस्या यष्टेः प्रवेशं स्थापनम्।। 1-64-23 पिटकैः मञ्जूषारूपैर्वस्त्रमयैः कोशैः।। 1-64-46 वासवाः वसुपुत्राः।। 1-64-48 पुरोपवाहिनीं पुरसमीपे वहन्तीं।। 1-64-50 नदी राज्ञे न्यवेदयन्मिथुनमित्यनुषज्यते।। 1-64-54 तदहस्तस्मिन् दिने।। 1-64-63 वायुना कामोद्दीपकेन। धूम्रं मलिनं रतिकर्म तदर्थं। मुदं स्त्रीविषयां प्रीतिमनुसृत्य तामेन मनसाऽगात्। तया सह मानसं सुरतमकरोदित्यर्थः। प्रचस्कन्द पपात।। 1-64-64 मिथ्या प्रसवशून्यत्वेनालीकप्रायम्।। 1-64-68 अभिमन्त्र्य पुत्रोत्पत्तिलिङ्गैर्मन्त्रैः स्पृष्ट्वा।। 1-64-70 आर्तवमृतुकालीनं स्नानम्।। 1-64-73 युध्यतोः सतोः।। 1-64-76 मासे दशमे प्राप्ते बबन्धुरिति संबन्धः। उज्जह्नुः उद्धृतवन्तः।। 1-64-77 काये देहे। मत्स्याः मत्स्ययोषायाः।। 1-64-115 नीहारं धूमिकाम्।। 1-64-119 स्थातुं जीवितुं नोत्सहे कन्यात्वदूषणादित्यर्थः।। 1-64-128 द्वीपमेवाऽयनं न्यासस्थानं यस्य द्वीपायनः स्वार्थे तद्धितः द्वीपायन एव द्वैपायन इति नाम निर्वक्ति न्यस्त इति।। 1-64-125 पादापसारिणं युगेयुगे पादशः 1-64-88 तमश्लोकपूर्वार्धात्परं `इति सत्यवती हृष्टा' इत्यादि `भारतस्य प्रकाशिताः' इत्यन्तसार्धश्लोकसप्तकस्थाने इमे कुण्डलिताः श्लोकाः केषुचित्कोशेषूपलभ्यन्ते। 1-64-133 वसुवीर्यात् वस्वंशात्।। 1-64-136 शकुन्तिका मक्षिका।। 1-64-140 कुन्तिभोजस्य कन्यायां कुन्त्याम्।। 1-64-167 स्थूणो नाम्ना।। चतुःषष्ठितमोऽध्यायः।। 64 ।।

अध्यायः 065

विस्तरश्रवणेच्छया जनमेजयस्य प्रश्नः।। 1 ।। परशुरामेण लोके निःक्षत्रिये कृते ब्राह्मणेभ्यः क्षत्रस्य पुनरुत्पत्तिः।। 2 ।। तत्कालस्य धर्मभूयिष्ठत्वम्।। 3 ।। देवैर्निर्जितानां दानवानां भूमावुत्पत्तिः।। 4 ।। तद्भूरिभारार्तया पृथ्व्या प्रार्थितस्य ब्रह्मणो देवान्प्रत्यंशावतरणाज्ञापनम्।। 5 ।। अवतारार्थं इन्द्रेण नारायणप्रार्थना।। 6 ।।

adi-1-65-0__2761 जनमेजय उवाच।

य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः। सम्यक्ताञ्श्रोतुमिच्छामिराज्ञश्चान्यान्सहस्रशः।। 1 ।।

यदर्थमिह संभूता देवकल्पा महारथाः। भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि।। वैशम्पायन उवाच।

रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम्। तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे।।

त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षित्रयां पुरा। जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे।।

तदा निःक्षत्रिये लोके भार्गवेण कृते सति। ब्राह्मणान्क्षत्रिया राजन्सुतार्थिन्योऽभिचक्रमुः।।

ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः। ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा।।

तेभ्यश्च तेभिरे गर्भं क्षत्रियास्ताः सहस्रशः। ततः सुषुविरे राजन्क्षत्रियान्वीर्यवत्तरान्।।

कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये। एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः।।

जातं वृद्धं च धर्मेण सुदीर्गेणायुषान्वितम्। चत्वारोऽपि ततो वर्णा बभूवुर्ब्राह्मणोत्तराः।।

अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा। तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि।।

ऋतौ दारांश्च गच्छन्ति तत्तथा भरतर्षभ। ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः।।

ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः। आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः।।

अथेमां सागरोपान्तां गां गजेन्द्रगताखिलाम्। अध्यतिष्ठत्पुनः क्षत्रं सशैलवनपत्तनाम्।।

प्रशासति पुनः क्षत्रे धर्मेणेमां वसुन्धराम्। ब्राह्मणाद्यास्ततो वर्णा लेभिरे मुदमुत्तमाम्।।

कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः। धर्मेण दण्डं दण्डेषु प्रणयन्तोऽन्वपालयन्।।

तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः। स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः।।

न बाल एव म्रियते तदा कश्चिज्जनाधिप। न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनाम्।।

एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ। इयं सागरपर्यन्ता ससापूर्यत मेदिनी।।

ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः। साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा।।

न च विक्रीणते ब्र्हम ब्राह्मणाश्च तदा नृप। न च शूद्रसमभ्याशे वेदानुच्चारयन्त्युत।।

कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह। युञ्जते धुरि नो गाश्च कृशाङ्गांश्चाप्यजीवयन्।।

फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः। न कूटमानैर्वणिजः पण्यं विक्रीणते तदा।।

कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः। धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः।।

स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप। एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित्।।

काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ। भवन्त्यृतुषु वृक्षाणां पुष्पाणि च फलानि च।।

एवं कृतयुगे सम्यग्वर्तमाने तदा नृप। आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम्।।

एवं समुदिते लोके मानुषे भरतर्षभ। असुरा जज्ञिरे क्षेत्रे राज्ञां तु मनुजेश्वर।।

आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि। ऐश्वर्याद्धंशिताः स्वर्गात्संबभूवुः क्षिताविह।।

इह देवत्वमिच्छन्तो मानुषेषु तपस्विनः। जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो।।

गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च। क्रव्यात्सु चैव भूतेषु गजेषु च मृगेषु च।।

जातैरिह महीपाल जायमानैश्च तैर्मही। न शशाकात्मनात्मानमियं धारयितुं धरा।।

अथ जाता महीपालाः केचिद्बहुमदान्विताः। दितेः पुत्रा दनोश्चैव तदा लोकादिह च्युताः।।

वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम्। इमां सागरपर्यन्तां परीयुररिमर्दनाः।।

ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन्। अन्यानि चैव सत्वानि पीडयामासुरोजसा।।

त्रासयन्तोऽभिनिघ्नन्तः सर्वभूतगणांश्च ते। विचेरुः सर्वशो राजन्महीं शतसहस्रशः।।

आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः। अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च।।

एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः। पीड्यमाना मही राजन्ब्रह्माणमुपचक्रमे।।

न ह्यमी भूतसत्वौघाः पन्नगाः सनगां महीम्। तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात्।।

ततो मही महीपाल भारार्ता भयपीडिता। जगाम शरणं देवं सर्वभूतपितामहम्।।

सा संवृतं महाभागैर्देवद्विजमहर्षिभिः। ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम्।।

गन्धर्वैरप्सरोभिश्च बन्दिकर्मसु निष्ठितैः। वन्द्यमानं मुदोपतैर्ववन्दे चैनमेत्य सा।।

अथ विज्ञापयामास भूमिस्तं शरणार्थिनी। सन्निधौ लोकपालानां सर्वेषामेव भारत।।

तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयंभुवः। पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः।।

स्रष्टा हि जगतः कस्मान्न संबुध्येत भारत। ससुरासुरलोकानामशेषेण मनोगतम्।।

तामुवाच महाराज भूमिं भूमिपतिः प्रभुः। प्रभवः सर्वभूतानामीशः शंभुः प्रजापतिः।। ब्रह्मोवाच।

यदर्थमभिसंप्राप्ता मत्सकाशं वसुन्धरे। तदर्थं सन्नियोक्ष्यामि सर्वानेव दिवौकसः।।

adi-1-65-47__2808 `उत्तिष्ठ गच्छ वसुधे स्वस्थानमिति साऽगमत्।' वैशंपायन उवाच। इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च। आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम्।।

अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक्। अस्यामेव प्रसूयध्वं तिरोधायेति चाब्रवीत्।।

तथैव च समानीय गन्धर्वाप्सरसां गणान्। उवाच भगवान्सर्वानिदं वचनमर्थवत्।। ब्रह्मोवाच।

adi-1-65-50__2811 स्वैः स्वैरंशैः प्रसूयध्वं यथेष्टं मानेषेषु च। वैशम्पायन उवाच। अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः। तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा।।

अथ ते सर्वशोंशैः स्वैर्गन्तुं भूमिं कृतक्षणाः। नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः।।

यः स चक्रगदापाणिः पीतवासाः शितिप्रभः। पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः।।

प्रजापतिपतिर्देवः सुरनाथो महाबलः। श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः।।

तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम्। अंशेनावतरेत्येवं तथेत्याह च तं हरिः।। ।।

इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि पञ्चषष्टितमोऽध्यायः।। 65 ।। ।। समाप्तमंशावतरणपर्व ।।

1-65-4 त्रिःसप्तकृत्वा एकविंशतिवारान्।। 1-65-13 हे गजेन्द्रगत हे गजेन्द्रगमन।। 1-65-20 ब्रह्म वेदं न विक्रीणते भृतकाध्यापनं न कुर्वत इत्यर्थः।। 1-65-21 वैश्याः स्वयं धुरि गा बलीवर्दान् न युञ्जते।। 1-65-22 फेनपान् अतृणादानभिलक्ष्य न दुहन्ति धेनूरिति शेषः। कूटमानैः कपटतुलाप्रस्थादिभिः।। 1-65-29 देवत्वं राजत्वम्।। 1-65-36 मही उपचक्रमे गन्तुमिति शेषः।। 1-65-48 तिरोधाय स्वंस्वं रूपं प्रच्छाद्य।। 1-65-54 शोधनाय कण्टकभूतखलोन्मूलनाय।। पञ्चषष्टितमोऽध्यायः।। 65 ।।

अध्यायः 066

(अथ संभवपर्व।। 7 ।।)

अदित्यादिदक्षकन्यावंशकथनम्।। 1 ।।

adi-1-66-0__2816 वैशंपायन उवाच।

अथ नारायणेनेन्द्रश्चकार सह संविदम्। अवतर्तुं महीं स्वर्गादंशतः महितः सुरैः।।

आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः। निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह।।

तेऽमरारिविनाशाय सर्वलोकहिताय च। अवतेरुः क्रमेणैव महीं स्वर्गाद्दिवौकसः।।

ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च। जज्ञिरे राजशार्दूल यथाकामं दिवौकसः।।

दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा। पुरुषादानि चान्यानि जघ्नुः सत्वान्यनेकशः।।

दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा। न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम।। जनमेजय उवाच।

देवदानवसङ्घानां गन्धर्वाप्सरसां तथा। मानवानां च सर्वेषां तथा वै यक्षरक्षसाम्।।

श्रोतुमिच्छामि तत्त्वेन संभवं कृत्स्नमादितः। प्राणिनां चैव सर्वेषां संभवं वक्तुमर्हसि।। वैशम्पायन उवाच।

हन्त ते कथयिष्यामि नमस्कृत्य स्वयंभुवे। सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम्।।

ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः। मरीचिरत्र्यह्गिरसौ पुलस्त्यः पुलहः क्रतुः।।

मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः। प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश।।

अदितिर्दितिर्दनुः काला दनायुः सिंहिका तथा। क्रोधा प्राधा च विश्वा च विनता कपिला मुनिः।।

कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत। एतासां वीर्यसंपन्नं पुत्रपौत्रमनन्तकम्।।

अदित्यां द्वादशादित्याः संभूता भुवनेश्वराः। ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत।।

धाता मित्रोऽर्यमा शक्रो वरुणस्त्वंश एव च। भगो विवस्वान्पूषा च सविता दशमस्तथा।।

एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते। जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।।

एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः। नाम्ना ख्यातास्तु तस्येमे पञ्च पुत्रा महात्मनः।।

प्रह्लादः पूर्वजस्तेषां संह्लादस्तदनन्तरम्। अनुह्लादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ।।

प्रह्लादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत। विरोचनश्च कुम्भश्च निकुम्भश्चेति भारत।।

विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान्। बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः।।

रुद्रस्यानुचरः श्रीमान्महाकालेति यं विदुः। चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत।।

तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः। शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः।।

असिलोमा च केशी च दुर्जयश्चैव दानवः। अयःशिरा अश्वशिरा अश्वशह्कुश्च वीर्यवान्।।

तथा गगनमूर्धा च वेगवान्केतुमांश्च सः। स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाऽजकस्तथा।।

अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महाबलः। इषुपादेकचक्रश्च विरूपाक्षहराहरौ।।

adi-1-66-26__2842 निचन्द्रश्च निकुम्भश्च कुपटः कपटस्तथा। शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा। एते ख्याता दनोर्वंशे दानवाः परिकीर्तिताः।।

अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ। अन्यौ दानवमुख्यानां सूर्याचन्द्रमसौ तथा।।

इमे च वंशाः प्रथिताः सत्ववन्तो महाबलाः। दनुपुत्रा महाराज दश दानववंशजाः।।

एकाक्षो मृतपो वीरः प्रलम्बनरकावपि। वातापिः शत्रुतपनः शठश्चैव महासुरः।।

गविष्ठश्च वनायुश्च दीर्घजिह्वश्च दानवः। असङ्ख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत।।

सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम्। सुचन्द्रं चन्द्रहर्तारं तथा चन्द्रप्रमर्दनम्।।

क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम्। गणः क्रोधवशो नाम क्रूरकर्माऽरिमर्दनः।।

दनायुषः पुनः पुत्राश्चत्वारोऽसुरपुंगवाः। विक्षरो बलवीरौ च वृत्रश्चैव महासुरः।।

कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः। प्रविख्याता महावीर्या दानवेषु परन्तपाः।।

विनाशनश्च क्रोधश्च क्रोधहन्ता तथैव च। क्रोधशत्रुस्तथैवान्ये कालकेया इति श्रुताः।।

असुराणामुपाध्यायः शक्रस्त्वषिसुतोऽभवत्। ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः।।

त्वष्टा धरस्तथात्रिश्च द्वावन्यौ रौद्रकर्मिणौ। तेजसा सूर्यसंकाशा ब्रह्मलोकपरायणाः।।

इत्येष वंशप्रभवः कथितस्ते तरस्विनाम्। असुराणां सुराणां च पुराणे संश्रुतो मया।।

एतेषां यदपत्यं तु न शक्यं तदशेषतः।। प्रसंख्यातुं महीपाल गुणभूतमनन्तकम्।।

तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ। आरुणिर्वारुणिश्चैव वैनतेयाः प्रकीर्तिताः।।

शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः। कूर्मश्च कुलिकश्चैव काद्रवेयाः प्रकीर्तिताः।।

भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा। गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः।।

सत्यवागर्कपर्णश्च प्रयुतश्चापि विश्रुतः। भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी।।

तथा शालिशिरा राजन्पर्जन्यश्च चतुर्दशः। कलिः पञ्चदशस्तेषां नारदश्चैव षोडशः।। इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः।।

अथ प्रभूतान्यन्यानि कीर्तयिष्यामि भारत। अनवद्यां मनुं वंशामसुरां मार्गणप्रियाम्।।

अरूपां सुभगां भासीमिति प्राधा व्यजायत। सिद्धः पूर्णश्च बर्हिश्च पूर्णायुश्च महायशाः।।

ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः। विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा।।

इत्येते देवगन्धर्वाः प्राधेयाः परिकीर्तिताः। इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम्।।

अरिष्टाऽसूत सुभगा देवी देवर्षितः पुरा। अलम्बुषा मिश्रकेशी विद्युत्पर्णा तिलोत्तमा।।

अरुणा रक्षिता चैव रम्बा तद्वन्मनोरमा। केशिनी च सुबाहुश्च सुरता सुरजा तथा।।

सुप्रिया चातिबाहुश्च विख्यातौ च हाहा हूहूः। तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः।।

अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा। अपत्यं कपिलायास्तु पुराणे परिकीर्तितम्।।

इति ते सर्वभूतानां संभवः कथितो मया। यथावत्संपरिख्यातो गन्धर्वाप्सरसां तथा।।

भुजंगानां सुपर्णानां रुद्राणां मरुतां तथा। गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम्।।

आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः। श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता।।

adi-1-66-56__2872 इमं तु वंशं नियमेन यः पठे- न्महात्मनां ब्राह्मणदेवसन्निधौ। अपत्यलाभं लभते स पुष्कलं श्रियं यशः प्रेत्य च शोभनां गतिम्।। ।।

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षट्षष्टितमोऽध्यायः।। 66 ।।

1-66-2 क्षयात् स्थानात्।। 1-66-16 जघन्यजः पश्चाज्जातः।। 1-66-32 क्रूरायाः क्रोधायाः।। 1-66-39 गुणभूतप्रधानरूपम्।। षट्षष्टितमोऽध्यायः।। 66 ।।

अध्यायः 067

ऋष्यादिवंशकथनम्।। 1 ।।

adi-1-67-0__2873 वैशंपायन उवाच।

ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः। एकादश सुताः स्थाणोः ख्याताः परमतेजसः।।

मृगव्याधश्च सर्पश्च निर्ऋतिश्च महायशाः। अजैकपादहिर्बिध्न्यः पिनाकी च परन्तपः।।

दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः। स्थाणुर्भगश्च भगवान् रुद्रा एकादश स्मृताः।।

मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः। षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः।।

त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः। बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः।।

अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप। सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः।।

राक्षसाश्च पुलस्त्यस्य वानराः किन्नरास्तथा। यक्षाश्च मनुजव्याघ्र पुत्रास्तस्य च धीमतः।।

पुलहस्य सुता राजञ्शरभाश्च प्रकीर्तिताः। सिंहाः किपुरुषा व्याघ्रा ऋक्षा ईहामृगास्तथा।।

क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः। विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः।।

दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः। ब्रह्मणः पृथिवीपाल शान्तात्मा सुमहातपाः।।

वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः। तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः।।

ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः। पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः।।

ददौ स दश धर्माय सप्तविंशतिमिन्दवे। दिव्येन विधिना राजन्कश्यपाय त्रयोदश।।

नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे। कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा।।

बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश। द्वाराण्येतानि धर्मस्य विहितानि स्वयंभुवा।।

सप्तविंशतिः सोमस्य पत्न्यो लोकस्य विश्रुताः। कालस्य नयने युक्ताः सोमपत्न्याः शुचिव्रताः।।

adi-1-67-17__2890 सर्वा नक्षत्रयोगिन्यो लोकयात्राविधानतः। पैतामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः। तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम्।।

धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः। प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः।।

धूम्रायास्तु धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा। चन्द्रमास्तु मनस्विन्याः श्वासायाः श्वसनस्तथा।।

रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः। प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ।।

adi-1-67-21__2894 धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा। `आपस्य पुत्रो वैतण्ड्यः श्रमः शान्तोमुनिस्तथा'। ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः।।

सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते। मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा।।

अह्नः सुतस्तथा ज्योतिः शमः शान्तस्तथा मुनिः। अग्नेः पुत्रः कुमारस्तु श्रीमाञ्छरवणालयः।।

तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः। कृत्तिकाभ्युपपत्तेश्च कार्तिकेय इति स्मृतः।।

अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः। अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु।।

adi-1-67-26__2899 प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाऽथ देवलम्। द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ। बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मवादिनी।।

योगसिद्धा जगत्कृत्स्नमसक्ता विचचार ह। प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह।।

विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः। कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः।।

भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः। यो दिव्यानि विमानानि त्रिदशानां चकारह।।

मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः। पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम्।।

स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः। निःसृतो भगवान्धर्मः सर्वलोकसुखावहः।।

त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः। शमः कामश्च हर्षश्च तेजसा लोकधारिणः।।

कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना। नन्दा तु भार्या हर्षस्य यासु लोकाः प्रतिष्ठिताः।।

मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः। जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः।।

त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी। असूयत महाभागा सान्तरिक्षेऽस्विनावुभौ।।

द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप। तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः।।

त्रयस्त्रिंशत यत्येते देवास्तेषामहं तव। अन्वयं संप्रवक्ष्यामि पक्षैश्च कुलतो गणान्।।

रुद्राणामपरः पक्षः साध्यानां मरुतां तथा। वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च।।

वैनतेयस्तु गरुडो बलवानरुणस्तथा। बृहस्पतिश्च भगवानादित्येष्वेव गण्यते।।

अश्विनौ गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून्। एते देवगणा राजन्कीर्तितास्तेऽनुपूर्वशः।।

यान्कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते। ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः।।

adi-1-67-42__2915 भृगोः पुत्रः कविर्विद्वाञ्छुक्रः कविसुतो ग्रहः। त्रैलोक्यप्राणयात्रार्थं वर्षावर्षे भयाभये। स्वयंभुवा नियुक्तः सन्भुवनं परिधावति।।

योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः। सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः।।

तस्मिन्नियुक्ते विधिना योगक्षेमाय भार्गवे। अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम्।।

च्यवनं दीप्ततपसं धर्मात्मानं यशस्विनम्। यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत।।

आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः। और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः।।

महातेजा महावीर्यो बाल एव गुणैर्युतः। ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत्।।

adi-1-67-48__2921 जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः। रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः। सर्वशस्त्रेषु कुशलः क्षत्रियान्तकरो वशी।।

और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम्। तेषां पुत्रसहस्राणि बभूवुर्भुवि विस्तरः।।

द्वौ पुत्रो ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम्। लोके धाता विधाता च यौ स्थितौ मनुना सह।।

तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा। तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः।।

वरुणस्य भार्या या ज्येष्ठा शुक्राद्देवी व्यजायत। तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम्।।

प्रजानामन्नकामानामन्योन्यपरिभक्षणात्। अधर्मस्तत्र संजातः सर्वभूतविनाशकः।।

तस्यापि निर्ऋतिर्भार्या नैर्ऋता येन राक्षसाः। घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा।।

भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा। न तस्य भार्या पुत्रो वा कश्चिदस्त्यन्तको हि सः।।

काकीं श्येनीं तथा भासीं धृतराष्ट्रीं तथा शुकीम्। ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः।।

उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत। भासी भासानजनयद्गृध्रांश्चैव जनाधिप।।

धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः। चक्रवाकांश्च भद्रा तु जनयामास सैव तु।।

शुकी च जनयामास शुकानेव यशस्विनी। कल्याणगुणसंपन्ना सर्वलक्षणपूजिता।।

नव क्रोधवशा नारीः प्रजज्ञे क्रोधसंभवाः। मृगी च मृगमन्दा च हरी भद्रमना अपि।।

मातङ्गी त्वथ शार्दूली श्वेता सुरभिरेव च। सर्वलक्षणसंपन्ना सुरसा चैव भामिनी।।

अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम। ऋक्षाश्च मृगमन्दायाः सृमराश्च परंतप।।

ततस्त्वैरावतं नागं जज्ञे भद्रमनाः सुतम्। ऐरावतः सुतस्तस्या देवनागो महागजः।।

हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः। गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते।।

प्रजज्ञे त्वथ शार्दूली सिंहान्व्याग्राननेकशः। द्वीपिनश्च महासत्वान्सर्वानेव न सशंयः।।

मातङ्ग्यपि च मातङ्गानपत्यानि नराधिप। दिशां गजं तु श्वेताख्यं श्वेताऽजनयदाशुगम्।।

तथा दुहितरौ राजन्सुरभिर्वै व्यजायत। रोहिणी चैव भद्रं ते गन्धर्वी तु यशस्विनी।।

विमलामपि भद्रं ते अनलामपि भारत। रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः।।

`इरायाः कन्यका जातास्तिस्रः कमललोचनाः। वनस्पतीनां वृक्षाणां वीरुधां चैव मातरः।।

लतारुहे च द्वे प्रोक्ते वीरुधां चैव ताः स्मृताः। गृह्णन्ति ये विना पुष्पं फलानि तरवः पृथक्।।

लतासुतास्ते विज्ञेयास्तानेवाहुर्वनस्पतीन्। पुष्पैः फलग्रहान्वृक्षान्रुहायाः प्रसवं विदुः।।

लतागुल्मानि वृक्षाश्च त्वक्सारतृणजन्तवः। वीरुधो याः प्रजास्तस्यास्तत्र वंशः समाप्यते।।

adi-1-67-73__2946 सप्तपिम्डफलान्वृक्षाननलापि व्यजायत।।

अनलायाः शुकी पुत्री कंकस्तु सुरसासुतः। अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ।।

संपातिं जनयामास वीर्यवन्तं जटायुषम्। सुरसाऽजनयन्नागान्कद्रूः पुत्रांस्तु पन्नगान्।।

adi-1-67-76__2949 द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ। इत्येष सर्वभूतानां महतां मनुजाधिप। प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर।।

यं श्रुत्वा पुरुषः सम्यङ्मुक्तो भवति पाप्मनः। सर्वज्ञतां च लभते रतिमग्र्यां च विन्दति।। ।।

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि सप्तषष्टितमोऽध्यायः।। 67 ।।

1-67-1 ब्रह्मण इति षण्महर्षयः स्थाणुश्च सप्तम इति बोध्यम्। तत्रादौ स्थाणुसंततिमेवाह एकादशेति। एकादश तथा रुद्राः स्थाणोश्चैव हि मानसाः इति पाठान्तरम्। अत्र स्थिरत्वात्स्थाणुर्ब्रह्मा।। 1-67-5 बृहस्पतिरुचथ्यश्चेति पाठान्तरम्।। 1-67-8 ईहामृगाः वृकाः।। 1-67-9 पतङ्गसहचारिणः सूर्यसहचरा वालखिल्याः।। 1-67-16 नयने ज्ञापने।। 1-67-17 नक्षत्रयोगिन्यो नक्षत्रनामयुक्ताः। विधानतः विधानार्थमभवन्। पैतामहो देवो धर्मः पितामहस्तनाज्जातत्वात्। तस्य पितामहस्य पुत्रो दक्षः तदङ्गुष्ठाज्जातत्वात्। तस्य संबन्धिनी वसुनाम्नी कन्या तस्यां धर्माद्वसवोष्टौ जाता इत्यर्थः। वसोस्तु वसवः पुत्रा इत्यन्यत्रोक्तेः।। 1-67-19 धूम्राय इति वसोरेव धूम्रादीनि नामान्तराणि कल्पभेदात्। अन्या एता न दक्षकन्या इति वा।। 1-67-24 कृत्तिकानां षण्णां मातृत्वेनाभ्युपपत्तेरङ्गीकारात्।। 1-67-35 बडवा अश्वा अन्तरिक्षे अश्विनावसूत नासिकायां शुक्रप्रक्षेपात्।। 1-67-37 त्रयस्त्रिंशत् अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च।। 1-67-43 योगाचार्य इति। चापी व्यस्तौ। सुराणामपि च गुरुरिति संबन्धः। देवानां गुरुरेव योगाचार्यो योगबलेन कायद्वयं कृत्वा दैत्यानामप्याचार्योऽभवदित्यर्थः।। 1-67-73 पिण्डफलान्सप्त। खर्जूरतालहिंताला ताली खर्जूरिका तथा। गुवाकानारिकेलश्च सप्त पिण्डफला द्रुमाः इत्युक्तरूपान्। इह पुराणान्तरविरोधो नामभेदात्कल्पभेदाद्वापनेयः।। सप्तषष्टितमोऽध्यायः।। 67 ।।

अध्यायः 068

जरासन्धादीनां संभवः।। 1 ।। द्रोणादीनां संभवः।। 2 ।। धृतराष्ट्रादीनां संभवः।। 3 ।। दुर्योधनादीनां संभवः।। 4 ।। युधिष्ठिरादीनां संभवः।। 5 ।। धृष्टद्युम्नादीनां संभवः।। 6 ।। पृथाचरित्रं। कर्णोत्पत्तिश्च।। 7 ।। बलरामादीनां संभवः।। 8 ।। द्रौपदीसंभवः।। 9 ।। कुन्तीमाद्र्योः संभवः।। 10 ।।

adi-1-68-0__2951 जनमेजय उवाच।

देवानां दानवानां च गन्धर्वोरगरक्षसाम्। सिंहव्याघ्रमृगाणां च पन्नगानां पतत्त्रिणाम्।।

adi-1-68-2__2953 अन्येषां चैव भूतानां संभवं भगवन्नहम्। श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम्। जन्म कर्म च भूतानामेतेषामनुपूर्वशः।। वैशंपायन उवाच।

मानुषेषु मनुष्येन्द्र संभूता ये दिवौकसः। प्रथमं दानवाश्चैव तांस्ते वक्ष्यामि सर्वशः।।

विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः। जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः।।

दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः। स जज्ञे मानुषे लोके शिशुपालो नरर्षभः।।

संह्लाद इति विख्यातः प्रह्लादस्यानुजस्तु यः। स शल्य इति विख्यातो जज्ञे वाहीकपुङ्गवः।।

अनुह्लादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः। धृष्टकेतुरिति ख्यातः स बभूव नरेश्वरः।।

यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः। द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः।।

बाष्कलो नाम यस्तेषामासीदसुरसत्तमः। भगदत्त इति ख्यातः सं जज्ञे पुरुषर्षभः।।

अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान्। तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः।।

adi-1-68-11__2962 पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः। केकयेषु महात्मानः पार्थिवर्षभसत्तमाः। केतुमानिति विख्यातो यस्ततोऽन्यःप्रतापवान्।।

अमितौजा इति ख्यातः सोग्रकर्मा नराधिपः। स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः।।

उग्रसेन इति ख्यात उग्रकर्मा नराधिपः। यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः।।

अशोको नाम राजाऽभून्महावीर्योऽपराजितः। तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः।।

दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः। वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः।।

दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः। अजकस्त्ववरो राजन्य आसीद्वृषपर्वणः।।

स शाल्व इति विख्यातः पृथिव्यामभवन्नृपः। अश्वग्रीव इति ख्यातः सत्ववान्यो महासुरः।।

रोचमान इति ख्यातः पृथिव्यां कोऽभवन्नृपः। सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः।।

बृहद्रथ इति ख्यातः क्षितावासीत्स पार्थिवः। तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः।।

सेनाबिन्दुरिति ख्यातः स बूभव नराधिपः। इषुमान्नाम यस्तेषामसुराणां बलाधिकः।।

नग्नजिन्नाम राजासीद्भुवि विख्यातविक्रमः। एकचक्र इति ख्यात आसीद्यस्तु महासुरः।।

प्रतिविन्घ्य इति ख्यातो बभूव प्रथितः क्षितौ। विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः।।

चित्रधर्मेति विख्यातः क्षितावासीत्स पार्थिवः। हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः।।

सुबाहुरिति विख्यातः श्रीमानासीत्स पार्थिवः। अहरस्तु महातेजाः शत्रुपक्षक्षयंकरः।।

बाह्लिको नाम राजा स बभूव प्रथितः क्षितौ। निचन्द्रश्चन्द्रवक्त्रस्तु य आसीदसुरोत्तमः।।

मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः। निकुम्भस्त्वजितः संख्ये महामतिरजायत।।

भूमौ भूमिपतिश्रेष्ठो देवाधिप इति स्मृतः। शरभो नाम यस्तेषां दैतेयानां महासुरः।।

पौरवो नाम राजर्षिः स बभूव नरोत्तमः। कुपटस्तु महावीर्यः श्रीमान्राजन्महासुरः।।

सुपार्श्व इति विख्यातः क्षितौ जज्ञे महीपतिः। कपटस्तु राजन्राजर्षिः क्षितौ जज्ञे महासुरः।।

पार्वतेय इति ख्यातः काञ्चनाचलसन्निभः। द्वितीयः शलभस्तेषामसुराणां बभूव ह।।

प्रह्लादो नाम बाह्लीकः स बभूव नराधिपः। चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः।।

चन्द्रवर्मेति विख्यातः काम्बोजानां नराधिपः। अर्क इत्यभिविख्यातो यस्तु दानवपुङ्गवः।।

ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः। मृतपा इति विख्यातो य आसीदसुरोत्तमः।।

पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम। गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः।।

द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः। मयूर इति विख्यातः श्रीमान्यस्तु महासुरः।।

स विश्व इति विख्यातो बभूव पृथिवीपतिः। सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः।।

कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः। चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः।।

शुनको नाम राजर्षिः स बभूव नराधिपः। विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः।।

जानकिर्नाम विख्यातः सोऽभवन्मनुजाधिपः। दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः।।

adi-1-68-40__2991 काशिराजः स विख्यातः पृथिव्यां पृथिवीपते। ग्रहं तु सुषुवे यं तु सिंहिकार्केन्दुमर्दनम्। स क्राथ इति विख्यातो बभूव मनुजाधिपः।।

दनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः। विक्षरो नाम तेजस्वी वसुमित्रो नृपः स्मृतः।।

द्वितीयो विक्षराद्यस्तु नराधिप महासुरः। पाण्ड्यराष्ट्राधिप इति विख्यातः सोऽभवन्नृपः।।

बली वीर इति ख्यातो यस्त्वासीदसुरोत्तमः। पौण्ड्रमात्स्यक इत्येवं बभूव स नराधिपः।।

वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः। मणिमान्नाम राजर्षिः स बभूव नराधिपः।।

क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः। दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ।।

क्रोधवर्धन इत्येवं यस्त्वन्यः परिकीर्तितः। दण्डधार इति ख्यातः सोऽभवन्मनुजर्षभः।।

कालेयानां तु ये पुत्रास्तेषामष्टौ नराधिपाः। जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः।।

मगधेषु जयत्सेनस्तेषामासीत्स पार्थिवः। अष्टानां प्रवरस्तेषां कालेयानां महासुरः।।

द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः। अपराजित इत्येवं स बभूव नराधिपः।।

तृतीयस्तु महातेजा महामायो महासुरः। निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः।।

तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः। श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः।।

पञ्चमस्त्वभवत्तेषां प्रवरो यो महासुरः। महौजा इति विख्यातो बभूवेह परन्दपः।।

षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः। अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः।।

समुद्रसेनस्तु नृपस्तेषामेवाभवद्गणात्। विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित्।।

बृहन्नामाष्टमस्तेषां कालेयानां नराधिप। बभूव राजा धर्मात्मा सर्वभूतहिते रतः।।

कुक्षिस्तु राजन्विख्यातो दानवानां महाबलः। पार्वतीय इति ख्यातः काञ्चनाचलसन्निभः।।

क्रथनश्च महावीर्यः श्रीमान्राजा महासुरः। सूर्याक्ष इति विख्यातः क्षितौ जज्ञे महीपतिः।।

असुराणां तु यः सकूर्यः श्रीमांश्चैव महासुरः। दरदो नाम बाह्लीको वरः सर्वमहीक्षिताम्।।

गणः क्रोधवशो नाम यस्ते राजन्प्रकीर्तितः। ततः संजज्ञिरे वीराः क्षिताविह नराधिपाः।।

मद्रकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा। सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः।।

क्रथो विचित्रः सुरथः श्रीमान्नीलश्च भूमिपः। चीरवासाश्च कौरव्य भूमिपालश्च नामतः।।

दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव दानवः। रुक्मी च नृपशार्दूलो राजा च जनमेजयः।।

आषाढो वायुवेगश्च भूरितेजास्तथैव च। एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः।।

कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च। श्रुतायुरुद्वहश्चैव बृहत्सेनस्तथैव च।।

क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः। मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः।।

गणात्क्रोधवशादेष राजपूगोऽभवत्क्षितौ। जातः पुरा महाभागो महाकीर्तिर्महाबलः।।

कालनेमिरिति ख्यातो दानवानां महाबलः। स कंस इति विख्यात उग्रसेनसुतो बली।।

यस्त्वासीद्देवको नाम देवराजसमद्युतिः। स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः।।

बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत। अशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम्।।

धन्विनां नृपशार्दूल यः सर्वास्त्रविदुत्तमः। महाकीर्तिर्महातेजाः स जज्ञे मनुजेश्वर।।

धनुर्वेदे च वेदे च यं तं वेदविदो विदुः। वरिष्ठं चित्रकर्माणं द्रोणं स्वकुलवर्धनम्।।

महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत। एकत्वमुपसंपद्य जज्ञे शूरः परन्तपः।।

अश्वत्थामा महावीर्यः शत्रुपक्षभयावहः। वीरः कमलपत्राक्षः क्षितावासीन्नराधिपः।।

जज्ञिरे वसवस्त्वष्टौ गङ्गायां शन्तनोः सुताः। वसिष्ठस्य च शापेन नियोगाद्वासवस्य च।।

तेषामवरजो भीष्मः कुरूणामभयङ्करः। मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयङ्करः।।

जामदग्न्येन रामेण सर्वास्त्रविदुषां वरः। योऽप्युध्यत महातेजा भार्गवेण महात्मना।।

यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ। रुद्राणां तु गणाद्विद्धि संभूतमतिपौरुषम्।।

शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः। द्वापरं विद्धि तं राजन्संभूतमरिमर्दनम्।।

सात्यकिः सत्यसन्धश्च योऽसौ वृष्णिकुलोद्वहः। पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः।।

द्रुपदश्चैव राजर्षिस्तत एवाभवद्गणात्। मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः।।

ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम्। तमप्रतिमकर्माणं क्षत्रियर्षभसत्तमम्।।

मरुतां तु गणाद्विद्धि संजातमरिमर्दनम्। विराटं नाम राजानं परराष्ट्रप्रतापनम्।।

अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः। स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः।।

धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनात्मजः। दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः।। मातुर्दोषादृषेः कोपादन्ध एव व्यजायत।।

adi-1-68-85__3036 `मरुतां तु गणाद्वीरः सर्वशस्त्रभृतां वरः। पाण्डुर्जज्ञे महाबाहुस्तव पूर्वपितामहः।' तस्यैवावरजो भ्राता महासत्वो महाबलः।।

धर्मात्तु सुमहाभागं पुत्रं पुत्रवतां वरम्। विदुरं विद्धि तं लोके जातं बुद्धिमतां वरम्।।

कलेरंशस्तु संजज्ञे भुवि दुर्योधनो नृपः। दुर्बद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः।।

जगतो यस्तु सर्वस्य विद्विष्टः कलिपूरुषः। यः सर्वां घातयामास पृथिवीं पृथिवीपते।।

उद्दीपितं येन वैरं भूतान्तकरणं महत्। पौलस्त्या भ्रातरश्चास्य जज्ञिरे मनुजेष्विह।।

शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम्। दुर्मुखो दुःसहश्चैव ये चान्ये नानुकीर्तिताः।।

दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ। वैश्यापुत्रो युयुत्सुश्च धार्तराष्ट्रः शताधिकः।। जनमेजय उवाच।

ज्येष्ठानुज्येष्ठतामेषां नामधेयानि वा विभो। धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय।। वैशंपायन उवाच।

दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा। दुःसहो दुःशलश्चैव दुर्मुखश्च तथापरः।।

विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः। विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः।।

दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च। चत्रोपचित्रौ चित्राक्षश्चारुचित्राङ्गदश्च ह।।

दुर्मदो दुष्प्रहर्षश्च विवित्सुर्विकटः समः। ऊर्णनाभः पद्मनाभस्तथा नन्दोपनन्दकौ।।

सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ। चित्रबाहुश्चित्रवर्मा सुवर्मा दुर्विरोचनः।।

अयोबाहुर्महाबाहुश्चित्रचापसुकुण्डलौ। भीमवेगो भीमबलो बलाकी भीमविक्रमः।।

उग्रायुधो भीमशरः कनकायुर्दृढायुधः। दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः।।

जरासन्धो दृढसन्धः सत्यसन्धः सहस्रवाक्। उग्रश्रवा उग्रसेनः क्षेममूर्तिस्तथैव च।।

adi-1-68-101__3052 अपराजितः पण्डितको विशालाक्षो दुराधनः।।

दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ। आदित्यकेतुर्बह्वाशी नागदत्तानुयायिनौ।।

कवाची निषङ्गी दण्डी दण्डधारो धनुर्ग्रहः। उग्रो भीमरथो वीरो वीरबाहुरलोलुपः।।

अभयो रौद्रकर्मा च तथा दृढरथश्च यः। अनाधृष्यः कुम्डभेदी विरावी दीर्घलोचनः।।

दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकाङ्गदः। कुण्डजश्चित्रकश्चैव दुःशला च शताधिका।।

वैश्यापुत्रो युयुत्सुश्च धार्तराष्ट्रः शताधिकः। एतदेकशतं राजन्कन्या चैका प्रकीर्तिता।।

नामधेयानुपूर्व्या च ज्येष्ठानुज्येष्ठतां विदुः। सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः।।

सर्वे वेदविदश्चैव राजञ्शास्त्रे च परागाः। सर्वे सङ्घ्रामविद्यासु विद्याभिजनशोभिनः।।

सर्वेषामनुरूपाश्च कृता दारा महीपते। दुःशलां समये राजसिन्धुराजाय कौरवः।।

जयद्रथाय प्रददौ सौबलानुमते तदा। धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम्।।

भीमसेनं तु वातस्य देवराजस्य चार्जुनम्। अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि।।

नकुलः सहदेवश्च सर्वभूतमनोहरौ। स्युवर्चा इति ख्यातः सोमपुत्रः प्रतापवान्।।

सोऽभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत्। यस्यावतरणे राजन्सुरान्सोमोऽब्रवीदिदम्।।

नाहं दद्यां प्रियं पुत्रं मम प्राणैर्गरीयसम्। समयः क्रियतामेष न शक्यमतिवर्तितुम्।।

सुरकार्यं हि नः कार्यमसुराणां क्षितौ वधः। तत्र यास्यत्ययं वर्चा न च स्थास्यति वै चिरम्।।

ऐन्द्रिर्नरस्तु भविता यस्य नारायणः सखा। सोर्जुनेत्यभिविख्यातः पाण्डोः पुत्रः प्रतापवान्।।

तस्यायं भविता पुत्रो बालो भुवि महारथः। ततः षोडशवर्षाणि स्थास्यत्यमरसत्तमाः।।

अस्य षोडशवर्षस्य स सङ्ग्रामो भविष्यति। यत्रांशा वः करिष्यन्ति कर्म वीरनिषूदनम्।।

नरनारायणाभ्यां तु स सङ्ग्रामो विनाकृतः। चक्रव्यूहं समास्थाय योधयिष्यन्ति वःसुराः।।

विमुखाञ्छात्रवान्सर्वान्कारयिष्यति मे सुतः। बालः प्रविश्य च व्यूहमभेद्यं विचरिष्यति।।

महारथानां वीराणां कदनं च करिष्यति। सर्वेषामेव शत्रूणां चतुर्थांशं नयिष्यति।।

दिनार्धेन महाबाहुः प्रेतराजपुरं प्रति। ततो महारथैर्वीरैः समेत्य बहुशो रणे।।

दिनक्षये महाबाहुर्मया भूयः समेष्यति। एकं वंशकरं पुत्रं वीरं वै जनयिष्यति।।

adi-1-68-124__3075 प्रनष्टं भारतं वंशं स भूयो धारयिष्यति। वैशंपायन उवाच। एतत्सोमवचः श्रुत्वा तथास्त्विति दिवौकसः।।

प्रत्यूचुः सहिताः सर्वे ताराधिपमपूजयन्। एवं ते कथितं राजंस्तव जन्म पितुः पितुः।।

अग्नेर्भागं तु विद्धि त्वं धृष्टद्युम्नं महारथण्। शिखण्डिनमथो राजंस्त्रीपूर्वं विद्धि राक्षसम्।।

द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ। विश्वान्देवगणान्विद्धि संजातान्भरतर्षभ।।

प्रतिविन्ध्यः सुतसोमः श्रुतकीर्तिस्तथापरः। नाकुलिस्तु शतानीकः श्रुतसेनश्च वीर्यवान्।।

adi-1-68-129__3080 शूरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत्। तस्य कन्या पृथा नाम रूपेणासदृशी भुवि।

पितुः स्वस्रीयपुत्राय सोऽनपत्याय वीर्यवान्। अग्रमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वै तदा।।

अग्रजातेति तां कन्यां शूरोऽनुग्रहकाङ्क्षया। अददत्कुन्तिभोजाय स तां दुहितरं तदा।।

सा नियुक्ता पितुर्गेहे ब्राह्मणातिथिपूजने। उग्रं पर्यचरद्धोरं ब्राह्मणं संशितव्रतम्।।

निकूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः। समुग्रं शंसितात्मानं सर्वयत्नैरतोषयत्।।

तुष्टोऽभिचारसंयुक्तमाचचक्षे यथाविधि। उवाच चैनां भगवान्प्रीतोऽस्मि सुभगे तव।।

यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि। तस्य तस्य प्रसादात्त्वं देवि पुत्राञ्जनिष्यसि।।

एवमुक्ता च सा बाला तदा कौतूहलान्विता। कन्या सती देवमर्कमाजुहाव यशस्विनी।।

प्रकाशकर्ता भगवांस्तस्यां गर्भं दधौ तदा। अजीजनत्सुतं चास्यां सर्वशस्त्रभृतांवरम्।।

सकुण्डलं सकवचं देवगर्भं श्रियान्वितम्। दिवाकरसमं दीप्त्या चारुसर्वाङ्गभूषितम्।।

निगूहमाना जातं वै बन्धुपक्षभयात्तदा। उत्ससर्ज जले कुन्ती तं कुमारं यशस्विनम्।।

तमुत्सृष्टं जले गर्भं राधाभर्ता महायशाः। राधायाः कल्पयामास पुत्रं सोऽधिरथस्तदा।।

चक्रतुर्नामधेयं च तस्य बालस्य तावुभौ। दंपती वसुषेणेति दिक्षु सर्वासु विश्रुतम्।।

संवर्धमानो बलवान्सर्वास्त्रेषूत्तमोऽभवत्। वेदाङ्गानि च सर्वाणि जजाप जपतां वरः।।

यस्मिन्काले जपन्नास्ते धीमान्सत्यपराक्रमः। नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः।।

तमिन्द्रो ब्राह्मणो भूत्वा पुत्रार्थे भूतभावनः। ययाचे कुण्डले वीरं कवचं च सहाङ्गजम्।।

उत्कृत्य कर्णो ह्यददत्कवचं कुण्डले तथा।। शक्तिं शक्रो ददौ तस्मै विस्मितश्चेदमब्रवीत्।।

देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम्। यस्मिन्क्षेप्स्यसि दुर्धर्ष स एको न भविष्यति।। वैशंपायन उवाच।

पुरा नाम च तस्यासीद्वसुषेण इति क्षितौ। ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत्।।

आमुक्तकवचो वीरो यस्तु जज्ञे महायशाः। स कर्ण इति विख्यातः पृथायाः प्रथमः सुतः।।

स तु सूतकुले वीरो ववृधे राजसत्तम। कर्णं नरवरश्रेष्ठं सर्वशस्त्रभृतां वरम्।।

दुर्योधनस्य सचिवं मित्रं शत्रुविनाशनम्। दिवाकरस्य तं विद्धि राजन्नंशमनुत्तमम्।।

यस्तु नारायणो नाम देवदेवः सनातनः। तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान्।।

शेषस्यांशश्च नागस्य बलदेवो महाबलः। सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम्।।

एवमन्ये मनुष्येन्द्रा बहवोंशा दिवौकसाम्। जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः।।

गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः। तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य ह।।

तानि षोडशदेवीनां सहस्राणि नराधिप। बभूवुर्मानुषे लोके वासुदेवपरिग्रहः।।

श्रियस्तु भागः संजज्ञे रत्यर्थं पृथिवीतले। [भीष्मकस्य कुले साध्वी रुक्मिणी नाम नामतः।।

adi-1-68-157__3108 द्रौपदी त्वथ संजज्ञे शची भागादनिन्दिता।] द्रुपदस्य कुले जाता वेदिमध्यादनिन्दिता।।

नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी। पद्मायताक्षी सुश्रोणी स्वसिताञ्चितमूर्धजा।।

सर्वलक्षणसंपन्ना वैदूर्यमणिसंनिभा। पञ्चानां पुरुषेन्द्राणां चित्तप्रमथनी रहः।।

सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते। कुन्ती माद्री च जज्ञाते मतिस्तु कुबलात्मजा।।

इति देवासुराणां ते गन्धर्वाप्सरसां तथा। अंशावतरणं राजन्राक्षसानां च कीर्तितम्।।

ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः। महात्मानो यदूनां च ये जाता विपुले कुले।।

ब्राह्मणाः क्षत्रिया वैश्या मया ते परिकीर्तिताः। धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम्।।

इदमंशावतरणं श्रोतव्यमनसूयता। अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम्।।

adi-1-68-165__3116 प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति।। ।।

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टषष्टितमोऽध्यायः।। 68 ।।

कुण्डलितोयं पाठः क्वचिन्न दृश्यते।

अध्यायः 069

कुरुवंशकथनम्।। 1 ।। संक्षेपेण ययात्युपाख्यानम्।। 2 ।।

adi-1-69-0__3117 जनमेजय उवाच।

त्वत्तः श्रुतमिदं ब्रह्मन्देवदानवरक्षसाम्। अंशावतरणं सम्यग्गन्धर्वाप्सरसां तथा।।

इमं तु भूय इच्छामि कुरूणां वंशमादितः। कथ्यमानं त्वया विप्र विप्रर्षिगणसन्निधौ।। वैशंपायन उवाच।

धर्मार्थकामसहितं राजर्षीणां प्रकीर्तितम्। पवित्रं कीर्त्यमानं मे निबोधेदं मनीषिणाम्।।

प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च। भरतस्य कुरोः पूरोराजमीढस्य चानघ।।

यादवानामिमं वंशं कौरवाणां च सर्वशः। तथैव भरतानां च पुण्यं स्वस्त्ययनं महत्।।

धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ। तेजोभिरुदिताः सर्वे महर्षिसमतेजसः।।

दश प्राचेतसः पुत्राः सन्तः पुण्यजनाः स्मृताः। मुखजेनाग्निना यैस्ते पूर्वं दग्धा महौजसः।।

तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः। संभूताः पुरुषव्याघ्र स हि लोकपितामहः।।

वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः। आत्मतुल्यानजनयत्सहस्रं संशितव्रतान्।।

सहस्रसङ्ख्यानसंभूतान्दक्षपुत्रांश्च नारदः। मोक्षमध्यापयामास साङ्ख्यज्ञानमनुत्तमम्।।

adi-1-69-11__3128 `नाशार्थं योजयामास दिगन्तज्ञानकर्मसु’। ततः पञ्चाशतं कन्या पुत्रिका अभिसन्दधे। प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय।।

ददौ दश स धर्माय कश्यपाय त्रयोदश। कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे।।

त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा। मारीचः कश्यपस्त्वस्यामादित्यान्समजीजनत्।।

इन्द्रादीन्वीर्यसंपन्नान्विवस्वन्तमथापि च। विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः।।

`मार्ताण्डस्य यमी चापि सुता राजन्नजायत’। मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः।।

धर्मात्मा स मनुर्धीमान्यत्र वंशः प्रतिष्ठितः। मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत्।।

ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः। ततोऽभवन्महाराज ब्रह्म क्षत्रेण सङ्गतम्।।

ब्राह्मणा मानवास्तेषां साङ्गं वेदमदारयन्। वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च।।

कारूषमथ शर्यातिं तथा चैवाष्टमीमिलाम्। पृष्टध्रं नवमं प्राहुः क्षत्रधर्मपरायणम्।।

नाभागारिष्टदशमान्मनोः पुत्रान्प्रचक्षते। पञ्चाशत्तु मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ।।

अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम्। पुरूरवास्ततो विद्वानिलायां समपद्यत।।

सा वै तस्याभवन्माता पिता चैवेति नः श्रुतम्। त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः।।

अमानुषैर्वृतः सत्वैर्मानुषः सन्महायशाः। विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः।।

जहार च स विप्राणां रत्नान्युत्क्रोशतामपि। सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह।।

अनुदर्शं ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ। ततो महर्षिभिः क्रुद्धैः सद्यः शप्तो व्यनश्यत।।

लोभान्वितो बलमदान्नष्टसंज्ञो नराधिपः। स हि गन्धर्वलोकस्थानुर्वश्या सहितो विराट्।।

आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा। षट् सुता जज्ञिरे चैलादायुर्धीमानमावसुः।।

दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः। नहुषं वृद्धशर्माणं रजिं गयमनेनसम्।।

स्वर्भानवी सुतानेतानायोः पुत्रान्प्रचक्षते। आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः।।

राज्यं शशास सुमहद्धर्मेण पृथिवीपते। पितॄन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान्।।

नहुषः पालयामास ब्रह्मक्षत्रमथो विशः। स हत्वा दस्युसंघातानृषीन्करमदापयत्।।

पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान्। कारयामास चेन्द्रत्वमभिभूय दिवौकसः।।

adi-1-69-33__3150 तेजसा तपसा चैव विक्रमेणौजसा तथा। `विश्लिष्टो नहुषः शप्तः सद्यो ह्यजगरोऽभवत्’। यतिं ययातिं संयातिमायातिमयतिं ध्रुवम्।।

नहुषो जनयामास षट् सुतान्प्रियवादिनः। यतिस्तु योगमास्थाय ब्रह्मीभूतोऽभवन्मुनिः।।

ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः। स पालयामास महीमीजे च बहुभिर्मखैः।।

अतिभक्त्या पितॄनर्चन्देवांश्च प्रयतः सदा। अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः।।

तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः। देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे।।

देवयान्यामजायेतां यदुस्तुर्वसुरेव च। द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां च जज्ञिरे।।

स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन्। जरामार्च्छन्महाघोरां नाहुषो रूपनाशिनीम्।।

जराऽभिभूतः पुत्रान्स राजा वचनमब्रवीत्। यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत।।

यौवनेन चरन्कामान्युवा युवतिभिः सह। बिहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः।।

तं पुत्रो दैवयानेयः पूर्वजो वाक्यमब्रवीत्। किं कार्यं भवतः कार्यमस्माकं यौवनेन ते।।

ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम्। यौवनेन त्वदीयेन चरेयं विषयानहम्।।

यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः। कामार्थः परिहीणोऽयं तप्येयं तेन पुत्रकाः।।

मामकेन शरीरेण राज्यमेकः प्रशास्तु वः। अहं तन्वाऽभिनवया युवा काममवाप्नुयाम्।। वैशंपायन उवाच।

ते न तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम्। तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः।।

राजंश्चराभिनवया तन्वा यौवनगोचरः। अहं जरां समादाय राज्ये स्थास्यामि तेज्ञया।।

एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात्। संचारयामास जरां तदा पुत्रे महात्मनि।।

पौरवेणाथ वयसा राजा यौवनमास्थितः। यायातेनापि वयसा राज्यं पूरुरकारयत्।।

ततो वर्षसहस्राणि ययातिरपराजितः। स्थितः स नृपशार्दूलः शार्दूलसमविक्रमः।।

ययातिरपि पत्नीभ्यां दीर्घकालं विहृत्य च। विश्वाच्या सहितो रेमे पुनश्चैत्ररथे वने।।

नाध्यगच्छत्तदा तृप्तिं कामानां स महायशाः। अवेत्य मनसा राजन्निमां गाथां तदा जगौ।।

न जातु कामः कामानामुपभोगेन शाम्यति। इविषा कृष्णवर्त्मेव भूय एवाभिवर्धते।।

यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः। नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत्।।

यदा न कुरुते पापं सर्वभूतेषु कर्हिचित्। कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा।।

न बिभेति यदा चायं यदा चास्मान्न बिभ्यति। यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा।।

इत्यवेक्ष्य महाप्राज्ञः कामानां फल्गुतां नृप। समाधाय मनो बुद्ध्या प्रत्यगृह्णाज्जरां सुतात्।।

adi-1-69-58__3175 `ततो वर्षसहस्रान्ते ययातिरपराजितः।’ दत्वा च यौवनं राजा पूरुं राज्येऽभिषिच्य च। अतृप्त एव कामानां पूरुं पुत्रमुवाच ह।।

त्वया दायादवानस्मि त्वं मे वंशकरः सुतः। पौरवो वंश इति ते ख्यातिं लोके गमिष्यति।। वैशंपायन उवाच।

ततः स नृपशार्दूल पूरुं राज्येऽभिषिच्य च। ततः सुचरितं कृत्वा भृगुतुङ्गे महातपाः।।

कालेन महता पश्चात्कालधर्ममुपेयिवान्। कारयित्वा त्वनशनं सदारः स्वर्गमाप्तवान्।। ।।

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकोनसप्ततितमोऽध्यायः।। 69 ।।

1-69-7 प्राचेतसः प्राचे देशाय यज्ञक्रियया अतति सततं गच्छतीति प्राचेताः तस्य प्राचेतसः प्राचीनबर्हिषः। पुण्यजनाः पुण्योत्पादकास्तपः शीला इत्यर्थः। यैस्ते महौजसो महाप्रभावा वृक्षौषधयो दग्धाः।। 1-69-9 वीरिण्या वीरणपुत्र्या।। 1-69-10 मोक्षं मोक्षहेतुं। सांख्यज्ञानं विवेकजं विज्ञानम्।। 1-69-15 यमी यमुना।। 1-69-21 अन्योन्यभेदात्परस्परवैरात्।। 1-69-22 मातैव लब्धपुंभावा राज्य दानात्पिताप्यभूत्। मुख्यः पिता तु बुध एव।। 1-69-25 अनुदश दर्शो दर्शनं स पश्चाद्यस्य स श्रुतियुक्त्युपदेशोऽनुदर्शस्तं तत स्तदुपदेशमित्यर्थः।। 1-69-26 विराड्विराजमानः।। 1-69-27 त्रिधा गार्हपत्यदक्षिणाग्न्याहवनीयभेदेन। आयुःशब्दः उक रान्तः सान्तश्च।। 1-69-42 कार्यं प्रयोजनम्। कार्यं कर्तव्यम्।। 1-69-44 व्रतनिर्बन्धाच्छुक्रशापाच्च कामरूपः पुरुषार्थो हीनः।। 1-69-47 तेज्ञया तव आज्ञया। पूर्वरूपमाकारलोपो वार्षः।। 1-69-52 कामामां कामभोगेन। अवेत्य कामसेवया तृप्त्यभावं ज्ञात्वा।। 1-69-53 हविषा समिदाज्यादिना।। 1-69-54 एकस्य कामिनः सर्वं नालमपर्याप्तम्। शमं कामशान्तिम्।। 1-69-59 दायादवान् पुत्रवान्।। 1-69-61 कारयित्वा कृत्वा।। एकोनसप्ततितमोऽध्यायः।। 69 ।।

अध्यायः 070

ययात्युपाख्यानारम्भः।। 1 ।। सञ्जीवनीविद्यालाभार्थं देवैः शुक्रसमीपे कचस्य प्रेषणम्।। 2 ।। कचस्य शिष्यत्वेनाङ्गीकारः।। 3 ।। दैत्यैर्हतस्य कचस्योज्जीवनम्।। 4 ।। दैत्यैर्भस्मीकृत्य तन्मिश्रितसुराद्वारा स्वकुक्षिं प्रापितस्य कचस्य शुक्रेण विद्यादानपूर्वकमुज्जीवनम्।। 5 ।। शुक्रेण सुरापाननिषेधः।। 6 ।।

adi-1-70-0__3179 जनमेजय उवाच।

ययातिः पूर्वजोऽस्माकं दशमो यः प्रजापतेः। कथं स शुक्रतनयां लेभे परमदुर्लभाम्।।

एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन। आनुपूर्व्या च मे शंस राज्ञो वंशकरान्पृथक्।। वैशंपायन उवाच।

ययातिरासीन्नृपतिर्देवराजसमद्युतिः। तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा।।

तत्तेऽहं संप्रवक्ष्यामि पृच्छते जनमेजय। देवयान्याश्च संयोगं ययातेर्नाहुषस्य च।।

सुराणामसुराणां च समजायत वै मिथः। ऐश्वर्यं प्रति संघर्षस्त्रैलोक्ये सचराचरे।।

जिगीषया ततो देवा वव्रिरेऽङ्गिरसं मुनिम्। पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे।।

ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम्। तत्र देवा निजघ्नुर्यान्दानवान्युधि संगतान्।।

तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात्। ततस्ते पुनरुत्थाय योधयांचक्रिरे सुरान्।।

असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि। न तान्सञ्जीवयामास बृहस्पतिरुदारधीः।।

न हि वेद स तां विद्यां यां काव्योवेत्ति वीर्यवान्। सञ्जीविनीं ततो देवा विषादमगमन्परम्।।

ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा। ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः।।

भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम्। या सा विद्या निवसति ब्राह्मणेऽमिततेजसि।।

शुक्रे तामाहर क्षिप्रं भागभाङ्गो भविष्यसि। वृषपर्वसमीपे हि शक्यो द्रष्टुं त्वया द्विजः।।

रक्षते दानवांस्तत्र न स रक्षत्यदानवान्। तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम्।।

देवयानीं च दयितां सुतां तस्य महात्मनः। त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते।।

शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च। देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम्।। वैशंपायन उवाच।

तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः। तदाऽभिपूजितो देवैः समीपे वृषपर्वणः।।

स गत्वा त्वरितो राजन्देवैः संप्रेषितः कचः। असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह।।

ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः। नाम्ना कच इति ख्यातं शिष्यं गृह्णात् मां भवान्।।

ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ। अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान्।। शुक्र उवाच।

कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः। अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः।। वैशंपायन उवाच।

कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम्। आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम्।।

व्रतस्य प्राप्तकालं स यथोक्तं प्रत्यगृह्णत। आराधयन्नुपाध्यायं देवयानीं च भारत।।

नित्यमाराधयिष्यंस्तां युवा यौवनगां मुनिः। गायन्नृत्यन्वादयंश्च देवयानीमतोषयत्।।

स शीलयन्देवयानीं कन्यां संप्राप्तयौवनाम्। पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत।।

देवयान्यपि तं विप्रं नियमव्रतधारिणम्। गायन्ती च ललन्ती च रहः पर्यचरत्तथा।।

adi-1-70-27__3206 `गायन्तं चैव शुल्कं च दातारं प्रियवादिनम्। नार्यो नरं कामयन्ते रूपिणं स्रग्विणं तथा।।’

पञ्चवर्षशतान्येवं कचस्य चरतो व्रतम्। तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम्।।

गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः। जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च।।

हत्वा शालावृकेभ्यश्च प्रायच्छँल्लवशः कृतम्। ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम्।।

सा दृष्ट्वा रहिता गाश्च कचेनाभ्यागता वनात्। उवाच वचनं काले देवयान्यथ भारत।। देवयान्युवाच।

आहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो। अगोपाश्चागता गावः कचस्तात न दृश्यते।।

व्यक्तं हतो मृतो वापि कचस्तात भविष्यति। तं विना न च जीवेयमिति सत्यं ब्रवीमि ते।। शुक्र उवाच।

adi-1-70-34__3213 अयमेहीति संशब्द्य मृतं संजीवयाम्यहम्। वैशंपायन उवाच। ततः संजीविनीं विद्यां प्रयुज्य कचमाह्वयत्।।

भित्त्वा भित्त्वा शरीराणि वृकाणां स विनिर्गतः। आहूतः प्रादुरभवत्कचो हृष्टोऽथ विद्यया।।

adi-1-70-36__3215 कस्माच्चिरायितोऽसीति पृष्टस्तामाह भार्गवीम्। कच उवाच। समिधश्च कुशादीनि काष्ठभारं च भामिनि।।

गृहीत्वा श्रमभारार्तो वटवृक्षं समाश्रितः। गावश्च सहिताः सर्वा वृक्षच्छायामुपाश्रिताः।।

असुरास्तत्र मां दृष्ट्वा कस्त्वमित्यभ्यचोदयन्। बृहस्पतिसुतश्चाहं कच इत्यभिविश्रुतः।।

इत्युक्तमात्रे मां हत्वा पेषीकृत्वा तु दानवाः। दत्त्वा शालावृकेभ्यस्तु सुखं जग्मुः स्वमालयं।।

आहूतो विद्यया भद्रे भार्गवेण महात्मना। त्वत्समीपमिहायातः कथंचित्प्राप्तजीवितः।।

हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया। स पुनर्देवयान्योक्तः पुष्पाण्याहर मे द्विज।।

वनं ययौ कचो विप्रो ददृशुर्दानवाश्च तम्। पुनस्तं पेषयित्वा तु समुद्राम्भस्यमिश्रयन्।।

adi-1-70-43__3222 चिरं गतं पुनः कन्या पित्रे तं संन्यवेदयत्। विप्रेण पुनराहूतो विद्यया गुरुदेहजः। पुनरावृत्य तद्वृत्तं न्यवेदयत तद्यथा।।

ततस्तृतीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः। प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तथा।।

`अपिबत्सुरया सार्धं कचभस्म भृगूद्वहः। सा सायन्तनवेलायामगोपा गाः समागताः।।

adi-1-70-46__3225 देवयानी शङ्कमाना दृष्ट्वा पितरमब्रवीत्।’ पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते।।

व्यक्तं हतो मृतो वापि कचस्तात भविष्यति। तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते।। `वैशंपायन उवाच।

श्रुत्वा पुत्रीवचः काव्यो मन्त्रेणाहूतवान्कचम्। ज्ञात्वा बहिष्ठमज्ञात्वा स्वकुक्षिस्थं कचं नृप’।। शुक्र उवाच।

बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः। विद्यया जीवितोऽप्येवं हन्यते करवाम किम्।।

adi-1-70-50__3229 मैवं शुचो मा रुद देवयानि न त्वादृशी मर्त्यमनुप्रशोचते। यस्यास्तव ब्रह्म च ब्राह्मणाश्च सेन्द्रा देवा वसवोऽथाश्विनौ च।।

adi-1-70-51__3230 सुरद्विषश्चैव जगच्च सर्व- मुपस्थाने सन्नमन्ति प्रभावात्। अशक्योऽसौ जीवयितुं द्विजातिः संजीवितो वध्यते चैव भूयः।। देवयान्युवाच।

adi-1-70-52__3231 यस्याङ्गिरा वृद्धतमः पितामहो बृहस्पतिश्चापि पिता तपोनिधिः। ऋषेः पुत्रं तमथो वापि पौत्रं कथं न शोचेयमहं न रुद्याम्।।

adi-1-70-53__3232 स ब्रह्मचारी च तपोधनश्च सदोत्थितः कर्मसु चैव दक्षः। कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये प्रियो हि मे तात कचोऽभिरूपः।। शुक्र उवाच।

adi-1-70-54__3233 असंशयं मामसुरा द्विषन्ति ये शिष्यं मेऽनागसं सूदयन्ति। अब्राह्मणं कर्तुमिच्छ्ति रौद्रा- स्ते मां यथा व्यभिचरन्ति नित्यम्। अप्यस्य पापस्य भवेदिहान्तः कं ब्रह्महत्या न दहेदपीन्द्रम्।। `वैशंपायन उवाच।

संचोदितो देवयान्या महर्षिः पुनराह्वयत्। संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम्।।

adi-1-70-56__3235 कचोऽपि राजन्स महानुभावो विद्याबलाल्लब्धमतिर्महात्मा।’ गुरोर्हि भीतो विद्यया चोपहूतः। शनैर्वाक्यं जठरे व्याजहार।।

adi-1-70-57__3236 `प्रसीद भगवन्मह्यं कचोऽहमभिवादये। यथा बहुमतः पुत्रस्तथा मन्यतु मां भवान्।।’ वैशंपायन उवाच।

adi-1-70-58__3237 तमब्रवीत्केन पथोपनीत- स्त्वं चोदरे तिष्ठसि ब्रूहि विप्र। अस्मिन्मुहूर्ते ह्यसुरान्विनाश्य गच्छामि देवानहमद्य विप्र।। कच उवाच।

adi-1-70-59__3238 तव प्रसादान्न जहाति मां स्मृतिः स्मरामि सर्वं यच्च यथा च वृत्तम्। नत्वेवं स्यात्तपसः संक्षयो मे ततः क्लेशं घोरमिमं सहामि।।

adi-1-70-60__3239 असुरैः सुरायां भवतोऽस्मि दत्तो हत्वा दग्ध्वा चूर्णयित्वा च काव्य। ब्राह्मीं मायां चासुरीं विप्र मायां त्वयि स्थिते कथमेवातिवर्तेत्।। शुक्र उवाच।

adi-1-70-61__3240 किं ते प्रियं करवाण्यद्य वत्से वधेन मे जीवितं स्यात्कचस्य। नान्यत्र कुक्षेर्मम भेदनेन दृश्येत्कचो मद्गतो देवयानि।। देवयान्युवाच।

adi-1-70-62__3241 द्वौ मां शोकावग्निकल्पौ दहेतां कचस्य नाशस्तव चैवोपघातः। कचस्य नाशे मम शर्म नास्ति तवोपघाते जीवितुं नास्मि शक्ता।। शुक्र उवाच।

adi-1-70-63__3242 संसिद्धरूपोऽसि बृहस्पतेः सुत यत्त्वां भक्तं भजते देवयानी। विद्यामिमां प्राप्नुहि जीवनीं त्वं न चेदिन्द्रः कचरूपी त्वमद्य।।

न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात्। ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि।।

adi-1-70-65__3244 पुत्रो भूत्वा भावय भावितो मा- मस्मद्देहादुपनिष्क्रम्य तात। समीक्षेथा धर्मवतीमवेक्षां गुरोः सकाशात्प्राप्य विद्यां सविद्यः।। वैशंपायन उवाच।

adi-1-70-66__3245 गुरोः सकाशात्समवाप्य विद्यां भित्त्वा कुक्षिं निर्विचक्राम विप्रः। कचोऽभिरूपस्तत्क्षणाद्ब्राह्मणस्य शुक्लात्यये पौर्णमास्यामिवेन्दुः।।

adi-1-70-67__3246 दृष्ट्वा च तं पतितं ब्रह्मराशि- मुत्थापयामास मृतं कचोऽपि। विद्यां सिद्धां तामवाप्याभिवाद्य ततः कचस्तं गुरुमित्युवाच।।

adi-1-70-68__3247 यः श्रोत्रयोरमृतं सन्निषिञ्चे- द्विद्यामविद्यस्य यथा त्वमार्यः। तं मन्येऽहं पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य जानन्।।

adi-1-70-69__3248 ऋतस्य दातारमनुत्तमस्य निधिं निधीनामपि लब्धविद्याः। ये नाद्रियन्ते गुरुमर्चनीयं पापाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठाः।। वैशंपायन उवाच।

adi-1-70-70__3249 सुरापानाद्वञ्चनां प्राप्य विद्वा- न्संज्ञानाशं चैव महातिघोरम्। दृष्ट्वा कचं चापि तथाभिरूपं पीतं तदा सुरया मोहितेन।।

adi-1-70-71__3250 समन्युरुत्थाय महानुभाव- स्तदोशना विप्रहितं चिकीर्षुः। सुरापानं प्रति संजातमन्युः काव्यः स्वयं वाक्यमिदं जगाद।।

adi-1-70-72__3251 यो ब्राह्मणोऽद्यप्रभृतीह कश्चि- न्मोहात्सुरां पास्यति मन्दबुद्धिः। अपेतधर्मा ब्र्हमहा चैव स स्या- दस्मिंल्लोके गर्हितः स्यात्परे च।।

adi-1-70-73__3252 मया चैतां विप्रधर्मोक्तिसीमां मर्यादां वै स्थापितां सर्वलोके। सन्तो विप्राः शुश्रुवांसो गुरूणां देवा लोकाश्चोपशृण्वन्तु सर्वे।। वैशंपायन उवाच।

adi-1-70-74__3253 इतीदमुक्त्वा स महानुभाव- स्तपोनिधीनां निधिरप्रमेयः। तान्दानवान्दैवविमूढबुद्धी- निदं समाहूय वचोऽभ्युवाच।।

adi-1-70-75__3254 आचक्षे वो दानवा बालिशाः स्थ सिद्धः कचो वत्स्यति मत्सकाशे। सञ्जीविनीं प्राप्य विद्यां महात्मा तुल्यप्रभावो ब्राह्मणो ब्रह्मभूतः।।

`योऽकार्षीद्दुष्करं कर्म देवानां कारणात्कचः। न तत्किर्तिर्जरां गच्छेद्याज्ञीयश्च भविष्यति।। वैशंपायन उवाच।’

एतावदुक्त्वा वचनं विरराम स भार्गवः। दानवा विस्मयाविष्टाः प्रययुः स्वं निवेशनम्।।

गुरोरुष्य सकाशे तु दश वर्षशतानि सः। अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम्।। ।।

इति श्रीमन्मेहाभारते आदिपर्वणि संभवपर्वणि सप्ततितमोऽध्यायः।। 70 ।।

1-70-3 विप्रदानवौ वव्राते जामातृत्वेनेति शेषः।। 1-70-25 प्रेषणैः प्रेष्यत्वादिभिः।। 1-70-31 उवाच शुक्रं प्रति।। 1-70-39 पेषः पिष्टम्। पिष्टीकृत्येत्यर्थः।। 1-70-43 गुरुदेहजः कचः। आवृत्य आगत्य। तद्वृत्तमसुरचेष्टितम्।। 1-70-44 ब्राह्मणाय शुक्राय।। 1-70-50 मर्त्यं त्वं तु मत्प्रभावादमरकल्पासि। ब्रह्म वेदः तस्य नमनं स्वार्थप्रकाशेन।। 1-70-60 चाद्दैवीं मायां। मायात्रयविदि त्वयि सति को देवोऽसुरो ब्राह्मणो वाऽतिक्रामेदतस्त्वदुदरभेदनं मम दुःसाध्यमेवेति भावः।। 1-70-65 भावय जीवय भावितो मया जीवितः। कृतघ्नो मा भूरिति भावः।। 1-70-66 शुक्लस्याह्नो रवेर्वा अत्यये शुक्लात्यये।। 1-70-69 ऋतस्य वेदस्य। निधीनां विद्यानां निधिमाश्रयम्। प्रतिष्ठा विद्याफलं तच्छून्या अप्रतिष्ठाः।। सप्ततितमोऽध्यायः।। 70 ।।

अध्यायः 071

स्वपाणिग्रहणार्थं प्रार्थितवत्या देवयान्या कचस्य विवादः।। 1 ।। कचदेवयान्योः परस्परशापदानम्।। 2 ।।

adi-1-71-0__3258 वैशंपायन उवाच।

समावृतव्रतं तं तु विसृष्टं गुरुणा कचम्। प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम्।।

ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च। भ्राजसे विद्यया चैव तपसा च दमेन च।।

ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः। तथा प्रान्यश्च पूज्यश्च मम भूयो बृहस्पतिः।।

एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन। व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि।।

स समावृतविद्यो मां भक्तां भजितुमर्हसि। गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम्।। कच उवाच।

पूज्यो मान्यश्च भगवान्यथा तव पिता मम। तथा त्वमनवद्याङ्गि पूजनीयतरा मम।।

प्राणेभ्योऽपि प्रियतरा भार्गवस्य महात्मनः। त्वं भत्रे धर्मतः पूज्या गुरुपुत्री सदा मम।।

यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव। देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि।। देवयान्युवाच।

गुरुपुत्रस्य पुत्रो वै न त्वं पुत्रश्च मे पितुः। तस्मात्पूज्यश्च मान्यश्च ममापि त्वं द्विजोत्तम।।

असुरैर्हन्यमाने च कच त्वयि पुनःपुनः। तदाप्रभृति या प्रीतिस्तां त्वमद्य स्मरस्व मे।।

सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम्। न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम्।। कच उवाच।

अनियोज्ये नियोक्तुं मां देवयानि न चार्हसि। प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरा शुभे।।

यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने। तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि।।

भगिनी धर्मतो मे त्वं मैवं वोचः सुमध्यमे। सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम।।

adi-1-71-15__3273 आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि। अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे। अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम।। देवयान्युवाच।

यदि मां धर्मकामार्थे प्रत्याख्यास्यसि याचितः। ततः कच न ते विद्या सिद्धिमेषा गमिष्यति।। कच उवाच।

गुरुपुत्रीति कृत्वाऽहं प्रत्याचक्षे न दोषतः। गुरुणा चाननुज्ञातः काममेवं शपस्व माम्।।

आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया। शप्तो ह्यनर्हः शापस्य कामतोऽद्य न धर्मतः।।

तस्माद्भवत्या यः कामो न तथा स भविष्यति। ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति।।

फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा। अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति।। वैशंपायन उवाच।

एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा। त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः।।

तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः। बृहस्पतिं सभाज्येदं कचं वचनमब्रुवन्।। adi-1-71-23x__363देवा ऊचुः।

यत्त्वयास्मद्धितं कर्म कृतं वै परमाद्भुतम्। न ते यशः प्रणशिता भागभाक्व भविष्यसि।। ।।

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकसप्ततितमोऽध्यायः।। 71 ।।

1-71-1 समावृतव्रतं समाप्तव्रतम्।। 1-71-9 गुरुः पुत्रो यस्य अङ्गिरसः पुत्रः पौत्रः।। 1-71-15 उत्थिता अनलसा।। 1-71-17 अननुज्ञातस्त्वदुक्तकार्ये।। 1-71-23 प्रणशिता प्रणङ्क्ष्यति।। एकसप्ततितमोऽध्यायः।। 71 ।।

अध्यायः 072

स्वर्गंप्रत्यागतात्कचात्संजीविन्यध्ययनेन देवानां कृतार्थता।। 1 ।। शुक्रवृषपर्वणोर्विरोधोत्पादनार्थमिन्द्रकृतं कन्यानां वस्त्रमिश्रणम्।। 2 ।। वस्त्रमिश्रणेन शर्मिष्ठादेवयान्योर्विरोधः।। 3 ।। शर्मिष्ठया कूपे प्रक्षिप्ताया देवयान्या ययातिना कूपादुद्धरणम्।। 4 ।। शुक्रस्य कूपसमीपागमनं देवयानीसान्त्वनं च।। 5 ।।

adi-1-72-0__3282 वैशंपायन उवाच।

कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः। कचादधीत्य तां विद्यां कृतार्था भरतर्षभ।।

सर्व एव समागम्य शतक्रतुमथाब्रुवन्। कालस्ते विक्रमस्याद्य जहि शत्रून्पुरन्दर।। वैशंपायन उवाच।

एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा। तथेत्युक्त्वा प्रचक्राम सोऽपश्यत वने स्त्रियः।।

क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे। वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत्।।

ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा। वस्त्राणि जगृहुस्तानि यथाऽऽसन्नान्यनेकशः।।

तत्र वासो देवयानयाः शर्मिष्ठा जगृहे तदा। व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः।।

ततस्तयोर्मिथस्तत्र विरोधः समजायत। देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते।। देवयान्युवाच।

कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि। समुदाचारहीनाया न ते साधु भविष्यति।। सर्मिष्ठोवाच।

आसीनं च शयानं च पिता ते पितरं मम। स्तौतिबन्दीव चाभीक्ष्णं नीचैः स्थित्वा विनीतवत्।।

याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः। सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः।।

आदुन्वस्व विदुन्वस्व द्रुह्य कुप्यस्व याचकि। अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि।।

adi-1-72-12__3294 लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम्। `प्रतिकूलं वदसि चेदितःप्रभृति याचकि।।’ वैशंपायन उवाच।

adi-1-72-13__3295 समुच्छ्रयं देवयानीं गतां सक्तां च वाससि। शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमागमत्। हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया।।

adi-1-72-14__3296 अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा। `प्रविश्य स्वगृहं स्वस्था धर्ममासुरमास्थिता।’ अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः।।

श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः। स नाहुषः प्रेक्षमाण उदपानं गतोदकम्।।

ददर्श राजा तां तत्र कन्यामग्निशिखामिव। तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम्।।

सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना। का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला।।

दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा। कथं च पतिताऽस्यस्मिन्कूपे वीरुत्तृणावृते।।

adi-1-72-19__3301 दुहिता चैव कस्य त्वं वद सत्यं सुमध्यमे। देवयान्युवाच। योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया।।

तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते। एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः।।

समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः। जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम्।।

adi-1-72-22__3304 तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि। वैशंपायन उवाच। तामथो ब्राह्मणीं कन्यां विज्ञायनहुषात्मजः।।

गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात्। उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः।। `ययातिरुवाच।

गच्छ भद्रे यथाकामं न भयं विद्यते तव। इत्युच्यमाना नृपतिं देवयानीदमुत्तरम्।।

उवाच मामुपादाय गच्छ शीघ्रं प्रियो हि मे। गृहीताहं त्वया पाणौ तस्माद्भर्ता भविष्यसि।।

इत्येवमुक्तो नृपतिराह क्षत्रकुलोद्भवः। त्वं भद्रे ब्राह्मणी तस्मान्मया नार्हसि सङ्गमम्।।

सर्वलोकगुरुः काव्यस्त्वं तस्य दुहिता शुभे। तस्मादपि भयं मेऽद्य ततः कल्याणि नार्हसि।। देवयान्युवाच।

यदि मद्वचनान्नाद्य मां नेच्छसि नराधिप। त्वामेव वरये पित्रा तस्माल्लप्स्यसि गच्छ हि।। वैशंपायन उवाच।

आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ। गते तु नाहुषे तस्मिन्देवयान्यप्यनिन्दिता।।

क्वचिद्गत्वा च रुदती वृक्षमाश्रित्य धिष्ठिता। ततश्चिरायमाणायां दुहितर्यथ भार्गवः।।

संस्मृत्योवाच धात्रीं तां दुहितुः स्नेहविक्लवः। धात्रि त्वमानय क्षिप्रं देवयानीं समुध्यमाम्।।

इत्युक्तमात्रे सा धात्री त्वरिताऽऽनयितुं गता। यत्रयत्र सशीभिः सा गता पदममार्गत।।

सा ददर्श तथा दीनां श्रमार्तां रुदतीं स्थिताम्। वृत्तान्तं किमिदं भद्रे शीघ्रं वद पिताह्वयत्।।

एवमुक्ताह धात्रीं तां शर्मिष्ठावृजिनं कृतम्। उवाच शोकसंतप्ता घूर्णिकामागतां पुरः’।। देवयान्युवाच।

adi-1-72-35__3317 त्वरितं घूर्णिके गच्छ शीघ्रमाचक्ष्व मे पितुः।।

adi-1-72-36__3318 नेदानीं संप्रवेक्ष्यामि नगरं वृषपर्वणः। वैशंपायन उवाच। सा तत्र त्वरितं गत्वा घूर्णिकाऽसुरमन्दिरम्।।

दृष्ट्वा काव्यमुवाचेदं संभ्रमाविष्टचेतना। आचचक्षे महाप्राज्ञं देवयानीं वने हताम्।।

शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः। श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम्।।

त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने। दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने।।

बाहुभ्यां संपरिष्वज्य दुःखितो वाक्यमब्रवीत्। आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः।।

adi-1-72-41__3323 मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता। देवयान्युवाच। निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम।।

शर्मिष्ठया यदुक्ताऽस्मि दुहित्रा वृषपर्वणः।। सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः।।

एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी। वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम्।।

स्तुवतो दुहिता नित्यं याचतः प्रतिगृह्णतः। अहं तु स्तूयमानस्य ददतोऽप्रतिगृह्णतः।।

इदं मामाह शर्मिष्ठा दुहिता वृषपर्वणः। क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः।।

यद्यह स्तुवतस्तात दुहिता प्रतिगृह्णतः। प्रसादयिष्ये शर्मिष्ठामित्युक्ता तु सखी मया।।

adi